SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ 239 अथ सप्तदशः सर्गः । मध्ये द्वयोपर्वतयोनीलवन्निषधाख्ययोः । भात्यायतचतुरस्रं, क्षेत्रं महाविदेहकम् ॥१॥ सर्वक्षेत्रगुरुत्वान्महाप्रमाणाङ्गजनयुतत्वात् वा । इदमुत महाविदेहाभिधसुरयोगान्महाविदेहाख्यम् ॥ २ ॥ त्रयस्त्रिंशद्योजनानां, सहस्राणि च षट्शति । युक्ता चतुरशीत्यास्य, व्यास: कलाचतुष्ठयम् ॥३॥ वर्षवर्षधराद्रीणामन्येषां तु जिनेश्वरैः । अन्त्यप्रदेशपङ्क्तिर्या, सा जीवेति निरूपिता ॥४॥ अस्मिन्क्षेत्रे पुनर्मध्यप्रदेशपङिक्तरायता । सा प्रत्यञ्चा भवेत् पूर्णलक्षयोजनसम्मिता ॥५॥ ततश्चापेक्ष्य तां जीवां, धनुःपृष्ठं द्वयं भवेत् । तत्रैकं दक्षिणाब्धिस्पृगुत्तराब्धिश्रितं परम् ॥ ६॥ एवं शरोऽपि द्विविधो, दक्षिणोत्तरभेदतः । पूर्वापरैवं बाहापि, प्रत्येकं द्विविधा भवेत् ॥७॥ लक्षार्धं योजनान्यस्य, विशिनौ दक्षिणोत्तरौ । दाक्षिणात्येतरधनुःपृष्ठमानमथ ब्रुवे ॥८॥ अष्टपञ्चाशत्सहस्राधिकं योजनलक्षकम् । शतं त्रयोदशयुतं, सार्धाः कलाश्च षोडश ॥९॥ सहस्राः षोडशशतान्यष्टौ त्र्यशीतिरेकिका । बाहा त्रयोदश कला:, कलातुर्यांशसंयुताः ॥ १० ॥ शतानि त्रीणि कोटीनां, कोटय: सप्तविंशतिः । लक्षाश्चतुर्दश तथा, सहस्राण्यष्टसप्ततिः ॥ ११ ॥ पञ्चभिश्चाभ्यधिकानि, योजनानां शतानि षट् । कलादयं च विकला, एकादश तथोपरि ॥ १२ ॥ एतन्महाविदेहस्य, गणितं प्रतरात्मकम् । भव्यलोकोपकाराय, तत्त्वविद्भिनिरूपितम् ॥ १३ ॥ महाविदेहक्षेत्रं तच्चतुर्धा वर्णितं जिनैः । पूर्वापरविदेहाश्च, द्विविधाः कुरवस्तथा ॥ १४ ॥ तत्र मेरोरुत्तरस्यामुत्तराः कुरवः स्मृताः । गन्धमादनसन्माल्यवतोरन्तगिरीन्द्रयोः ॥ १५ ॥ दक्षिणस्यां पुनर्देवकुरवः सुरभूभृतः । विद्युत्प्रभसौमनसगजदन्तनगान्तरे ॥१६॥ मेरोश्च पूर्वतः पूर्वविदेहाः परिकीर्तिताः । तथापरविदेहाश्च, मेरोः पश्चिमतस्स्मृताः ॥ १७ ॥ शीतया सरिता पूर्वविदेहा विहिता द्विधा । कृताश्शीतोदयाऽप्येवं द्विधाऽपरविदेहकाः ॥ १८ ॥ अष्टौ पूर्वविदेहेषु, शीतोत्तरतटे किल । भवन्ति विजयाश्चक्रिजेयषट्खण्डलक्षिताः ॥ १९ ॥ अन्तर्नदीभिस्तिसृभिर्वक्षस्काराचलैस्तथा । चतुर्भिः कृतसीमानो, भवन्तीत्येवमष्ट ते ॥ २० ॥ शीताया दक्षिणतटे, तथैव विजयाष्टकम् । अष्टाष्टौ विजया एवं, शीतोदाकूलयोरपि ॥ २१ ॥ पूर्वार्ध च विदेहानां, मही करतलोपमा । ततो नद्यद्रिविजयास्समश्रेण्या स्थिता इह ॥ २२ ॥ अपरार्धे तु धरणी, वियोगिनीव हीयते । समभूमैस्समारभ्य, पश्चिमायां क्रमात्ततः ॥ २३॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy