SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ 223 मध्यप्रदेशे विष्कम्भ, एतावानेषु जायते । एवं हिमवतादीनां, सर्वकूटेषु भावना ॥ ९० ॥ सिद्धायतनकूटस्योपरि रम्यं विराजते । सत्सिद्धायतनं मौलौ, किरीटमिव भूपतेः ॥ ९१ ॥ तदन कनकमणिमयमेकक्रोशायतं तदर्द्धततम् । चापशतानि चतुर्दश, चत्वारिंशानि चोत्तुङ्गम् ॥ ९२ ॥ पूर्वोत्तरादक्षिणासु, द्वारमेकैकमत्र तत् । धनुःपञ्चशतोत्तुङ्ग, तदर्धा किल विस्तृतम् ॥ ९३ ॥ पञ्चधनुःशतविष्कम्भायामा स्यात्तदड़बाहल्या । मणिपीठिका तदन्तदेवच्छन्दक उपरि चास्याः ॥ ९४ ॥ पञ्चचापशतान्येष, विष्कम्भायामतो मतः । तान्येव सातिरेकाणि, तुत्वेन प्ररूपितः ॥ ९५ ॥ अष्टोत्तरं शतं नित्यप्रतिमास्तत्र चाहताम् । उत्सेधाङ्गलनिष्पन्नधनुःपञ्चशतोच्छ्रिताः ॥ ९६ ॥ एकैकस्यां दिशि सप्तविंशतिः सप्तविंशतिः । एवं चतुर्दिशं ताः स्युर्नाम्ना च ऋषभादयः ॥ ९७ ॥ तासां च जिनमूर्तीनामङ्करत्नमया नखाः । अन्ता हिताक्षरत्नप्रतिसेकमनोहराः ॥ ९८ ॥ पाणिपादतलानि च, जिह्वा श्रीवत्सचूचुकम् । तालूनि च तपनीयमयानि रिष्टरत्नजाः ॥ ९९ ॥ श्मश्रुरोमराजयश्च, ओष्टा विद्रुमनिर्मिताः । नासा अन्तर्लोहिताक्षनिषेकास्तपनीयजाः ॥ १०० ॥ लोहिताक्षप्रतिसेकान्यक्षीण्यङमयानि च । तारका अक्षिपक्ष्माणि, भ्रुवश्च रिष्टरत्नजाः ॥ १०१॥ ललाटपट्टश्रवणकपोलं कनकोद्भवम् । केशभूमिस्तपनीयमयी केशाश्च रिष्टजाः ॥ १०२ ॥ वज्रजाः शीर्षघटिकास्तथा कनकनिर्मिताः । ग्रीवाबाहुपादजंघागुल्फोरुतनुयष्टयः ॥ १०३ ॥ नन्वेतानि भावजिनप्रतिरूपाणि तेषु च । उचितं श्मश्रुकूर्चादि, श्रामण्यानुचितं कथम् ? ॥ १०४ ॥ तदुक्तं श्रीतपागच्छनायकश्रीदेवेन्द्रसूरिशिष्यश्रीधर्मघोषसूरिभिर्भाष्यवृत्तौ । भगवतोऽपगतकेशशीर्षमुखनिरीक्षणेन श्रामण्यावस्था सुज्ञाता एव इति ॥ अत्रोच्यते, भावार्हतामपि श्मश्रुकूर्चादीनामसंभवः । न सर्वथा किन्तु तादृग्दिव्यातिशयसंभवात् ॥ १०५ ॥ स्यादवस्थितता तेषां, श्रामण्यग्रहणादनु । पुरुषत्वप्रतिपत्तिः, सौन्दर्यं चेत्थमेव हि ॥ १०६ ॥ __ यदुक्तं श्री समवायाङ्गे । अवठियकेसमंसुरोमणे इति ॥ औपपातिकेऽप्युक्तम् अवट्ठियसुवि भत्तचित्तमंसू॥ एवं च, तासां भावजिनाधीशप्रतिरूपतया ततः । शाश्वतार्हत्प्रतिमानां, श्मश्रुकूर्चादि युक्तिमत् ॥ १०७ ॥ भाष्ये त्वकेशशीर्षास्या, या श्रामण्यदशोदिता । साऽवर्द्धिष्णुतयाल्पत्वात्तदभावविवक्षया ॥ १०८ ॥ ऐकैकस्याः प्रतिमाया:, पृष्टतश्छत्रधारिणी । ढे ढे चामरधारिण्यौ, पार्श्वत: पुरत: पुन: ॥ १०९ ॥ यक्षभूतकुण्डधारप्रतिमानां द्वयं द्वयम् । विनयावनतं पादपतितं घटिताञ्जलि ॥ ११० ॥ यथा देवच्छन्दकेऽस्मिन् घण्टाधूपकडुच्छकाः । तथा चन्दनकुम्भाद्याः, प्रत्येकं शतमष्टयुक् ॥ १११ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy