SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 229 षड्जातीयैः परिक्षेपैर्वेष्टितं मूलपङ्कजम् । क्रमादर्द्धार्द्धमानाब्जा:, परिक्षेपाः समेऽप्यमी ॥ २२० ॥ अष्टोत्तरं शतं पद्मा:, प्रथमे परिधौ स्थिताः । मूलपद्मादर्द्धमानाः, श्रीदेवीभूषणैर्भृताः ॥ २२१ ॥ वायूत्तरेशानदिक्षु, सामानिकसुधाभुजाम् । चतुः सहस्री पद्मानां तावतां परिकीर्त्तिताः ॥ २२२ ॥ महत्तराणां देवीनां, प्राक् चत्वार्यम्बुजानि च । सहस्राण्यष्ट चाग्नेय्यामभ्यन्तरसभाजुषाम् ॥ २२३ ॥ सहस्राणि दशाब्जानामपाच्यां मध्यपर्षदाम् । द्वादशाब्जसहस्राणि नैर्ऋत्यां बाह्यपर्षदाम् ॥ २२४ ॥ सेनापतीनां सप्तानां, प्रत्यक् सप्ताम्बुजानि च । द्वितीयोऽयं परिक्षेपो, मूलपद्मस्य वर्णितः ॥ २२५ ॥ आत्मरक्षिसहस्राणां, षोडशानां चतुर्दिशम् । चतुः सहस्री प्रत्येकं, परिवेषे तृतीयके ॥ २२६ ॥ त्रयः परे परिक्षेपा, अभियोगिपयोरुहाम् । द्वात्रिंशत् प्रथमे लक्षा, अभ्यन्तराभियोगिनाम् ॥ चत्वारिंशत्पद्मलक्षा, मध्ये मध्याभियोगिनाम् । लक्षाणामष्टचत्वारिंशत्बाह्ये बाह्यसेविनाम् ॥ २२८ ॥ कोट्येका विंशतिर्लक्षाः, पद्मानां सर्वसंख्यया । सहस्राणि च पञ्चाशत्, शतं विंशतिसंयुतम् ॥ २२९ ॥ अत्र षट् परिक्षेपा इति षट्जातीयाः परिक्षेपा इति वाच्यम् ॥ २२७ ॥ तथाहि ॥ आद्या मूलपद्मार्द्धमाना जातिः । द्वितीया तच्चतुर्थभागमाना जाति: । यावत् षष्ठी चतुःषष्टितमभागमाना जातिरिति ॥ अन्यथा तु योजनात्मना सहस्रत्रयात्मके धनुरात्मना चत्वारिंशल्लक्षाधिकद्विकोटिप्रमिते हृदपरमपरिधौ षष्ठपरिक्षेपपद्मानां षष्टिकोटिधनुःक्षेत्रमातव्यानामेकपङ्क्त्या अवकाशो न संभवति ॥ ततश्च तत्तत्परिधिक्षेत्रपरिक्षेपपद्मसंख्याविस्तारान् परिभाव्य यत्र यावत्यः पङ्क्तयः संभवन्ति तत्र तावतीभिः पङ्क्तिभिरेक एव परिक्षेपो ज्ञेयः । पद्मानामनेक - जातीयत्वात् । एवं च पञ्चलक्षयोजनात्मके हृदक्षेत्रफले तानि सर्वाण्यपि पद्मानि सुखेन मान्त्येव । पद्मरुद्धक्षेत्रस्य सर्वसंकलनया विंशतिः सहस्राणि पञ्चाधिकानि योजनानां षोडशभागीकृतस्यैकयोजनस्य त्रयोदश भागा इति एतावत एव संभवादिति । अधिकं त्युपाध्याय श्री शान्तिचंद्रगणिकृतजम्बूद्वीपप्रज्ञप्तिवृत्तितेऽवसेयम् ॥ ततः पद्महृदात् गङ्गा, प्राच्यतोरणनिर्गता । योजनानां पञ्चशतीं, गिरौ पूर्वेण गच्छति ॥ २३० ॥ गङ्गावर्त्तनकूटस्याधस्तादावृत्य सा ततः । दक्षिणाभिमुखी भूत्वा प्रवृत्ता पर्वतोपरि ॥ २३१ ॥ त्रयोविंशां पञ्चशतीं, योजनानां कलात्रयम् । सार्द्धं गत्वा दक्षिणस्यां पतेत् जिव्हिकया नगात् ॥ २३२ ॥ सा च प्रणालिकारूपा, भात्यर्धक्रोशमेदुरा । द्विक्रोशदीर्घा सक्रोशषट्योजनसुविस्तृता ॥ २३३॥ वाज्रिकी व्यात्तमकरवक्त्राकारा तयाऽथ सा । सातिरेकं योजनानां शतमेकं पतत्यधः ॥ २३४ ॥ योजनानि दशोद्धिद्धे, षष्टिं च विस्तृतायते । कुण्डे गङ्गाप्रपाताख्ये, चारु मुक्तावलीसमा ॥ २३५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy