SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 218 नन्दापुष्करिणीतुल्यो, विष्कम्भोद्धेधदैर्ध्यत: । वेष्टितो वनखण्डेन, पद्मवेदिकयापि च ॥ २३२ ॥ हृदस्योत्तरपूर्वस्यामभिषेकसभाऽत्र च । सिंहासनपीठिकायां, विजयोऽत्राभिषिच्यते ॥ २३३ ॥ इतोऽप्युत्तरपूर्वस्यां, ससिंहासनपीठिका । अलङ्कारसभा तत्र, भूष्यते विजयामरः ॥ २३४ ॥ अस्या उत्तरपूर्वस्यां, व्यवसायसभाऽत्र च । सिंहासनपीठिकायां, विजयस्य च पुस्तकः ॥ २३५ ॥ स्वर्णरूप्यमणिमयः, समस्तस्थितिसूचकः । सपीठिके सभे चैते, उपपातसभासमे ॥ २३६ ॥ व्यवसायसभायाश्च, वर्वयुत्तरपूर्वतः । द्वियोजनमितायामव्यासयोजनमेदुरम् ॥ २३७ ।। बलिपीठं रत्नमयं, तस्याप्युत्तरपूर्वतः । नन्दापुष्करिणी प्रोक्तहृदमाना विराजते ॥ २३८ ॥ यथा चैवं विजयस्य नगरी विजयाभिधा । तथा स्याद्वैजयन्तस्य, वैजयन्त्यभिधा पुरी ॥ २३९ ॥ वैजयन्ताभिधद्धाराद्, दक्षिणस्यामसंख्यकान् । दीपाब्धीन् समतिक्रम्य, जम्बूद्वीपे इहैव हि ॥ २४०॥ जयन्तस्यापि साऽत्रैव, द्वीपे तद्द्वारतो दिशि । पश्चिमायामसंख्येयद्वीपाब्धिनामतिक्रमे ॥ २४१ ॥ अपराजितदेवस्योत्तरस्यामपराजितात् । द्वारादसंख्यद्वीपाब्धीन्, मुक्त्वा द्वीप इहैव सा ॥ २४२ ॥ एता: सर्वा राजधान्योऽवगाह्य दीपमेतकम् । सहस्राणि योजनानां, द्वादशाभ्यन्तरे स्थिताः ॥ २४३ ॥ एवं सर्वदीपवाद्धिजगतीदारनाकिनां । पुर्यः स्वस्वदीपवादितुल्याख्यद्धीपवादिषु ॥ २४४ ॥ अथास्य जम्बूद्धीपस्य, द्वाराणामन्तरं मिथः । द्वारविस्ताररहितपरिधेः पादसंमितम् ॥ २४५ ॥ अर्धपञ्चमविस्तारं, द्वारमेकैकमग्रतः । अष्टादशयोजनानि, तैरूनं परिधिं कुरु ॥ २४६ ॥ ३१६२०९ योजन ३ क्रोश १२८ धनुष्य १३ अङ्गल ॥ तस्य तुर्यांश एकोनाशीतिः खलु सहस्रका: । योजनानि द्विपञ्चाशत्, क्रोशश्चैकस्तथाधिकः ॥ २४७ ॥ सार्द्ध सहस्रं धनुषां, द्वात्रिंशच्चापसंयुतम् । त्रीण्यङ्गलानि त्रियवी, यूके ढे साधिके इति ॥ २४८ ॥ ७९०५२ क्रोश १ धनुः १५३२ अङ्गल ३ यव ३ युका २ ॥ इत्यस्य जम्बूद्धीपस्य, बहिर्भागो निरूपितः । अथैतस्य मध्यभागो, यथाम्नायं निरूप्यते ॥ २४९ ॥ क्षेत्राणि सप्त सन्त्यस्य, जम्बूदीपस्य मध्यत: । एकैकेन पर्वतेनान्तरितानि परस्परम् ॥ २५० ॥ प्रथमं भरतक्षेत्रं, परं हैमवताभिधम् । तृतीयं हरिवर्षाख्यं, तुर्यं महाविदेहकम् ॥ २५१ ॥ पञ्चमं रम्यकं षष्ठं, हैरण्यवतमीरितम् । ऐरावतं सप्तमं चान्तरामूनि नगा इमे ॥ २५२ ॥ आद्यद्वितीययोर्मध्ये, हिमवान्नाम पर्वतः । महाहिमवदद्रिश्च, द्वैतीयिकतृतीययोः ॥ २५३ ॥ तृतीयतुर्ययोरन्तर्निषधो नाम सानुमान् । तुर्यपञ्चमयोर्नीलवान्नगः सीमकारकः ॥ २५४ ॥ रूप्यी शैल: क्षेत्रयोः स्यात्, मध्ये पञ्चमषष्ठयोः । षष्ठसप्तमयोश्चैव, शिखरी भूधरोऽन्तरे ॥ २५५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy