________________
243
तस्याप्युभयतः कुण्डे, प्राग्वद् द्वे मनोरमे । सिन्धुकुण्डं पश्चिमतो, गङ्गाकुण्डं च पूर्वतः ॥ १०२ ॥ ताभ्यां गङ्गासिन्धुनद्यौ, प्रव्यूढे उत्तराध्वना । प्राग्वद्धिभिन्नवैताढ्ये, शीतोदां विशतो नदीम् ॥ १०३ ॥ इत्थमेवोत्तरतटे, शीतोदासरितः किल । नितम्बे दक्षिणे नीलवतोऽस्ति वृषभाचलः ॥ १०४ ॥ प्राग्वद् वृषभकूटस्य, गिरेरस्यास्ति पूर्वतः । रक्ताकुण्डं रक्तवतीकुण्डं पश्चिमतस्ततः ॥ १०५ ॥ एताभ्यामपि कुण्डाभ्यां, निर्गत्य दक्षिणामुने । रक्तारक्तवती नद्यौ, भित्त्वा वैताट्यभूधरम् ॥ १०६ ॥ शीतोदायां प्रविशतो, याम्येन रुजुनाध्वना । गङ्गासिन्धुश्रवन्तीभ्यामिमाः सर्वात्माना समाः ॥ १०७ ॥
तथाहुः क्षमाश्रमणमिश्राः । [बृहत्क्षेत्रसमास अध्या. १. श्लो. ३८६]
सीयाइउइन्नेसु, सीओयाए य जम्मविजएसु । गङ्गासिन्धु नईओ, इयरेसु य रत्तरतवई । कुण्डान्येवं चतुःषष्टिः, द्वात्रिंशत् वृषभाद्रयः । स्वरूपमेषां भरतवर्तिकुण्डर्षभाद्रिवत् ॥ १०८ ॥ चतुःषष्टेः तथैवासां, नदीनां हृदनिर्गमात् । आरभ्य शीताशीतोदावाहिनीसङ्गमावधि ॥ १०९ ॥ सर्वं स्वरूपं भरतगङ्गासिन्धुसरित्समम् । प्रत्येकं परिवारोऽपि, तावान् ज्ञेयो विशारदैः ॥ ११०॥ गङ्गारक्तान्यतरस्याः, प्रवेशे मागधाभिधम् । शीताशीतोदयोरन्यतरस्यां तीर्थमाहितम् ॥ १११ ॥ एवं सिन्धुरक्तवत्योोंगे प्रभासनामकम् । तयोर्द्धयोरन्तराले, वरदामं भवेदिह ॥ ११२ ॥ एवं तीर्थत्रयं ज्ञेयं, विजयं विजयं प्रति । स्वरूपमेषां भरततीर्थवत् परिभाव्यताम् ॥ ११३ ॥ औत्तराहेषु शीतायाः, कच्छादिविजयेष्विमाः । राजधान्यो दक्षिणार्धमध्यखण्डेषु कीर्तिताः ॥ ११४ ॥ क्षेमा क्षेमपुरी चैवारिष्टा रिष्टवती पुरी । खड्गी मञ्जुषौषधिश्च, पुरी च पुण्डरीकिणी ॥ ११५ ॥ शीताया दाक्षिणात्येषु, वत्सादिविजयेष्विमा: । राजधान्य स्तरार्द्ध, मध्यखण्डेषु वर्णिताः ॥ ११६ ॥ सुसीमा कुण्डला चैवापराजिता प्रभङ्करा । अङ्कावती पक्ष्मवती, शुभाथ रत्नसञ्चया ॥ ११७ ॥ शीतोदाया याम्यतटे, पक्ष्मादिविजयेष्विमा: । उत्तरार्द्धमध्यखण्डे, राजधान्यो निरूपिताः ॥ ११८ ॥ अश्वपुरी सिंहपुरी, महाख्या विजयाभिधा । अपराजितापराख्या, शोका च वीतशोकिका ॥ ११९ ॥ शीतोदाया उदीच्येषु, वप्रादिविजयेष्विमाः । याम्यार्द्ध मध्यखण्डेषु, राजधान्यो जिनैः स्मृताः ॥ १२० ॥ विजया वैजयन्ती च, जयन्ती चापराजिता । चक्रापुरी खगपुर्यवन्ध्याऽयोध्येति नामतः ॥ १२१ ॥ विजयेष्वेषु मनुजाः, पञ्चचापशतोन्नताः । जघन्योत्कर्षत: पूर्वकोटीक्षुल्लभवायुषः ॥ १२२ ॥ नानासंहनना नानासंस्थाना विविधाशया: । मृत्वा नानागतिं यान्ति, स्वस्वकर्मानुसारतः ॥ १२३ ॥ काल: सदात्र दु:षमसुषमारकसन्निभः । साम्प्रतीनभरतवत्, गर्भापत्यावनादिकम् ॥ १२४ ॥ आहारस्यान्तरे माने, चानयत्यं तथैव हि । ततश्चतुःशतगुणं, मानं च स्यात् गृहादिषु ॥ १२५ ॥ चित्राद्यान् देवशैलांस्तान्, वक्षस्कारगिरिन् विदुः । चतुरश्चतुरश्शीताशीतोदयोस्तटद्धये ॥ १२६ ॥