________________
245
परिक्षेपेण साशीति, योजनानां शतत्रयम् । मध्ये च द्वीप एकैको, नदीकुण्डसमाभिधः ॥ १५४ ॥ यथा गाहावतीनद्याः, कुण्डं गाहावतीति च । तत्र गाहावतीद्वीपो, भवत्येवं परेऽप्यमी ॥ १५५ ॥ योजनानि षोडशामी, विष्कम्भायाममानत: । सातिरेकाणि पञ्चाशत्, प्रज्ञप्ता: परिवेषतः ॥ १५६ ॥ किञ्च सर्वेऽप्यमी दीपा, द्वौ क्रोशावुच्छ्रिता जलात् । पद्मवेदिकया सर्व, वनेन च विराजिताः ॥ १५७ ॥ मध्ये च तेषां द्वीपानामेकैकं भवनं भवेत् । नदीनामसदृग्नाम्ना, देव्या योग्यमनुत्तरम् ॥ १५८ ॥ अर्धक्रोशव्यासमेकक्रोशायतं मनोहरम् । देशोनक्रोशतुङ्गं स्वदेवीशय्याविभूषितम् ॥ १५९ ॥ एताश्च गाहावत्याद्या, निम्नगा निखिला अपि । पञ्चविंशं योजनानां, शतं विष्कम्भतो मता: ॥ १६० ॥ सार्द्ध योजने निम्ना, आरभ्य हृदनिर्गमात् । शीताशीतोदाप्रवेशपर्यन्तं सर्वतः समाः ॥ १६१ ॥
यत्तु श्रीमलयगिरयः क्षेत्रसमासवृत्तौ जम्बूद्धीपाधिकारे एताश्च गाहावतीप्रमुखा नद्यः सर्वा अपि सर्वत्र कुण्डादिनिर्गमे शीताशीतोदयोः प्रवेशे च तुल्यप्रमाणविष्कम्भोद्धेधा इति स्वयमुक्त्वा तस्मिन्नेव ग्रन्थे धातकीखण्डपुष्करार्धाधिकारयोस्तत्रत्यनदीनां द्विगुणविस्तारातिदेशं व्याख्यानयन्तः प्रोचुः, यथा “जम्बूद्धीपे रोहितांशारोहितासुवर्णकूलारूप्यकूलानां गाहावत्यानदीनां च द्वादशानामन्तरनदीनां सर्वाग्रेण षोडशानां नदीनां प्रवाहे विष्कम्भो द्वादशयोजनानि सार्द्धानि उद्धेधः क्रोशमेकं समुद्रप्रवेशे गाहावत्यादीनां च महानदीप्रवेशे विष्कम्भो योजनानि १२५ उद्धेधो योजने २ क्रोश २ ।” तदभिप्रायं न विद्मः । किञ्चासां सर्वत्र समविष्कम्भकत्वे आगमवत् युक्ति रप्यनुकूला । तथाहि । आसां विष्कम्भवैषम्ये उभयपार्श्ववर्तिनोर्विजययोरपि विष्कम्भवैषम्यं
स्यात् । इष्यते च समविष्कम्भकत्वमिति ॥ जगतीसन्निधौ शीताशीतोदयोस्तटद्धये । स्यादेकैकं वनमुखमेवं चत्वारि तान्यपि ॥ १६२ ॥ आद्यं वनमुखं शीतानीलवद्भूधरान्तरे । द्वितीयं च वनमुखं, शीतां निषधमन्तरा ॥ १६३ ॥ तृतीयं च वनमुखं, शीतोदानिषधान्तरे । शीतोदानीलवन्मध्ये, चतुर्थं परिकीर्तितम् ॥ १६४ ॥ याम्योत्तरायतानां प्राक्प्रत्यविष्कम्भशालिनाम् । एषां विजयवर्ध्य, सर्वेषामपि भाव्यताम् ॥ १६५ ॥ एका कलैषां विष्कम्भो, नीलवन्निषधान्तिके । ततो जगत्या चक्रत्वाद्र्धते जगतीदिशि ॥ १६६ ॥ त्रिसहस्री योजनानामष्टसप्ततिवर्जिता । शीता शीतोदयोः पार्श्व, वर्धमानः क्रमादभूत् ॥ १६७ ॥ अत्रायमाम्नाय:षोडशानां विजयानां, वक्षस्कारष्टकस्य च । षण्णामन्तर्निम्नगानां, कुरुणां गजदन्तयोः ॥ १६८ ॥ नीलवन्निषधज्याभ्यां, विष्कम्भे शोधिते स्थितम् । कलादयं तत्सैकैका, विष्कम्भो वनयोर्द्धयोः ॥ १६९ ॥ दैध्येऽतीते योजनादौ, यावति व्यास इष्यते । निहन्यते तद् द्वाविंशैरेकोनत्रिंशता शतैः ॥ १७० ॥ पुनरेकोनविंशत्याहत्य लक्षैस्त्रिभिर्भजेत् । सहस्रपञ्चदशकसार्धद्विशतसंयुतैः ॥१७१ ॥