SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 242 समक्षेत्रस्थितेश्चैषां धनुर्बाहाद्यसम्भवः । मूलादूर्ध्वं योजनानां दशानां समतिक्रमे ।। ७५ ।। एषु द्वे खेचरश्रेण्यौ तयोर्विद्याभृतामिह । पुराणि पञ्चपञ्चाशत्, प्रत्येकं पार्श्वयोर्द्धयोः ॥ ७६ ॥ ततः पुनर्योजनानां दशानां समतिक्रमे । शक्रेशानाभियोग्यानां द्वे श्रेण्यौ पार्श्वयोर्द्वयोः ॥ ७७ ॥ तत्रापि - शीताया दक्षिणतटे, वैताढ्याः विजयेषु ये । तत्राभियोग्यश्रेण्यो यास्ताः सौधर्मस्य वज्रिणः ॥ ७८ ॥ शीतायाश्चोत्तरतटे, वैताढ्या विजयेषु ये । तत्राभियोग्यश्रेण्यो यास्ता ईशानसुरेशितुः ॥ ७९ ॥ सर्वेऽप्यमी नवनवकूटालङ्कृतमौलयः । मानं स्वरूपं कूटानामुक्तवैताढ्यकूटवत् ॥ ८० ॥ पूर्वस्यां प्रथमं कूटं, सिद्धायतनसंज्ञितम् । ततः स्वस्वविजयार्द्धकूटं दक्षिणशब्दयुक् ॥ ८१ ॥ खण्डप्रपातकूटं स्यान्माणिभद्रं ततः परम् । वैताढ्यं पूर्णभद्रं च तमिस्रगुहमित्यपि ॥ ८२ ॥ ततः स्वस्वविजयार्द्धकूटमुत्तरशब्दयुक् । वैताढ्येष्यन्तिमं कूटं ज्ञेयं वैश्रमणाभिधम् ॥ ८३ ॥ वैताढ्यषु हि सर्वेषु, कूटं द्वितीयमष्टमम् । स्याद्दक्षिणोत्तरस्वस्वविजयार्द्धाभिधं क्रमात् ॥ ८४ ॥ यथा दक्षिणकच्छार्द्धकूटं द्वितीयमष्टमम् । भवेदुत्तरकच्छार्द्धं, कच्छवैताढ्यपर्वते ॥ ८५ ॥ अर्धे द्वे द्वे विजयानां, वैताढ्यगिरिणा कृते । यथा दक्षिणकच्छार्द्धं तथा कच्छार्धमुत्तरम् ॥ ८६ ॥ अर्धस्य तस्यैकैकस्य, सहस्राण्यष्ट दीर्घता । योजनानां द्विशत्येकसप्तत्याढ्या तथा कला ॥ ८७ ॥ नीलवन्निषधक्ष्माभृद्दक्षिणोदग्रितम्बयोः । शैलो वृषभकूटः स्याद्विजयं विजयं प्रति ॥ ८८ ॥ तस्य चाद्रेरुभयतः, कुण्डमेकैकमस्ति तत् । सिन्धुकुण्डं पश्चिमतो, गङ्गाकुण्डं च पूर्वतः ॥ ८९ ॥ ते च षष्टिं योजनानि, विष्कम्भायामतो मते । किञ्चिदूननवत्याढ्यं शतं च परिवेषतः ॥ ९० ॥ योजनानि दशोद्धिद्धे, विमलोदकपूरिते । द्वीपेनैकैकेन रम्ये, स्वदेवीभवनस्पृशा ॥ ९१ ॥ एताभ्यामथ कुण्डाभ्यां, सिन्धुर्गङ्गा च निम्नगे । दक्षिणेन तोरणेन, निर्गते दक्षिणामुखे ॥ ९२ ॥ अपान्तरालेऽनेकाभिर्नदीभिः पथि संश्रिते । वैताढ्यसविधे सप्तनदीसहस्रसेविते ॥ ९३ ॥ तमिस्रायाः पश्चिमतः, सिन्धुर्वैताढ्यभूधरम् । गङ्गा खण्डप्रपातायाः, प्राग्विभिद्य च निर्गते ॥ ९४ ॥ याम्यार्धेऽपि नदीसप्तसहस्रसंश्रिते इति । सरित्सहसैः प्रत्येकं चतुर्दशभिरन्विते ॥ ९५ ॥ शीतानदीं प्रविशतो, दक्षिणाभिमुखाध्वना । ततो भवन्ति षट्खण्डाः सर्वेऽपि विजया इमे ॥ ९६ ॥ शीताया याम्यकूलेऽपि, विजयेष्वेवमष्टसु । निषधस्योदग्नितम्बे, एकैको वृषभाचलः ॥ ९७ ॥ तस्याप्युभयतः प्राग्वत्, कुण्डे द्वे द्वे तथाविधे । प्रत्यग् रक्तवतीकुण्डं, रक्ताकुण्डं च पूर्वतः ॥ ९८ ॥ ताभ्यामपि कुण्डाभ्यां निर्गते उत्तरामुखे । रक्तारक्तवती नद्यौ भित्त्वा वैताढ्यभूधरम् ॥ ९९ ॥ शीतानदीं प्रविशतः, स्वरूपं पुनरेतयोः । पूर्वोक्ताभिर्नदीभिः स्यान्निःशेषमविशेषितम् ॥ १०० ॥ शीतोदायाम्यकूलेऽपि, विजयेष्वेवमष्टसु । निषधस्योदग्नितम्बे, एकैको वृषभाचलः ॥ १०१ ॥ 1
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy