SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 220 इतः स्थानद्धिगुणत्वात्, द्रौ भागौ हिमवगिरिः । हैमवतं च चत्वारोऽष्टौ महाहिमवगिरिः ॥ १७ ॥ षोडशांशा हरिवर्ष, द्वात्रिंशन्निषधाचलः । विदेहाश्च चतुःषष्टिात्रिंशन्नीलवान्नगः ॥ १८ ॥ षोडशांशा रम्यकाख्यं, भागा रुक्मीनगोऽष्ट च । चत्वारो हैरण्यवन्तं, द्रौ भागौ शिखरी गिरिः ॥ १९ ॥ एक ऐरावतक्षेत्रम्, नवत्या च शतेन च । भागैरेवं योजनानां, लक्षमेकं समाप्यते ॥ २० ॥ यद्धेदं भरते क्षेत्रप्रमाणं योजनादिकम् । नवत्याढ्यशतगुणं, योजनानां हि लक्षकम् ॥ २१ ॥ जम्बूद्वीपस्य विष्कम्भो, यथैवं लक्षयोजनः । एवमायामोऽपि लक्षं, योजनानां भवेद्यथा ॥ २२ ॥ सहस्राः पञ्च वनयोक्स: पूर्वापरस्थयोः । योजनानां चतुश्चत्वारिंशान्यष्टौ शतानि च ॥ २३ ॥ पञ्चत्रिंशत् सहस्राणि, षडुत्तरा चतुःशती । विजयानां षोडशानां, विष्कम्भोऽयं समुच्चित: ॥ २४ ॥ षण्णामन्तर्नदीनां च पञ्चाशा सप्तशत्यसौ । चतुःसहस्री विष्कम्भो, वक्षस्काराष्टकस्य च ॥ २५ ॥ मेरुर्दशसहस्रोरुर्भद्रसालस्य चायतिः । सहस्राणि चतुःचत्वारिंशत् पूर्वापरस्थितेः ॥ २६ ॥ एषां संकलने लक्षं, योजनानां भवेदिति । वक्ष्यमाणविदेहानामायामोऽप्येवमूह्यताम् ॥ २७ ॥ दक्षिणोत्तरवर्तिन्योर्जगत्योर्मूलविस्तृतिः । भरतैरवतक्षेत्रव्यासेऽन्तर्भाव्यतां क्रमात् ॥ २८ ॥ जगत्योर्मूलविष्कम्भः, पूर्वपश्चिमयोस्तु यः । स्वस्वदिक्स्थवनमुखव्यासेऽन्तर्भाव्यतामसौ ॥२९॥ विष्कम्भो भरतस्याथ, शरश्च कथितो जिनैः । षड्विंशानि योजनानि, शतानि पञ्च षट् कला ॥ ३० ॥ चतुर्दशसहस्राणि, चतुःशत्येकसप्ततिः । योजनान्यस्य जीवा स्यात्किञ्चिदूनाश्च षट्कला: ॥ ३१ ॥ धनुःपृष्ठं सहस्राणि, चतुर्दश तथोपरि । अष्टाविंशा पञ्चशती, कला एकादशाधिकाः ॥ ३२ ॥ योजनानां त्रिपञ्चाशत्, लक्षा अशीतिरेव च । सहस्राणि षट् शतानि, तथैकाशीतिरित्यथ ॥ ३३ ॥ कला: सप्तदश तथा, तावत्यो विकला अपि । एतावत् भरतक्षेत्रे, प्रोक्तं क्षेत्रफलं जिनैः ॥ ३४ ॥ बाहा त्वत्र न संभवति ॥ तच्चेदं भरतं दे॒धा, वैताढ्यगिरिणा कृतम् । दाक्षिणात्यं भरतार्द्धमुत्तरार्द्ध तथापरम् ॥ ३५ ॥ षोढा हिमवदुत्थाभ्यां, भित्वा वैताढ्यभूधरम् । गंगासिन्धुभ्यां कृतं तत्, गत्वा पूर्वापराम्बुधी ॥ ३६॥ अर्धस्य दाक्षिणात्यस्य, स्याद्धिष्कंभः शरोऽपि च । अष्टात्रिंशयोजनानां, द्वे शते च कलात्रयम् ॥ ३७ ॥ योजनानां सहस्राणि, नव सप्तशतानि च । जीवाष्टचत्वारिंशानि, द्वादशात्र कलास्तथा ॥ ३८ ॥ धनु:पृष्ठं योजनानां, सहस्राणि नवोपरि । शतानि सप्त षट्षष्टिः, कलैका दक्षिणार्द्धके ॥ ३९ ॥ लक्षाण्यष्टादश पञ्चत्रिंशदेव सहस्रकाः । चतुःशती योजनानां, पञ्चाशीतिस्तथोपरि ॥ ४० ॥ कला द्वादश विकलाः, षडित्येवं जिनेश्वरैः । दाक्षिणात्ये भरताड़े, सर्वं क्षेत्रफलं मतम् ॥ ४१ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy