________________
240
विजये नलिनावत्यां, वप्राख्ये चान्तवर्तिनः । सहस्रं योजनान्युण्डा, ग्रामा भवन्ति केचन ॥ २४ ॥ ततोऽधोलौकिकग्रामा, इति ते ख्यातिमैयरुः । तेषामन्ते स्थिता भूमिभित्ती रोऽद्भुमिवार्णवम् ॥ २५ ॥ तत्रैव जगतीभित्तिर्जयन्तद्वारराजिता । ऊर्ध्वं स्थिताधोग्रामाणां, दिदृक्षुरिव कौतुकम् ॥ २६ ॥ शीतोदापि स्त्रीस्वभावादिवाधोगामिनी क्रमात् । योजनानां सहस्रेऽब्धि, याति भित्त्वा जगत्यधः ॥ २७ ॥ एवं च पश्चिमार्धस्य, क्रमनिम्ना क्षितिर्भवेत् । कूपकोशसमाकर्षिवृषगन्तव्यभूरिव ॥ २८ ॥ ततो निम्ननिम्नतरा, भवन्ति समभूतलात् । तत्रत्या विजयाश्शैलास्सरितश्च यथोत्तरम् ॥ २९ ॥ माल्यवद्गजदन्तस्य, पूर्वतो विजयो भवेत् । कच्छाख्यस्तस्य पूर्वान्ते, सीमकृच्चित्रपर्वत: ॥ ३०॥ तत: सुकच्छविजयस्तस्यापि सीमकारिणी । गाहावती नाम नदी, महाकच्छस्ततः परम् ॥ ३१ ॥ विजयस्यास्य पूर्वान्ते, बह्मकूटाभिधो गिरिः । कच्छावतीति विजयस्तत: परमुदीरितः ॥ ३२ ॥ हृदावती नदी तस्य, मर्यादाकारिणी तत: । आवर्तविजयोऽस्यान्ते, नलिनीकूटपर्वत: ॥ ३३ ॥ मङ्गगलावर्तविजय, एतस्मात्पूर्वतो भवेत् । तस्य वेगवती नाम, नदी सीमाविधायिनी ॥ ३४ ॥ विजयः पुष्कलस्तस्याः, पूर्वतस्तस्य सीमकृत् । एकशैलगिरिस्तस्माद्विजय: पुष्कलावती ॥ ३५ ॥ विजयेस्मिन् विजयते, सीमन्धरजिनोऽधुना । जगद्दिनकरः पुण्यप्रकर्षप्राप्यदर्शनः ॥ ३६॥ तत:परं वनमुखमित्येवं विजयाष्टकम् । शीताया उत्तरतटे, पर्यन्ते वनराजितम् ॥३७ ॥ तत्संमुखं वनमुखं, शीताया दक्षिणे तटे । तस्मात्पश्चिमतो वत्सनामा विजय आहितः ॥ ३८ ॥ युगंधरजिनश्रीमान्, विजयेऽस्मिन् विराजते । सुरेश्वरकरामर्शरसकृन्मसृणक्रमः ॥३९॥ त्रिकूटः पर्वतोऽस्यान्ते, सुवत्सविजयस्ततः । तप्ता नामान्तरनदी, तस्य सीमाविधायिनी ॥ ४०॥ ततो महावत्सनामा, विजयोऽस्य च सीमनि । शैलो वैश्रमणकूटस्तस्य पश्चिमत: पुनः ॥ ४१ ॥ वत्सावतीति विजयस्तस्य सीमाविधायिनी । नदी मत्ता तत: प्रत्यग्, रम्याख्यो विजयस्ततः ॥ ४२ ॥ अञ्जनाद्रिरमुष्यान्ते, रम्यको विजयस्ततः । उन्मत्ताख्या नदी तस्या, विजयो रमणीयकः ॥४३॥ मातञ्जनगिरिस्तस्य, सीम्न्यथो मङ्गलावती । विजयोऽस्य च सीमायां, गिरिः सौमनसाभिधः ॥ ४४ ॥ अस्य पश्चिमतो देवकुरवस्तदनन्तरम् । गिरिविद्युत्प्रभनामा, गजदन्ताकृतिः स्थितः ॥ ४५ ॥ तस्य पश्चिमत: पक्ष्मविजयः परिकीर्तितः । ततोऽडापाती क्षितिभृत्, सुपक्ष्मो विजयस्ततः ॥ ४६॥ ततः क्षीरोदाख्यनदी, महापक्ष्माभिधस्ततः । विजयोऽन्तेऽस्य च पक्ष्मपातीति क्षितिभृद्भवेत् ॥ ४७ ॥ पक्ष्मावतीति विजयः, कथितस्तदनतरम् । शीतस्रोता नाम नदी, तस्य सीमाविधायिनी ॥४८॥ तस्याः पश्चिमत: शंखविजयोऽन्तेऽस्य राजते । आशीविषगिरिस्तस्माद्धिजयो नलिनोऽग्रतः ॥ ४९ ॥ नद्यन्तर्वाहिनी तस्य, मर्यादाकारिणी भवेत् । तस्याः पश्चिमतः ख्यातो, विजयः कुमुदाभिधः ॥ ५० ॥