SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 238 प्रमाणं जिविकाकुण्डदीपप्रवाहवृद्धिगम् । हरिकान्तासमं सर्वं, ज्ञेयमत्राविशेषितम् ॥ ४२५ ॥ औत्तराहतोरणेन, तिगिञ्छिहदतस्ततः । शीतोदेति निर्झरिणी, निर्गतोत्तरसन्मुखी ॥ ४२६ ॥ प्रागुक्तमानमुल्लंध्य, क्षेत्रं क्षितिधरोपरि । शीतोदाकुण्डे पतति, वज्रजिबिकया नगात् ॥ ४२७ ॥ कुण्डादस्मादौत्तराहतोरणेनोत्तरामुखी । यान्ती कुरु हृदान् पञ्च, खलेव कुर्वती द्विधा ॥ ४२८ ॥ नदीसहश्चतुरशीत्या पथ्याश्रिता क्रमात् । यान्ती देवकुरुप्रान्ते, भद्रसालवनान्तरे ॥ ४२९ ॥ याववाभ्यां योजनाभ्यां, सुमेरुर्दूरतः स्थितः । तावत्तत्संमुखं याता, कामुकीव रसाकुला ॥ ४३० ॥ वक्षस्कारगिरेविद्युत्प्रभस्याधोविभागतः । परावृत्ता पश्चिमातो, लज्जितेवाभिसारिका ॥ ४३१ ॥ द्वेधापरविदेहांश्च, कुर्वती सरितां श्रिता । अष्टाविंशत्या सहरेकैकविजयोद्गतैः ॥ ४३२ ॥ श्रिताम्भोधिप्रवेशे च, मूलत: सर्वसंख्यया । नदीनां पञ्चभिर्लक्षः, सदात्रिंशत्सहस्रकैः ॥ ४३३ ॥ अधो जयन्तद्वारस्य, विभिद्य जगतीतटम् । प्रविष्टा पश्चिमाम्भोधौ, शीतोदाख्या महानदी ॥ ४३४ ॥ पञ्चाशयोजनान्यस्या, विष्कम्भो हृदनिर्गमे । एकं योजनमुद्रेधः, स कुण्डनिर्गमावधिः ॥ ४३५ ॥ व्यासेऽशीतिश्च वर्धन्ते, धनूंषि प्रतियोजनम् । तत् पञ्चयोजनशतव्यासेयं वार्धिसंगमे ॥ ४३६ ॥ तत्रोद्वेधो योजनानि, दशैतस्याश्च जिबिका । पञ्चाशद्धिस्तृता द्वे च, योजने मेदुरायता ॥ ४३७ ॥ चत्वारि योजनशतान्यशीतिश्च तथोपरि । कुण्डस्यायामविष्कम्भौ, दशोद्वेधश्च कीर्तितः ॥ ४३८ ॥ चतुष्षष्टियोजनानि, दीपोऽस्या विस्तृतायत: । योजनार्द्धमुच्छ्रितोऽद्भ्यो, गङ्गावत् भवनादिकम् ॥ ४३९ ॥ शीतोप्येवं नीलवतो, निर्गता केसरिहदात् । शीताकुण्डे निपत्यात:, प्रस्थिता दक्षिणामुखी ॥ ४४० ॥ प्राग्वद्भिदधती द्वेधा, पञ्चोत्तरकुरु हृदान् । नदीसहनैश्चतुरशीत्योदक्कुरुगैः श्रिताः ॥ ४४१॥ प्राप्तोत्तरकुरुप्रान्ते, भद्रसालवनं क्रमात् । असंप्राप्ता योजनाभ्यां, दाभ्यां मन्दरभूधरम् ॥ ४४२ ॥ गिरेर्माल्यवतोऽधस्तात्, प्रस्थिता पूर्वसंमुखी । द्वेधा विदधती पूर्वविदेहान् पथि चाश्रिता ॥ ४४३॥ अष्टाविंशत्या सहजैरेकैकविजयोद्गतैः । नदीनां पञ्चभिर्लक्षैः, सद्धात्रिंशत्सहस्रकैः ॥ ४४४ ॥ सर्वाग्रेणेति संयुक्ता, विभिद्य जगतीतटम् । द्वारस्य विजयस्याधो, विशति प्राच्यवारिधिम् ॥ ४४५ ॥ अस्या वार्धिप्रवेशान्तमारभ्य हृदनिर्गमात् । शीतोदया समं सर्वं, ज्ञातव्यमविशेषितम् ॥ ४४६ ॥ इति निषधपर्वतः प्रसङ्गात् शीतास्वरूपं च ॥ हिमवता महता च कनीयसा । जलधिना निषधेन च यत् त्रिधा । तदिह दक्षिणपार्श्वमिहोदितम् । बहुविधं नियतानियतारकैः ॥ ४४७ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष-द्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे सो निर्गलितार्थसार्थसुभगः पूर्णः सुखं षोडशः ॥ ४४८ ॥ इति श्री लोकप्रकाशे षोडशः सर्गः समाप्तः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy