________________
237
तेऽसकृत् षष्ठभक्तान्ते, बदरप्रमिताशिनः । अष्टाविंशं शतं तेषां, देहे पृष्ठकरण्डका: ॥ ३९९ ॥ चतुःषष्टिं च दिवसान्, विधायापत्यपालनाम् । स्वलॊकमेव ते यान्ति, कालश्च सुषमान्वहम् ॥ ४०० ॥ क्षेत्रानुभावः सर्वं च, बलसंहननादिकम् । अनन्तगुणपर्यायं, ज्ञेयं हैमवतादिह ॥ ४०१ ॥ इति हरिवर्षक्षेत्रम् ॥ हरिवर्षस्योत्तरान्ते, निषधो नाम पर्वतः । स चतुर्योजनशतोऽत्तुङ्गो रक्तसुवर्णजः ॥ ४०२ ॥ योजनानां शतं भूमौ, मग्नोऽन्तस्स्पृष्टवारिधिः । दाक्षिणात्या भित्तिरिव, महाविदेहवेश्मनः ॥ ४०३ ॥ योजनानां सहस्राणि, षोडशाष्टौ शतानि च । द्विचत्वारिंशदाढ्यानि, विष्कम्भोऽस्य कलादयम् ॥ ४०४ ॥ त्रयस्त्रिंशत्सहस्राणि, सप्तपञ्चाशता युतम् । शतमेकं सप्तदश, कलाश्च निषधे शरः ॥ ४०५ ॥ योजनानां सहस्राणि, चतुर्नवतिरेव च । षट्पञ्चाशं शतमेकं, प्रत्यञ्चास्य कलाद्धयम् ॥ ४०६ ॥ लक्षं चतुर्विंशतिश्च, सहस्राणि शतत्रयम् । षट्चत्त्वारिंशतोपेतं, धनुःपृष्ठं कला नव ॥ ४०७ ॥ विंशतिश्च सहस्राणि, पञ्चषष्टियुतं शतम् । सार्द्ध कलाद्वयं ज्ञेयं, बाहास्यैकैकपार्श्वत: ॥ ४०८ ॥ कोटीनां शतमेकं द्विचत्वारिंशच्च कोटयः । चतुःपञ्चाशच्च लक्षाः, षट्षष्टिश्च सहस्रकाः ॥ ४०९ ॥ सैकोनसप्ततिः पञ्चशती तथाधिका: कला: । अष्टादशास्य प्रतरगणितं भूवि कीर्तितम् ॥ ४१० ॥ सप्तपञ्चाशत्सहस्राः, कोटीनां कोटयः पराः । अष्टादश तथा लक्षाः, षट्षष्टिरथ चोपरि ॥ ४११ ॥ सहस्राणि योजनानां, सप्तविंशतिरेव च । शतानि नव सैकोनाशीतीन्यत्र भवेत् धनम् ॥ ४१२ ॥ सिद्धायतनकूटं च, द्वितीयं निषधाभिधम् । हरिवर्षाभिधं कूटं, पूर्वविदेहसंज्ञकम् ॥ ४१३ ॥ हरिकूटं धृतिकूट, शीतोदाकूटमित्यपि । अपरविदेहकूट, कूटं च रूचकाह्वयम् ॥ ४१४ ॥ निषधे नव कूटानि, श्रेण्या स्थितानि पूर्ववत् । आये चैत्यं देवदेव्योऽन्येषु कूटसमाभिधाः ॥ ४१५ ॥ तिगिज्छिस्तु पौष्परजस्तत्प्रधान इह हृदः । तिगिञ्छिनामा चत्वारि, सहस्राण्ययमायतः ॥ ४१६ ॥ विस्तीर्णच हे सहस्र, उद्विद्धो दशयोजनीम् । पद्महदसमसंख्यैः, पद्मः संशोभितोऽभितः ॥ ४१७ ॥ विष्कम्भादि तु पद्मभ्यस्तेभ्य एषां चतुर्गुणम् । यथात्र स्यान्मूलपमं, चतुर्योजनसम्मितम् ॥ ४१८ ॥ भवनं मूलपद्मेऽत्र, श्रीदेवीभवनोपमम् ॥ धीदेवी स्वामिनी तस्य, सैकपल्योपमस्थितिः ॥ ४१९ ॥ दाक्षिणात्यतोरणेन, तिगिञ्छिहृदतोऽमुतः । तटिनी हरिसलिला, निर्गता दक्षिणामुखी ॥ ४२० ॥ योजनानां सहस्राणि, सप्तोपरि शतानि च । चत्वारि चैकविंशानि, कलां च पर्वतोपरि ॥ ४२१॥ गत्वासौ हरिसलिलाकुण्डे पतति पर्वतात् । दक्षिणेन तोरणेन, तस्मान्निर्गत्य कुण्डत: ॥ ४२२ ॥ हरिवर्षपूर्वभागं, विभजन्ती द्विधा किल । एकेन योजनेनार्वाक्, गन्धापातिधराधरात् ॥ ४२३ ॥ चलिता प्राङ्मुखीभूय, विशति प्राच्यवारिधौ । षट्पञ्चाशच्छैवलिनीसहनैः परिवारिता ॥ ४२४ ॥