________________
230
तथाहुः क्षमाश्रमणपादाः । आयामो विख्खंभो, सठिं कुंडस्स जोअणा हुंति । नउअसयं किंचूणं, परिही दसजोअणोगाहो ॥
[इति बृहत्क्षेत्रसमास गाथा-२१८] ॥ श्री उमास्वातिकृतजम्बूद्वीपसमासे करणविभावनायां च मूले पण्णासं जोअणवित्थारो उवरि सट्ठी इति विशेषोऽस्ति ॥ इत्थं च कुण्डस्य यथार्थनामोपपत्तिरपि
भवति । एवमन्येष्वपि यथायोग्यं ज्ञेयम् ॥ तच्च कुण्डं वेदिकया, वनखण्डेन वेष्टितम् । पूर्वापरादक्षिणासु, सोपानश्रेणिशोभितम् ॥ २३६ ॥ सोपानश्रेणय: सर्वा, वज्रस्तम्भाः सतोरणा: । रत्नालम्बनबाहाढ्या, रैरुप्यफलकाञ्चिताः ॥ २३७ ॥ गङ्गादीपश्च भात्यस्मिन्, द्वौ क्रोशावुच्छ्रितो जलात् । अष्टौ च योजनान्येष, विष्कम्भायामतो मतः ॥ २३८ ॥ गङ्गाद्वीपोपरि गङ्गाभवनं पीठिकादियुक् । स्वरूपतो मानतश्च, श्रीदेवीभवनोपमम् ॥ २३९ ॥ दाक्षिणात्यतोरणेन, गङ्गाप्रपातकुण्डतः । निर्गत्य वैताढ्योपान्ते, नदीसप्तसहस्रयुक् ॥ २४० ॥ खण्डप्रपातप्राग्भागे, भित्त्वा वैताढ्यभूधरम् । दाक्षिणात्यसप्तनदीसहस्रपरिवारिता ॥ २४१ ॥ एवं चतुर्दशनदीसहस्रापूरिताभित: । पूर्वतो जगती भित्त्वा, गङ्गा विशति वारिधिम् ॥ २४२ ॥ सक्रोशानि योजनानि, षडस्या हृदनिर्गमे । व्यासः क्रोशार्धमुद्धेधः, कुण्डपातावधिः स च ॥ २४३ ॥
तथोक्तं जम्बुद्धीपप्रज्ञप्तिसूत्रे । गंगाणं महानई पवाहे छ सक्कोसाइं जोअणाई विक्खंभेणं पणत्ता अद्धकोसं उब्वेहेणं ॥ समवायाङ्गे तु । गंगासिन्धुओ नईओ णं पवहे सातिरेगाइं चउवीसं
कोसाइं वित्थरेणं पणत्ते । इत्युक्तम् । कुण्डोद्गमादनु व्यासो, योजनं योजनं प्रति । पार्श्वद्रये समुदितो, धनूंषि दश वर्द्धते ॥ २४४ ॥ एवं चवारिधे: संगमे सार्द्धा, बाषष्टियोजनान्यसौ । मौलाद्दशजो यद्व्यासो, नदीनामब्धिसङ्गमे ॥ २४५ ॥ व्यासात् पञ्चाशत्तमोऽशः, सर्वत्रोद्वेध ईरित: । क्रोशस्यार्द्ध ततो मूले, प्रान्ते सक्रोशयोजनम् ॥ २४६ ॥ वेदिकावनखण्डौ च, प्रत्येकं पार्श्वयोः द्वयोः । महानदीनां सर्वासां, दृष्टौ दृष्टजगत्त्रयैः ॥ २४७ ॥
तथोक्तं जम्बूद्धीपप्रज्ञप्तिसूत्रे गङ्गावर्णने । उभओ पासिं दोहिं पउमवरखेडयाहिं दोहिं वणखंडेहिं संपरिक्खित्ता वेइयावणखंडवण्णओ भाणियबो इति । अथ गङ्गामहानद्या, यत्राम्भोनिधिसंगमः । तत्र तीर्थं मागधाख्यं, तस्येशो मागध: सुरः ॥ २४८ ॥ एवं सिन्धुनदीवार्खियोगे प्रभासनामकम् । एतयोरन्तराले च, वरदामं पयोनिधौ ॥ २४९ ॥
तथोक्तं जम्बूदीपप्रज्ञप्तिवृत्तौ । गङ्गा मागधतीर्थस्थाने समुद्रं प्रविशति तथा प्रभासनामतीर्थस्थाने
सिन्धुनदी समुद्रं प्रविशति ॥ तीर्थं नामावतरणमार्गोऽम्भोधौ तटाकवत् । तीर्थस्यार्थी भाव्य एवं, शीताशीतोदयोरपि ॥ २५० ॥