________________
234
सहस्रा: षट् सप्तशती, पञ्चपञ्चाशदन्विता । तिस्रः कलाश्च बाहात्र, प्रत्येकं पार्श्वयोर्द्रयोः ॥ ३२६ ॥ अत्र क्षेत्रफलं कोट्यः, षट् लक्षाणि द्विसप्ततिः । त्रिपञ्चाशत् सहस्राणि, योजनानां शतं तथा ॥ ३२७ ॥ पञ्चचत्वारिंशदाढ्यं, कला: पञ्च तथोपरि । अष्टौ च विकलाः प्रोक्तं, खण्डैर्योजनसम्मितैः ॥ ३२८ ॥ सर्वरत्नमयो वृत्तवैताढ्यो धरणीधरः । मध्यभागे विभात्यत्र, पल्यवत्सर्वतः समः ॥ ३२९ ॥ जम्बूद्वीपसंग्रहणीवृत्तौ तु पञ्चवर्णरत्नमयः । नाम्ना च शब्दापातीति, सहस्रयोजनोन्नतः । शतान्यर्द्धतृतीयानि, स निमग्नो भुवोऽन्तरे ॥ ३३०॥ सहस्रयोजनायामविष्कम्भः परिवेषत: । त्रयः सहस्रा द्वाषष्ट्या, योजनानां शतं युतम् ॥ ३३१ ॥ अभितोऽयं गिरिः पद्मवेदिकावनमण्डित: । प्रासादो भात्युपर्यस्य, स्वरूपं तस्य पूर्ववत् ॥ ३३२ ॥ स्वातिनामा सुरस्तस्य, स्वाम्येकपल्यजीवित: । राजधान्यादिकं त्वस्य, सर्वं विजयदेववत् ॥ ३३३ ॥
- अयं क्षेत्रसमासाभिप्रायः, यत्तु जम्बूदीपप्रज्ञप्त्यामत्र शब्दापातिनामा देव उक्तस्तन्नामान्तरं वा
मतान्तरं वेति सर्वविद्वेद्यम् ॥ द्विधा विभक्तं गिरिणानेन हैमवतं किल । पूर्वहैमवतं चैवापरहैमवतं तथा ॥ ३३४ ॥ पुनरेकैकमर्धं तत्, सरिद्भ्यां विहितं द्विधा । रोहितांशारोहिताभ्यां, स्नुषाभ्यामिव मन्दिरम् ॥ ३३५ ॥ दक्षिणार्द्ध चोत्तरार्द्ध, इति जातं चतुर्विधम् । षट्पञ्चाशत्सहस्राणि, व्युत्तराण्यत्र निम्नगा: ॥ ३३६ ॥ क्षेत्रानुभावतस्तत्र, भूः शर्करादिजित्वरी । चक्रीभोज्यजिदास्वादफलपुष्पाः सुरद्रुमाः ॥ ३३७ ॥ येऽपि यूका मत्कुणाद्या, लोकसन्तापकारिणः । यक्षभूतामयाद्युत्था, दोषास्तत्र न सन्ति ते ॥ ३३८ ॥ भवन्त्यहिंसका व्याघ्रसिंहाद्याः स्वर्गगामिनः । उद्गतान्यपि धान्यानि, नराणां नोपभुक्तये ॥ ३३९ ॥ मनुजास्तत्र गव्यूतोत्तुङ्गाः पल्योपमायुषः । उत्कर्षतो जघन्याच्च, देशोनपल्यजीविनः ॥ ३४० ॥ चतुःषष्टिपृष्टकरण्डकाः सुन्दरभूघनाः । दिनान्यशीतिमेकोनां, विहितापत्यपालनाः ॥ ३४१ ॥ सत्यपि स्वर्णरत्नादौ, ममत्वावेशवर्जिताः । सतामपि गजादीनामग्रहात् पादचारिणः ॥ ३४२ ॥ विचक्षणाश्चारुवेषाः, प्रेष्यप्रेषकतोज्झिताः । चतुर्थान्ते चामलकफलप्रमितभोजिनः ॥ ३४३॥ आद्यसंहनना: पृथ्वीस्वर्दुपुष्पफलाशिनः । प्रकृत्या प्रतनुढेषरागाः स्वलॊकयायिनः ॥ ३४४ ॥ बद्धस्नेह इवैतस्मिन्, काल: सुषमदुःषमा । सार्वदीनस्तत्स्वरूपं काललोके प्रवक्ष्यते ॥ ३४५ ॥ इति हैमवतक्षेत्रम् ॥ अस्योत्तरान्ते च महाहिमवान्नाम पर्वतः । सर्वरत्नमयो भाति, द्वियोजनशतोन्नतः ॥ ३४६ ॥
अयं जम्बूदीपप्रज्ञप्त्यभिप्राय: ॥ बृहत्क्षेत्रविचारादौ त्वस्य पीतस्वर्णवर्णमयत्वमुक्तमिति मतान्तरमवसेयम् । अनेनैव च मतान्तराभिप्रायेण जम्बूद्वीपपट्टादावस्य पीतवर्णत्वं दृश्यते इति ॥