SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 244 चित्रश्च ब्रह्मकूटश्च, नलिनीकूट इत्यपि । एकशैलश्चेति शीतोत्तरकूले धराधराः ॥ १२७ ॥ त्रिकूटश्च वैश्रमणोऽञ्जनो मातञ्जनोऽपि च । शीताया दक्षिणतटे, वक्षस्काराचला इमे ॥ १२८ ॥ अङ्कापाती पक्ष्मपाती, आशीविषः सुखावहः । शीतोदाया याम्यतटे, वक्षस्काराद्रयः स्मृताः ॥ १२९ ॥ चन्द्रः सूर्यश्च नागश्च, देवेश्चेति महीधराः । शीतोदाया उदक्कूले, सर्व एवं च षोडश ॥ १३० ॥ एकतोऽमी नीलवता, सज्यन्ते निषधेन वा । द्वितीयान्तेन शीतोदां, शीतां वा संस्पृशन्ति च ॥ १३१ ॥ योजनानां पञ्चशतान्येते विष्कम्भतो मता । सर्वत्र सर्वे सदृशाः, सर्वरत्नमया अपि ॥ १३२ ॥ नीलवन्निषधक्ष्माभृत्समीपेऽमी समुन्नता: । चतुःशी योजनानां, शतमेकं भुवोऽन्तरे ॥ १३३॥ ततश्च मात्रया वर्द्धमाना: सर्वे यथाक्रमम् । शीताशीतोदयो: पार्श्व, जाता: पञ्चशतोन्नता: ॥ १३४ ॥ पञ्चविंशं योजनानां, शतं तत्र भुवोऽन्तरे । तुरङ्गस्कन्धसंस्थानसंस्थिता इति वर्णिता: ॥ १३५ ॥ स्वस्वाह्वानसमाहानैकैकवृन्दारकाश्रिताः । यथा चित्रगिरौ चित्रस्वाम्येवमपरेष्वपि ॥ १३६ ॥ अथ चत्वारि, चत्वारि कूटान्येषु किलाद्रिषु । भवन्त्येवं चतुःषष्टिरेतानि सर्वसंख्यया ॥ १३७ ॥ आद्यं विवक्षितं गिरिप्राग्वर्तिविजयाख्यया । नीलवन्निषधग्राव्णोस्समीपेऽन्यतरस्य तत् ॥ १३८ ॥ य: पश्चिमायां विजयो, द्वैतीयीकं तदाख्यया । तृतीयं निजनाम्नैव, सिद्धायतनमन्तिमम् ॥ १३९ ॥ वियच्चुम्बिचलत्केतुसिद्धायतनबन्धुरम् । शीताशीतोदयोरन्यतरस्याः सविधे च तत् ॥ १४० ॥ कच्छसुकच्छयोर्मध्यस्थिते चित्रगिरौ यथा । आद्यं सुकच्छकूटं स्यात्, कच्छकूटं द्वितीयकम् ॥ १४१ ॥ तृतीयं चित्रकूटं स्यात्, सिद्धायतनमन्तिमम् । शीताशीतोदयोरेवमुदग्रोधसि भाव्यताम् ॥ १४२ ॥ त्रिकूटे च गिरौ वत्सकूटं निषधसन्निधौ । द्वितीयं च सुवत्साख्यं, ततस्त्रिकूटसंज्ञितम् ॥ १४३ ॥ तुर्यं च सिद्धायतनं, सर्वेष्वप्येवमद्रिषु । शीताशीतोदयोर्याम्यतटस्थेषु विभाव्यताम् ॥ १४४ ॥ एवं चतुर्णां चतुर्णा, सिद्धायतनशालिनाम् । कूटानां श्रेणयः शीताशीतोदोभयकूलयोः ॥ १४५ ॥ पिधानमालिनां दिव्यकलशानामिवालयः । भान्त्यर्हदभिषेकाय, न्यस्तानामम्बुपूर्तये ॥ १४६ ॥ सिद्धायतनवर्जानि, स्वस्वतुल्याख्यनाकिना । तान्याश्रितानि विजयदेववत्ते महर्टिकाः ॥ १४७ ॥ शीताशीतोदयोर्याम्योत्तरयोर्ये सुधाभुजः । क्रमात्तेषां राजधान्यो, मेरूतो दक्षिणोत्तराः ॥ १४८ ॥ गाहावती हृदावती, तृतीया वेगवत्यपि । शीताया उत्तरतटे स्युस्तिस्रोऽन्तरनिम्नगाः ॥ १४९ ॥ शीतायाम्यतटे तप्ता, मत्तोन्मत्तेति निश्चिताः । क्षीरोदा शीतस्रोताश्चान्तर्वाहिनीति नामतः ॥ १५० ॥ शीतोदाया याम्यतटे, तस्या उत्तरत: पुन: । उर्मिगम्भीरफेनेभ्यो, मालिन्योऽन्तरनिम्नगाः ॥ १५१ ॥ द्वादशानामप्यमूषामेकैकं कुण्डमीरितम् । स्वतुल्याख्यं नीलवतस्समीपे निषधस्य वा ॥ १५२ ॥ कुण्डं पुनस्तदेकैकं, विष्कम्भायामतो मतम् । सपादं योजनशतमुद्धिद्धं दशयोजनीम् ॥ १५३ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy