________________
227
शैलोऽयं चित्रित इव, चक्रिभिर्जितभारतैः । काकिणीरत्नलिखितैः, समन्तान्निजनामभिः ॥ १७३ ॥ नद्योऽष्टाविंशतिरिह, सहस्रा दयुत्तरा मताः । अमुष्य भरतक्षेत्रस्यो-शस्याङ्गना इव ॥ १७४ ॥ अरकाश्च षडप्यत्र, सुषमासुषमादयः । सदा विपरिवर्तन्ते, नियोगिन इवेशितुः ॥ १७५ ॥ इति भरतक्षेत्रम् ॥ अथोत्तरार्द्धभरतपर्यन्त उत्तराश्रिते । जात्यस्वर्णमयो भाति, हिमवान्नाम पर्वतः ॥ १७६ ॥ स्पृशन् दाभ्यां निजान्ताभ्यां, पूर्वापरपयोनिधि । योजनानां शतं तुङ्गो, भूमग्नः पञ्चविंशतिम् ॥ १७७ ॥ योजनानां दशशती, द्विपञ्चाशत्समन्विता । कला द्वादश विष्कम्भः, पर्वतस्यास्य कीर्तितः ॥ १७८ ॥ योजनानां पञ्चदशशतान्यथाष्टसप्ततिः । अष्टादश कलाश्चात्र, शरः प्रोक्तो जितस्मरैः ॥ १७९ ॥ योजनानां सहस्राणि, चतुर्विंशतिरेव च । स द्वात्रिंशन्नवशती, प्रत्यञ्चास्य कलार्द्धयुक् ॥ १८० ॥ धनुःपृष्ठं योजनानां, सहस्राः पञ्चविंशतिः । द्वे शते त्रिंशदधिके, चतस्रश्चाधिका: कलाः ॥ १८१ ॥ योजनानां सहस्राणि, पञ्च त्रीणि शतानि च । सार्द्धानि बाहैकैकास्याध्याः पञ्चदशांशकाः ॥ १८२ ॥ कोटीद्वयं च लक्षाणि, योजनानां चतुर्दश । षट्पञ्चाशत्सहस्राणि, शतानि नव चोपरि ॥ १८३ ॥ एकसप्ततिरेवाष्टौ, कलाश्च विकला दश । भूमौ प्रतरगणितं, निर्दिष्टं हिमवगिरेः ॥ १८४ ॥ कोटीनां द्वे शते कोट्यश्चतुर्दशाथ लक्षकाः । षट्पञ्चाशत् तथा सप्तनवतिश्च सहस्रका: ॥ १८५ ॥ एकं शतं चतुश्चत्वारिंशं कलाश्च षोडश । विकला द्वादशेत्युक्तं, शैलेऽस्मिन् सर्वतो धनम् ॥ १८६ ॥ वेदिकावनखण्डाभ्यां, रम्योऽयं पार्श्वयोर्द्धयोः । वेदिकावनखण्डानां, सर्वं मानादि पूर्ववत् ॥ १८७ ॥ अत्रैकादश कूटानि, बिभ्रति प्रकटप्रभाम् । सिद्धायतनमुख्यानि, प्राच्या आरभ्य पूर्ववत् ॥ १८८ ॥ स्यात् सिद्धायतनं क्षुल्लहिमवन्नामकं परम् । तृतीयं भरताभिख्यमिलाकूटं ततः परम् ॥ १८९ ॥ गङ्गावर्तनकूटं च, श्रीदेवीकूटमित्यपि । रोहितांशासूरीकूट, सिन्ध्यावर्त्तनसंज्ञकम् ॥ १९० ॥ सुरादेवीकूटमिति, परं हैमवताभिधम् । एकादशं वैश्रमणं, कूटानि हिमवगिरेः ॥ १९१ ॥ सर्वाण्यमूनि रात्नानि, मूले च व्यासदैर्घ्यत: । योजनानां पञ्चशती, तावदेवोच्छ्रितानि च ॥ १९२ ॥ मध्ये च त्रिशती पञ्चसप्तत्याढ्य शिरस्यथ । ततानि ढे शते सार्द्ध, गोपुच्छसंस्थितान्यतः ॥ १९३ ॥ शताः पञ्चदशैकाशीत्यधिका: किञ्चनाधिकाः । एकादश किञ्चिदूनषडशीतियुताः शताः ॥ १९४ ॥ शताः सप्तैकनवतिसंयुताः किञ्चिदूनकाः । परिक्षेपा: क्रमादेषु, मूले मध्ये च मूर्धनि ॥ १९५ ॥ सिद्धायतनकूटस्योपरि सिद्धालयो महान् । पञ्चाशयोजनान्यायामत: स परिकीर्तितः ॥ १९६ ॥ विष्कम्भतो योजनानि, प्रज्ञप्तः पञ्चविंशतिः । षड्विंशयोजनान्युच्चस्त्रिद्धारो भास्वरप्रभः ॥ १९७ ॥ विना प्रतीची त्रिदिशं, द्वारमेकैकमुच्छ्रितम् । योजनान्यष्ट चत्वारि, स्याद्विस्तारप्रवेशयोः ॥ १९८ ॥