SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ 221 बाहा त्वत्र न संभवति ॥ वैताढ्याद्दक्षिणस्यां, चोत्तरस्यां लवणार्णवात् । चतुर्दशाधिकशतं, योजनानि कलास्तथा ॥ ४२ ॥ एकादशातीत्य मध्यखण्डेऽयोध्यापुरी भवेत् । नवयोजनविस्तीर्णा, द्वादशयोजनायता ॥४३॥ खण्डेऽत्रैवार्यदेशानां, स्यात् सार्दा पञ्चविंशतिः । खण्डोऽनार्यस्तान् विनासौ खण्डा: पञ्चापरे तथा ॥ ४४ ॥ मध्यखण्डगतेष्वार्यदेशेष्वेव भवेज्जनिः । अर्हतां चक्रिणामर्द्धचक्रिणां शीरिणां तथा ॥ ४५ ॥ अष्टात्रिंशे योजनानां ढे, शते त्रिकलाधिके । अतिक्रम्य हिमवतो, दक्षिणस्यां तथाम्बुधेः ॥ ४६॥ एतावदेवातिक्रम्योत्तरस्यामत्र राजतः । वैताढ्यो मध्यस्थ इव, व्यभजत् भरतं स च ॥ ४७ ॥ पञ्चाशतं योजनानि, विस्तीर्णः पञ्चविंशतिम् । योजनान्युनत: क्रोशाधिकानि षड् भुवोऽन्तरे ॥ ४८ ॥ विहाय मन्दरं सर्वपर्वतानां भवेद्यतः । स्वस्वोच्छ्रयस्य तुर्यांशो, व्यवगाढो भुवोऽन्तरे ॥४९॥ ढे योजनशते साष्टाशीतिके त्रिकलाधिके । इषुवैताढ्यशैलस्य, प्रत्यञ्चाऽस्य प्रपञ्च्यते ॥ ५० ॥ योजनानां सहस्राणि, दश सप्त शतानि च । विंशतिश्च कला: किञ्चिदूना दादश कीर्तिताः ॥५१॥ धनु:पृष्ठं सहस्राणि, दश सप्त शतानि च । त्रिचत्वारिंशताढ्यानि, कला: पञ्चदशाधिकाः ॥ ५२ ॥ साष्टाशीतिर्योजनानां, चतुःशती तथा कला: । सार्दाः षोडश बाहास्य, प्रत्येकं पार्श्वयोर्द्धयोः ॥ ५३॥ अर्ध्वं च पर्वतस्यास्य, दक्षिणोत्तरपार्श्वयोः । अतिक्रमे योजनानां, दशानां समभूमितः ॥५४॥ अत्रास्ति मेखलैकेका, दशयोजनविस्तृता । आयामेव च वैताढ्यसमाने ते उभे अपि ॥ ५५ ॥ पृथुस्त्रिंशद्योजनानि, वैताढ्यः स्यादतः परम् । प्रतिमेखलमेकैका, मानतो मेखलासमा ॥ ५६ ॥ शोभिता वनखण्डेन, पद्मवेदिकयापि च । वर्त्तते खेचरश्रेणी, रत्नबद्धमहीतला ॥ ५७ ॥ स्युस्तत्र दक्षिणश्रेणी, वृतानि विषयैः निजैः । महापुराणि पञ्चाशत्, परस्यां षष्टिरेव च ॥ ५८ ॥ दक्षिणस्यां पुरं मुख्यं, भवेत् गगनवल्लभम् । उदीच्यां रथनूपुरचक्रवालाह्वयं भवेत् ॥ ५९ ॥ अयं जम्बूदीपप्रज्ञप्त्यभिप्राय: । ऋषभचरित्रादौ तु दक्षिणश्रेण्यां रथनूपुरचक्रवालमुत्तरश्रेण्यां गगनवल्लभमुक्तम् । इति मुख्यत्वं त्वनयो यं, स्वस्वश्रेण्यधिराजयोः । राजधानीरूपतया, महासमृद्धिशालिनोः ॥ ६०॥ वसन्तस्तेषु चोत्तुङ्गरत्नप्रासादशालिषु । तृणायापि न मन्यन्ते, स्वर्गं विद्याधरेश्वराः ॥ ६१ ॥ दशयोजनतुङ्गस्य, पञ्चाशद्धिस्तृतेरपि । खण्डस्याद्यस्य सकलं, प्रतरं स्यात् भुवस्तले ॥ ६२ ॥ पञ्चलक्षाः सहस्राणि, द्वादशाथ शतत्रयम् । सप्ताढ्यं द्वादश कला:, खण्डेऽथ प्रथमे घनम् ॥ ६३ ॥ लक्षाणामेकपञ्चाशत्, त्रयोविंशतिरेव च । सहस्रा योजनानां षट्सप्ततिः षट्कलास्तथा ॥ ६४ ॥ श्रेणीभ्यामथ चैताभ्यां, योजनानामतिक्रमे । दशानां मेखलैकैका, वर्तते पार्श्वयोर्द्धयोः ॥६५॥ तत्र याम्योत्तराभिख्ये, श्रेण्यौ गिरिसमायते । वसन्त्यत्र शक्रसत्कलोकपालाभियोगिनः ॥६६॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy