________________
236
प्रवाहजिह्निकाकुण्डद्धीपादिषु भवेदिह । विष्कम्भदेर्थ्योद्धेधादि, रोहितांशासमं समम् ॥ ३७३ ॥ औत्तराहतोरणेन, महापद्महृदात्ततः । हरिकान्तेति तटिनी, निर्गतोत्तरसन्मुखी ॥ ३७४ ॥ पूर्वोक्तमानमुल्लंध्य, गिरिं सोत्तरसन्मुखम् । हरिकान्ताप्रपाताख्ये, कुण्डे पतति जिव्हया ॥ ३७५ ॥ औत्तराहतोरणेन, तस्मान्निर्गत्य कुण्डतः । अष्टाविंशत्या सहसैर्नदीभिः पथि संभृता ॥ ३७६ ॥ गन्धापातिनमप्राप्तान्तरितं योजनेन सा । स्मृतप्रयोजनेवेतः, प्रस्थिता पश्चिमामुखी ॥ ३७७ ॥ अष्टाविंशत्या सहसैर्नदीभिः पुनराश्रिता । एवं नदीनां षट्पञ्चाशता सहस्रकैर्वृता ॥ ३७८ ॥ हरिवर्षपश्चिमार्धं, द्वेधा विदधती किल । अधो विभिद्य जगती, पतिता पश्चिमाम्बुधौ ॥ ३७९ ॥ योजनानि ध्रुवं पञ्चविंशतिर्हृदनिर्गमे । विष्कम्भोऽस्या योजनार्थं, चोद्धेधः कुण्डसीमया ॥ ३८० ॥ ततश्च वर्धते व्यासो, धनूंषि प्रतियोजनम् । एकतो विंशतिश्चत्वारिंशच्चोभयतः पुनः ॥ ३८१ ॥ एवं च द्वे शते सार्धे, योजनान्यब्धिसंगमे । विष्कम्भोऽस्यास्तत्र पुनरुद्धेधः पञ्चयोजनी ॥ ३८२ ॥ योजनायामबाहल्या, जिह्निकास्याः प्रकीर्त्तिता । विष्कम्भतः पुनः पञ्चविंशतिर्योजनान्यसौ ॥ ३८३ ॥ द्वे शते योजनानां च चत्वारिंशत्समन्विते । कुण्डस्यायामविष्कम्भावुद्धेधो दशयोजनी ॥ ३८४ ॥ द्वीपस्यायामविष्कम्भो, द्वात्रिंशद्योजनानि च । जलात्समुच्छ्रयः क्रोशद्धयं शेषं तु पूर्ववत् ॥ ३८५ ॥ इति महाहिमवान् पर्वतः ॥
उत्तरस्यां हरिवर्षं, महाहिमवतो गिरेः । प्रौढपर्यङ्कसंस्थानमन्ताभ्यां वारिधिं स्पृशत् ॥ ३८६ ॥ व्यासोऽस्याष्टौ सहस्राणि, योजनानां चतुःशती । तथैकविंशतिश्चैका, कलाऽत्राथ शरं ब्रुवे ॥ ३८७ ॥ सहस्रां षोडश त्रीणि, योजनानां शतानि च । युक्तानि पञ्चदशभिः कलाः पञ्चदशोपरि ॥ ३८८ ॥ त्रिसप्ततिः सहस्राणि, जीवा नवशतानि च । एकोत्तराण्यथ कलाः सार्द्धाः सप्तदशोपरि ॥ ३८९ ॥ धनुः पृष्ठं सहस्राणि चतुरशीतिरेव च । षोडशाढ्यान्यथ कलाश्चतसः परिकीर्त्तिताः ॥ ३९० ॥ त्रयोदश सहस्राणि, त्रिशती चैकषष्टियुक् । योजनानां षट् कलाश्च, सार्द्धा बाह्रैकपार्श्वतः ॥ ३९१ ॥ चतुःपञ्चाशच्च कोट्यो, योजनानां तथा पराः । सप्तचत्वारिंशदेव, लक्षाः किल तथोपरि ।। ३९२ ॥ त्रिसप्ततिः सहस्राणि, सप्तत्याढ्याऽष्टशत्यथ । कलाः सप्तात्र सकलं, गणितं प्रतरात्मकम् ॥ ३९३ ॥ मध्येऽस्य गन्धापातीति, वृत्तवैताढ्यपर्वतः । स्वरूपमस्य पूर्वोक्तशब्दापातिसमं समम् ॥ ३९४ ॥ पद्मनामा सुरस्त्वस्य, स्वाम्येकपल्यजीवितः । स्वरूपं सर्वमेतस्य ज्ञेयं विजयदेववत् ।। ३९५ ।। लक्षमेकं सहस्राश्च, द्वादश यधिका इह । हरिवर्षाभिधक्षेत्रे, नद्यः प्रोक्ता जिनेश्वरैः ॥ ३९६ ॥ क्षेत्रे पुनर्वसन्त्यत्र, नरा युगलधर्मिणः । क्रोशद्वयसमुत्तुङ्गाः सल्लक्षणा विचक्षणाः ॥ ३९७ ॥ आयुरुत्कर्षतस्त्वेषां, पूर्णं पल्योपमद्वयम् । पल्योपमासंख्यभागहीनं तच्च जघन्यतः ॥ ३९८ ॥