SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ 233 योजनानां नवशतान्यतिक्रम्य ततः परम् । शतानि नव विस्तीर्णायतोऽस्ति घनदन्तकः ॥ ३०१ ॥ नवयोजनशत्यासौ, जगत्याः परिधिस्त्विह । शतानि पञ्चचत्वारिंशान्यष्टाविंशतिः किल ॥ ३०२ ॥ सार्द्धा षड्योजनी तादृक्षष्टिभागसमन्विताम् । जम्बूद्धीपदिशि व्यक्तो, दिश्यब्धेस्त्वर्द्धयोजनम् ॥ ३०३ ॥ एवं च, एकोरुको हयकर्णस्तथादर्शमुखोऽपि च । अश्वमुखाश्वकोल्कामुखाश्च घनदन्तकः ॥ ३०४ ॥ दीपा: सप्त यथैशान्यां, दाढायां कथिता इमे । तावदायामविष्कम्भाः, तावत्परस्परान्तराः ॥ ३०५ ॥ जगत्यास्तावता दूरे, तावदेवोच्छ्रिता जलात् । तथैव सप्त सप्त स्युराग्नेय्यादिविदिक्त्रये ॥ ३०६ ॥ एषां क्रमे स्वरूपे च, न विशेषो मनागपि । विशेष: केवलं नाम्नां, तान्येतानि यथाक्रमम् ॥ ३०७ ॥ आभासिको गजकर्णो, मेंढहस्तिमुखौ तथा । हरिको मेघमुखो, लष्टदन्तोऽग्रिकोणके ॥ ३०८ ॥ वैषाणिकच गोकर्णस्तथाय:सिंहतो मुखौ । अकर्णो विद्युन्मुखश्च, नैर्ऋत्यां गूढदन्तकः ॥ ३०९ ॥ वायव्यां नाङ्गोलिकाख्यः, शष्कुलीकर्ण इत्यपि । गोमुखो व्याघ्रमुखश्च, कर्णप्रावरणाभिधाः ॥ ३१० ॥ विद्युद्दन्तशुद्धदन्तावष्टाविंशतिरित्यमी । विराजन्तेऽन्तरदीपा, हिमवगिरिनिश्रया ॥ ३११ ॥ तावन्त एव शिखरिगिरेर्दाढाचतुष्टये । तथैव संस्थिता एवं, षट्पञ्चाशत् भवन्त्यमी ॥ ३१२ ॥ प्रत्येकमेते सर्वेऽपि, वेदिकावनमण्डिताः । समानं च तयोर्मानं, जगतीवेदिकावनैः ॥ ३१३ ॥ दीपेषु सर्वेष्येतेषु, नरास्तिष्ठन्ति युग्मिन: । अष्टचापशतोत्तुङ्गाः, पल्यासंख्यांशजीविनः ॥ ३१४ ॥ दिनान्यशीतिमेकोनां, विहितापत्यपालना: । चतुष्षष्ट्या लसत्पृष्टकरण्डकैस्सुशोभिता: ॥ ३१५ ॥ चतुर्थभक्ताहाराश्च, कल्पद्रुफलभोजिनः । सुन्दराकृतयो रागद्वेषशोकरुजोज्झिताः ॥ ३१६ ॥ युग्मं सुतसुतारूपं, षण्मासशेषजीविताः । प्रसूय यान्ति त्रिदिवमन्ते मृत्वा समाधिना ॥ ३१७ ॥ एवं वक्ष्यमाणहैमवतादियुग्मिनोऽपि हि । षण्मासशेषे सुवतेऽपत्यान्यायुषि नान्यथा ॥ ३१८ ॥ तथोक्तं प्रथमारकस्वरूपाधिकारे जम्बूद्धीपप्रज्ञप्तावन्तरदीपाधिकारे जीवाभिगमे च । ___ “छम्मासावसेसाउया जुगलं पसवंती”ति ॥ इति हिमवान् पर्वत: ॥ क्षेत्रं विभाति हिमवन्महाहिमवदन्तरे । अविभक्तं द्रव्यमिव, दाभ्यां ताभ्यां सुरक्षितम् ॥ ३१९ ॥ द्वाभ्यां पूर्वापरान्ताभ्यां, संस्पृष्टलवणार्णवम् । हारि हैमवताभिख्यं, वर्यपर्यङसंस्थितम् ॥ ३२० ॥ ददाति हेम युग्मिभ्यः, आसनादितया ततः । यदा देवो हैमवतः, स्वामी हैमवतं ततः ॥ ३२१ ॥ द्धे सहस्रे योजनानां, शतं पञ्चोत्तरं तथा । कला: पञ्चैव विष्कम्भः, क्षेत्रस्यास्य निरूपितः ॥ ३२२ ॥ तथा शतानि षट्त्रिंशच्चतुरशीतिरेव च । योजनानि चतस्रश्च, कला: शर इह स्मृतः ॥ ३२३ ॥ सप्तत्रिंशत्सहस्राणि, योजनानां शतानि षट् । चतुः सप्ततिरस्य ज्या, न्यूना: कलाश्च षोडश ॥ ३२४ ॥ अष्टात्रिंशत्सहस्राणि, तथा सप्तशतानि च । चत्वारिंशानि कोदण्डपृष्टमस्य कला दश ॥ ३२५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy