SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 222 तथाहुः क्षमाश्रमणपादाः । [बृहत्क्षेत्रसमास श्लो. १८८-१८९] विज्जाहरसेढीओ, उड्ढं गंतूण जोअणे दसओ । दसजोअणपिहुलाए, सेढीओ सक्करायस्स ॥ सोमजमकाइयाणं, देवाणं वरुणकाइयाणं च ॥ वेसमणकाइयाणं, देवाणं आभियोगाणं ॥ बहूनि भवनान्यत्र, तेषां पल्योपमायुषाम् । बहिर्वृत्तानि रात्नानि, चतुरस्राणि चान्तरे ॥६७ ॥ वेदिकावनराजिन्योः, श्रेण्योासोऽनयोर्भवेत् । योजनानि दशैतावान्, वैताढ्यस्यापि तत्र सः ॥ ६८ ॥ दशयोजनतुङ्गस्य, त्रिंशद्योजनविस्तृतेः । खण्डस्यास्य द्वितीयस्य, गणितं प्रतरात्मकम् ॥६९ ॥ तिम्रो लक्षाः सहस्राणि, सप्त त्रीणि शतानि च । तथा चतुरशीतिश्च, कला एकादशाधिकाः ॥ ७० ॥ अत्र च सर्वत्र यथोपयोगं योजनपदमनुक्तमपि अध्याहार्यम् ॥ तथा खण्डे द्वितीयस्मिन्, निश्चितं सर्वतो धनम् । त्रिंशल्लक्षा योजनानां, सहस्राणि त्रिसप्ततिः ॥ ७१ ॥ शतान्यष्टौ पञ्चचत्वारिंशदाढ्यानि चाधिका: । कला: पञ्चदशेत्युक्तं, व्यक्तं युक्तिविशारदैः ॥ ७२ ॥ अभियोगिश्रेणितश्च, योजनानामतिक्रमे । पञ्चानामूर्ध्वमत्रास्योपरिभागो विराजते ॥७३॥ नानारत्नालंकृतस्य, दशयोजनविस्तृतेः । मध्ये पद्मवेदिकाऽस्य, तस्याश्चोभयतो वने ॥७४ ॥ तयोः क्रीडापर्वतेषु, कदल्यादिगृहेषु च । दीर्घिकादिषु च स्वैरं, क्रीडन्ति व्यन्तरामराः ॥७५ ॥ पञ्चयोजनतुङ्गस्य, दशयोजनविस्तृतेः । खण्डस्यास्य तृतीयस्य, प्रतरं परिकीर्तितम् ॥ ७६ ॥ एकं लक्षं द्धे सहने, चतुःशत्येकषष्टियुक् । कला दशाथ गणितं, ब्रवीम्यस्मिन् घनात्मकम् ॥ ७७ ॥ पञ्चलक्षा योजनानां, सहस्रा द्वादशापरे । सप्तातिरेका त्रिशती, कलाश्च द्वादशाधिकाः ॥ ७८ ॥ त्रयाणामपि खण्डानां, घनेष्येकीकृतेषु च । वैताढ्यस्याखिलस्यापि, जायते गणितं धनम् ॥ ७९ ॥ तच्चैदम्, सप्ताशीतिश्च लक्षाणि, द्विनवतिः शतान्यपि । एकोनत्रिंशदाढ्यानि, कलाश्चतुर्दशाधिकाः॥ ८० ॥ सिद्धायतनं कूटं, दक्षिणभरतार्द्धनामधेयं च । खण्डप्रपातकूटं, तुर्यं तन्माणिभद्राख्यम् ॥ ८१ ॥ वैताढ्याख्यं पञ्चममथ षष्ठं पूर्णभद्रसंज्ञं च । भवति तमिस्रगुहं, चोत्तरभरतार्द्धं च वैश्रमणम् ॥ ८२ ॥ वैताढ्ये नव कूटान्येवं, ज्ञेयानि तत्र पूर्वाब्धेः । सविधे सिद्धायतनं, ततः क्रमात् प्रत्यगखिलानि ॥ ८३॥ कूटान्येतानि सक्रोशान्युच्चत्वे योजनानि षट् । तावन्त्येव मूलभूमौ, विष्कम्भायामतोऽपि च ॥ ८४ ॥ मध्ये देशोनानि पञ्च, योजनानि शिरस्यथ । साधिकानि त्रीण्युदस्तगोपुच्छसंस्थितान्यतः ॥ ८५ ॥ परिक्षेपा मूलमध्यशिरस्सूनानि विंशतिः । तथोनानि पञ्चदश, साग्राणि नव च क्रमात् ॥ ८६ ॥ अधस्ताच्छिखराद्यावदागतं तत्किलार्द्धितम् । कूटोत्सेधार्द्धयुक्कूटे, व्यासो यथेप्सितास्पदे ॥ ८७ ॥ तथाहि, सक्रोशार्द्ध योजनानां, त्रयेऽतीते शिरोऽग्रतः । यदा जिज्ञास्यतेऽमीषु, व्यासस्तदा तदर्द्धयेत् ॥ ८८ ॥ स्युः षट् क्रोशा: सपादास्ते, कूटोत्सेधार्द्धसंयुताः । सपादक्रोशहीनैवं, संजाता पञ्चयोजनी ॥ ८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy