SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 219 वर्षवर्षधरनाममात्रतो, द्वीप एष कथितो यदोघतः । तद्विशेषविधिवर्णनेच्छयो - देश एव विहितोऽवसीयताम् ॥ २५६ ॥ विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजयश्रीवाचकेन्द्रान्तिष-द्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे सर्ग: पञ्चदश: समाप्तिमगमत् सिद्धान्तसारोज्ज्वलः ॥ २५७ ॥ इति लोकप्रकाशे पञ्चदशः सर्गः समाप्तः । अथ षोडशः सर्गः । द्वीपस्यास्याथ पर्यन्ते, स्थितं दक्षिणगामिनि । नानावस्थं कालचक्रैर्भरतं क्षेत्रमीरितम् ॥ १॥ अधिज्यधनुराकारं, स्पृष्टां तच्च पयोधिना । पूर्वपश्चिमयोः कोट्योः, पृष्टभागे च सर्वतः ॥ २ ॥ यो योऽत्रपद्यते क्षेत्रेऽधिष्ठाता पल्यजीवितः । तमाह्वयन्ति भरतं, तस्य सामानिकादयः ॥ ३॥ कल्पस्थितिपुस्तकेषु, तथालिखितदर्शनात् । तत्स्वामिकत्वात् भरतं, किंचेदं नाम शाश्वतम् ॥ ४॥ अत्र क्षेत्रादिप्रमाणं, षोढा विष्कम्भतस्तथा । इषुजीवाधनुः पृष्टाबाहा क्षेत्रफलैः ब्रुवे ॥ ५ ॥ तत्र विष्कम्भः प्रतीतः । शेषाणां त्विमानि लक्षणानि ॥ विवक्षितस्य क्षेत्रस्य, जीवाया मध्यभागतः । विष्कम्भो योऽर्णवं यावत्, स इषुः परिभाषितः ॥ ६॥ विवक्षितस्य क्षेत्रस्य, पूर्वापरान्तगोचरः । आयामः परमो योऽत्र, सा जीवेत्यभिधीयते ॥ ७ ॥ विवक्षितक्षेत्रजीवापूर्वापरान्तसीमया । योऽब्धिस्पर्शी परिक्षेपो, धनुःपृष्ठं तदूचिरे ॥ ८ ॥ पूर्वक्षेत्रधनुःपृष्ठाद्धनुःपृष्ठेऽग्रिमेऽधिकम् । खण्डं वक्रबाहुवद्यत्सा बाहेत्यभिधीयते ॥ ९ ॥ विवक्षितस्य क्षेत्रस्य, यानि योजनमात्रया । खण्डानि सर्वक्षेत्रस्य तत् क्षेत्रफलमुच्यते ॥ १० ॥ उच्चत्वस्यापि यन्मानं, सर्वतो योजनादिभिः । एतत् घनक्षेत्रफलं, पर्वतेष्वेव सम्भवेत् ॥ ११ ॥ छिन्नस्यैकोनविंशत्या, विभागो योजनस्य यः । सा कला ताभिरेकोनविंशत्या पूर्णयोजनम् ॥ १२ ॥ एकोनविंशतितमः कलाया अपि यो लवः । विकला ताभिरेकोनविंशत्यैका कला भवेत् ॥ १३ ॥ इति परिभाषा ॥ व्यासो भरतहिमवतादि क्षेत्रमहीभृताम् । स्थानद्विगुणितो ज्ञेय, आविदेहमतः पुनः ॥ १४ ॥ यथारोहावरोहेण, विष्कम्भोऽर्द्धार्द्धहानितः । भवेदेवमैरवते, विष्कम्भो भरतोपमः ।। १५ ।। तच्चैवम् । चेज्जम्बूद्वीपविष्कम्भे, भागा नवतियुक् शतम् । कल्प्यन्ते तत्र भरतमेकभागमितं भवेत् ॥ १६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy