SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 232 दाढेकैका विदिशासु, गजदन्तसमाकृतिः । ऐशान्यामथ चाग्नेय्यां, नैर्ऋत्यां वायुकोणके ॥ २७५ ॥ ऐशान्यां तत्र जगतीपर्यन्ताल्लवणोदधौ । दाढायां योजनशतत्रयस्य समतिक्रमे ॥ २७६ ॥ द्वीप एकोरुकाख्योऽस्ति, योजनानां शतत्रयम् । विष्कम्भायामत: पद्मवेदिकावनमण्डितः ॥ २७७ ॥ किञ्चिदुनैकोनपञ्चाशता समधिका किल । योजनानां नवशती, परिक्षेपोऽस्य कीर्तितः ॥ २७८ ॥ अस्य जम्बूद्वीपदिशि, जलोपरि समुच्छ्रयः । सार्द्ध द्वयं योजनानां, भागाश्चोपरि विंशतिः ॥ २७९ ॥ पञ्चनवतिभक्तस्य, योजनस्य तथोच्छ्रय: । लवणाम्भोधि दिश्यन्ते, क्रोशद्वयमुदीरितः ॥ २८० ॥ तत्रैव दाढायां तस्मात्, दीपाच्चतुःशतोत्तरः । हयकर्णाभिधो द्वीपश्चतुःशतायतस्ततः ॥ २८१ ॥ शतानि द्वादश न्यूनपञ्चषष्ठियुतानि च । परिक्षेपोऽस्याब्धिदिशि, द्रौ क्रोशावुच्छ्यो जलात् ॥ २८२ ॥ योजनानां द्वयं साढ़ें, नवत्यांशैः समन्वितम् । अस्य जम्बूद्वीपदिशि, ख्यातः खलु समुच्छ्रय: ॥ २८३ ॥ अत्रायमाम्नायः । पूर्वदीपपरिक्षेपे, योजनानां त्रिभिः शतैः । षोडशाढ्यैः संकलिते, परिक्षेपोऽग्रिमो भवेत् ॥ २८४ ॥ तथा, जम्बूद्वीपदिशि जलात्प्राग्द्वीपे यः समुच्छ्रयः । स पाञ्चनवतेयांशसप्तत्या संयुतोऽग्रिमे ॥ २८५ ॥ जम्बूद्वीपजगत्याच, दीपस्यास्य मिथोऽन्तरम् । कर्णभूमिरूपमुक्तं, योजनानां चतुःशती ॥ २८६ ॥ तत्रैव दाढायां तस्मात्, दीपात् पञ्चशतान्तरः । आदर्शमुखसंज्ञोऽस्ति, दीप: पञ्चशतायत: ॥ २८७ ॥ तावदेव च विस्तीर्णा, जगत्यास्तावदन्तरः । सैकाशीतिः पञ्चदशशती परिरयोऽस्य च ॥ २८८ ॥ जम्बूद्धीपदिशि भवेत्, जलादस्य समुच्छ्रयः । सार्दा त्रियोजनी भागाः, पञ्चषष्टिः पुरोदिताः ॥ २८९ ॥ दौ क्रोशौ लवणदिशि, जलादस्य समुच्छ्रयः । दाढायां पुनस्तत्रैवातीत्य योजनषट्शतीम् ॥ २९० ॥ षट्योजनशतायामविष्कम्भोऽश्वमुखाभिधः । द्वीपो भाति शतैः षड्भिर्जगत्या दूरतः स्थितः ॥ २९१ ॥ योजनत्रितयोनानि, शतान्येकोनविंशतिः । दीपस्यास्य परिक्षेपः, प्रोक्तः शास्त्रपरीक्षकैः ॥ २९२ ॥ सार्दा चतुर्योजनी सच्चत्वारिंशल्लवाधिकाम् । दीपदिश्युन्नतोऽद्भ्योऽब्धिदिशि तु क्रोशयामलम् ॥ २९३ ॥ सप्तभिः योजनशतैरस्ति दीपस्ततः परम् । अश्वकर्णाभिध: सप्तशतान्यायतविस्तृतः ॥ २९४ ॥ जगत्यास्तावता दूरे, जम्बूद्धीपदिशि स्फुटम् । योजनान्यर्द्धषष्ठानि, भागान् पञ्चदशोच्छ्रितः ॥ २९५ ॥ द्वौ क्रोशौ परतो व्यक्तः, परिक्षेपस्तथास्य च । द्धे सहने द्वे शते च, योजनानि त्रयोदश ॥ २९६ ॥ अतीत्य योजनशतान्यष्टौ द्वीपात्ततः परम् । दीप उल्कामुखोऽस्त्यष्टौ, शतान्यायतविस्तृतः ॥ २९७ ॥ जगत्या दूरतोऽष्टाभिोजनानां शतैः स्थितः । अम्भोनिधेर्दिशि जलादुच्छ्रितः क्रोशयोर्द्धयम् ॥ २९८ ॥ अर्धषष्ठयोजनानि, पञ्चाशीतिं तदाधिकान् । भागान् पाञ्चनवतेयान्, जम्बूद्धीपदिशि स्फुटः ॥ २९९ ॥ एकोनत्रिंशदाढ्यानि, शतानि पञ्चविंशतिः । योजनानि परिक्षेपो, द्वीपस्यास्य निरूपितः ॥ ३०० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy