________________
226
अयं प्रवचनसारोद्धारवृत्त्यभिप्राय: ॥ त्रिषष्टीयाजितचरित्रे तु उद्घाटितं गुहाद्वारं गुहान्तर्मण्डलानि च । तावत्तान्यपिं तिष्ठन्ति, यावज्जीवति चक्रभृत् ॥
इत्युक्तम् ॥ [पर्व २. सर्ग. ४. श्लो. १८९] द्वारात् खण्डप्रपाताया, याम्याद्याम्यदिशि ध्रुवम् । गङ्गायाः पश्चिमे कूले, वसन्ति निधयो नव ॥ १५२ ॥ इति दक्षिणार्धभरतम् ॥ उदीच्यामथ वैताढ्यात्, हिमवगिरिसीमया । स्यादुत्तरभरतार्द्ध, पर्यंकासनसंस्थितम् ॥ १५३ ।। अष्टात्रिंशे योजनानां, द्वे शते त्रिकलाधिके । विष्कम्भतोऽथ बाहास्य, प्रत्येकं पार्श्वयोर्द्धयोः ॥ १५४ ॥ योजनानां शतान्यष्टादश द्विनवतिस्तथा । सार्दाः सप्त कला: क्षेत्रफलमस्याथ कीर्त्यते ॥ १५५ ॥ लक्षास्त्रिंशत् सहस्राणि, द्वात्रिंशदथ चोपरि । शतान्यष्टौ योजनानामष्टाशीतिरथाधिका ॥ १५६ ॥ कला द्वादश विकला, एकादश प्रकीर्तिताः । उक्त सामान्यभरतवत् शेषं तु शरादिकम् ॥ १५७ ॥ नितम्बस्य हिमवतो, दाक्षिणात्यस्य सन्निधौ । क्षेत्रेऽस्मिन्नन्तरे गङ्गासिन्धुप्रपातकुण्डयोः ॥ १५८ ॥ गिरिर्वृषभकूटाख्य, उच्चत्वेनाष्टयोजन: । द्वे योजने भूनिमग्नश्चारुगोपुच्छसंस्थितः ॥ १५९ ॥ मूलेऽसौ योजनान्यष्टौ, मध्ये षट् योजनानि च । चतुष्ठयं योजनानामुपर्यायतविस्तृतः ॥ १६० ॥ पञ्चविंशतिरेवाष्टादशैव द्वादशापि च । साधिकानि परिक्षेपो, मूले मध्ये च मूनि च ॥ १६१ ॥ द्वादशाष्ट च चत्वारि, मूल मध्ये शिरस्यपि । योजनानि क्रमादस्य, व्यासायामो मतान्तरे ॥ १६२ ॥ सप्तत्रिंशत् क्रमात् पञ्चविंशतिर्दादशापि च । साधिकानि परिक्षेपो, मूले मध्ये तथोपरि ॥ १६३ ॥ इदं च मतदयमपि जम्बूदीपप्रज्ञप्तिसूत्रे ॥ मतान्तरं ननु कथं, श्रुते सर्वज्ञमूलके । तुल्यकैवल्यभाजां यदेकमेवार्हतां मतम् ॥ १६४ ।। अत्रोच्यते, दुर्भिक्षे स्कन्दिलाचार्यदेवर्द्धिगणिवारके । गणनाभावतः साधुसाध्वीनां विस्मृतं श्रुतम् ॥ १६५ ॥ तत: सुभिक्षे संजाते, सङ्घस्य मेलकोऽभवत् । वलभ्यां मथुरायां च, सूत्रार्थघटनाकृते ॥ १६६ ॥ वलभ्यां संगते संडे, देवर्द्धिगणिरग्रणी: । मथुरायां सङ्गते च, स्कन्दिलार्योऽग्रणीरभूत् ॥ १६७ ॥ ततश्च वाचनाभेदस्तत्र जातः क्वचित् क्वचित् । विस्मृतस्मरणे भेदो, जातु स्यादुभयोरपि ॥ १६८ ॥ तत्तैस्ततोऽर्वाचीनैश्च, गीताथैः पापभीरुभिः । मतदयं तुल्यतया, कक्षीकृतमनिर्णयात् ॥ १६९ ॥ सत्यप्येवं साम्प्रतीना, विसंवादं श्रुतस्थितम् । निर्णतुमुत्सहन्ते ये, ते ज्ञेया मातृशासिताः ॥ १७० ॥ एवमेवोक्तं श्रीमलयगिरिभिर्कोतिष्करण्डवृत्तौ ॥ देशोनक्रोशतुङ्गोऽर्द्धक्रोशविस्तृत एव च । क्रोशायाम उपर्यस्य, प्रासादोऽतिमनोरमः ॥ १७१ ॥ देवोऽत्र वृषभाभिख्य, एकपल्योपमस्थितिः । महर्चिको विजयवत्तथास्य राजधान्यपि ॥ १७२ ॥