________________
225
ततो द्वे औत्तराहप्राक्तोड्डुकेऽन्त्यं च मण्डलम् । उदीच्यप्राक्कपाटेऽयं, पश्चिमायामपि क्रमः ॥ १३४ ॥ एवमेकोनपञ्चाशत्, पूर्वभित्तौ भवन्ति वै । तावन्त्यपरभित्तौ तत्तुल्यानि संमुखानि च ॥ अयं च मलयगिरिकृत क्षेत्रविचारबृहद्वृत्त्याद्यभिप्राय: ॥
१३५ ॥
१३६ ॥
आवश्यक बृहद्वृत्तिटीप्पनकप्रवचनसारोद्धारबृहद्वृत्त्याद्यभिप्रायस्त्वयम् । गुहायां प्रविशन् भरतः पाश्चात्यपान्थजनप्रकाशकरणाय दक्षिणद्वारे पूर्वदिक्कपाटे प्रथमं योजनं मुक्त्वा प्रथमं मण्डलमालिखति । ततो गोमूत्रिकान्यायेनोत्तरतः पश्चिमदिक्कपाटतोडके तृतीययोजना द्वितीयमण्डलमालिखति । ततस्तेनैव न्यायेन पूर्वदिक्कपाटतोड्डुके चतुर्थयोजनादौ तृतीयम् । ततः पश्चिमदिग्भित्तौ पञ्चमयोजनादौ चतुर्थम् । ततः पूर्वदिग्भित्तौ षष्ठयोजनादौ पञ्चमम् । यावदष्टचत्वारिंशत्तममुत्तरद्वारसत्क पश्चिमदिक्कपाटे प्रथमयोजनादौ एकोनपञ्चाशत्तमं चोत्तरदिग्द्वारसत्कपूर्वदिक्कपाटे द्वितीययोजनादावालिखति । एवमेकस्यां भित्तौ पञ्चविंशतिरपरस्यां च चतुर्विंशतिरिति समग्रेणैकोनपञ्चाशत् मण्डलानि भवन्तीति ॥ दक्षिणोत्तोड्डकात् सप्तदशभिर्योजनैः परा । अस्त्युन्मग्नजला नाम, नदी त्रियोजनातता ॥ द्वादशयोजनायामा, पूर्वभित्तिविनिर्गता । विभिद्य पश्चिमां भित्तिं प्रविष्टा सिन्धुनिम्नगाम् ॥ १३७ ॥ अस्यां पतति यत्किञ्चित्दृषत्काष्टनरादिकम् । तत्सर्वमद्भिराहत्य, बहिः प्रक्षिप्यते स्थले ॥ १३८ ॥ ततः परं योजनयोर्द्धयोरतिक्रमे परा । स्यान्निमग्नजला नाम, नदी त्रियोजनातता ।। १३९ ।। द्वादशयोजनायामा, पूर्वभित्तिविनिर्गता । प्रत्यभित्तिं प्रविभिद्य, सिन्धुं विशत्यसावपि ॥ १४० ॥ अस्यां पतति यत्किञ्चित्तृणकाष्टनरादिकम् । अधो मज्जति तत्सर्वमीदृक् स्वभावमेनयोः ॥ १४१ ॥ ततश्चोत्तरतः सप्तदशभिर्योजनैः परः । चतुर्योजनविष्कम्भायाम उत्तरतोड्डुकः ॥ १४२ ॥ ततश्च, उभाभ्यां द्वारभागाभ्यामित्येवं सर्वसंख्यया । योजनैरेकविंशत्या, नद्यौ स्यातां यथोदिते ॥ १४३ ॥ अथ वार्द्धकिरत्नेन, सद्य: सज्जितपद्यया । नद्यावुभे समुत्तीर्य, यावत् गच्छति चक्रभृत् ॥ १४४ ॥ तावद्धिना प्रयासेन, कपाटावुत्तराश्रितौ । उद्घटेते स्वयमेव, कृतक्रौञ्चारखौ रयात् ॥ १४५ ॥ निर्गत्य तेन द्वारेण, विजित्योत्तरभारतम् । दर्याः खण्डप्रपातायाश्चक्री समीपमापतेत् ॥ १४६ ॥ उत्तरद्वारमुद्घाट्य, सेनानीकृतयत्नतः । मण्डलान्यालिखन् प्राग्वत्, चक्री विशति तां गुहाम् ॥ १४७ ।। पूर्वं निमग्नसलिलां, समुत्तरेत्ततः पराम् । तूर्णं वार्द्धकिरत्नेन कृतया हृद्यपद्यया ॥ १४८ ॥ इमे मानादिभिः प्राग्वत्, प्रत्यग्भित्तिविनिर्गते । प्राच्यभित्तिं किन्तु भित्त्वा प्राप्ते गङ्गामहानदीम् ॥ १४९ ॥ द्वारेण दाक्षिणात्येन, स्वयमुद्घटितेन च । निर्गत्य कृतकृत्यः सन्, चक्री निजपुरं विशेत् ॥ १५० ॥ स्याद्यावच्चक्रिणो राज्यं, तावत्तिष्ठन्ति सन्ततम् । मण्डलानि च पद्ये च, गुहामार्गे गतागते ।। १५१ ।।