________________
231
तदुक्तं स्थानाङ्गवृत्तौ । “ तीर्थानि चक्रवर्तिनः समुद्रशीतादिमहानद्यवतारलक्षणानि तन्नामकदेवनिवासभूतानि । तत्र भरतैखतयोर्तानि पूर्वदक्षिणापरसमुद्रेषु । विजयेषु शीताशीतोदामहानद्योः पूर्वादिक्रमेणैव । इति तृतीये स्थानके ॥
एषां तीर्थसदृक्नाम्नां देवानां स्वस्वतीर्थतः । योजनेषु द्वादशसु, राजधान्यः पयोनिधौ ॥ २५१ ॥ कृताष्टमतपाश्चकी, रथनाभिस्पृगम्भसि । स्थित्वा वार्धी स्वनामाङ्कशरं मुक्त्वा जयत्यमून् ॥ २५२ ॥ प्रतीच्यतोरणेनाथ, हृदात्तस्माद्विनिर्गता । गत्वा प्रतीच्यामावृत्ता, सिन्ध्यावर्तनकूटतः ॥ २५३॥ दक्षिणाभिमुखी शैलात्, कुण्डे निपत्य निर्गता । प्रत्यग्भागे तमिस्राया, भित्त्वा वैताढ्यभूधरम् ॥ २५४ ॥ तत: पश्चिमदिग्भागे, विभिद्य जगतीमधः । विशत्यम्भोनिधिं सिन्धुर्गङ्गास्वसेव युग्मजा ॥ २५५ ॥ गङ्गावत् सर्वमस्याः स्यादारभ्य हृदनिर्गमात् । स्वरूपमब्धिसङ्गान्तं, सिन्धुनामविशेषितम् ॥ २५६ ॥ वैताढ्यतो दक्षिणस्यां, सरितो: सिन्धुगङ्गयोः । बिलानि स्युर्नव नव, पूर्वपश्चिमकूलयोः ॥ २५७ ॥ उदीच्यामपि षट्त्रिंशत्, तथैव तटयोस्तयोः । कल्पान्तेऽत्रादिबीजानां, स्थानानीति द्विसप्ततिः ॥ २५८ ॥ पञ्चस्वेवं भरतेषु, पञ्चस्वैरवतेषु च । बिलानि भावनीयानि, द्विसप्ततिः द्विसप्ततिः ॥ २५९॥ औत्तराहतोरणेन, तस्मात् पद्महृदादथ । निर्गता रोहितांशाख्योत्तराशाभिमुखी नदी ॥ २६० ॥ द्वे योजनशते युक्ते, षट्सप्तत्या कलाश्च षट् । पर्वतोपर्यतिक्रम्य, वज्रजिव्हिकया नगात् ॥ २६१ ॥ रोहितांशाप्रपाताख्ये, कुण्डे निपत्य हारवत् । उदीच्यतोरणेनास्मान्निर्गतोत्तरसंमुखी ॥ २६२ ॥ मार्गे चतुर्दशनदीसहस्रपरिवारिता । तत्रत्यवृत्तवैताढ्यं मुक्त्वा क्रोशद्वयान्तरे ।। २६३ ॥ स्थानात्ततः परावृत्य, प्रस्थिता पश्चिमामुखी । पुनश्चतुर्दशनदीसहस्रसेविताभितः ॥ २६४ ॥ अष्टाविंशत्या सहस्रैः, नदीभिरेवमन्विता । द्वेधा विदधती हैमवतस्यार्द्धं च पश्चिमम् ॥ २६५ ॥ अधो विभिद्य जगतीं, याति पश्चिमवारिधिम् । गङ्गासिन्ध्योः सपत्नीव, द्विगुणर्द्धिः पतिप्रियाः ॥ २६६ ॥ कुण्डाद्विनिर्गमं यावदारभ्य हृदनिर्गमात् । सार्द्धानि योजनान्यस्या, विष्कम्भो द्वादशोदितः ॥ २६७ ॥ गव्यूतमेकमुद्धेधस्ततः कुण्डोद्गमादनु । प्रतियोजनमेकैकपार्श्वे व्यासो विवर्द्धते ॥ २६८ ॥ कोदण्डानि दशदशोभयतस्तानि विंशतिः । लवः पञ्चाशत्तमश्च व्यासस्योद्वेध आहितः ॥ २६९ ॥ योजनानां शतं चैवं, सपादमब्धिसंगमे । व्यासोऽस्याः क्रोशदशकमुद्धेधश्च प्रजायते ॥ २७० ॥ व्यासायामौ जिव्हिकायाः, सार्द्धा द्वादशयोजनी । बाहल्यमस्या निर्दिष्टमेकक्रोशमितं जिनैः || २७१ ॥ सविंशं योजनशतं, कुण्डस्यायतिविस्तृती । द्वीपस्यायामविष्कम्भौ, योजनानीह षोडश ॥ २७२ ॥ अस्यां प्रपातकुण्डस्योद्धेधो द्वीपस्य चोच्छ्रयः । भवनस्य स्वरूपं च ज्ञेयं गङ्गासमं बुधैः ॥ २७३ ॥ गिरेर्हिमवतोऽथास्य, प्राचीनपश्चिमान्तयोः । लवणोदजलस्पर्शादारभ्य किल निर्गता ॥ २७४ ॥
,