________________
217
सुधर्मायां सभायां च, स्युबूंपवासपीठिका: । षट् सहस्राणि ता: प्राग्वत्, भावनीया यथाक्रमम् ॥ २१२ ॥ एता अपि स्वर्णरूप्यफलकैरुपशोभिताः । फलकेषु लसद्धज्रनागदन्ता अमीषु च ॥ २१३ ॥ वाजिकानि सिक्यकानि, सिक्यकेषु च वज्रजाः । उगिरन्त्यो धूपघट्यो, धूपधूपमहर्निशम् ॥ २१४ ॥ तथैतस्या: सुधर्माया, मध्येऽस्ति मणिपीठिका । योजनदयविष्कम्भायामा योजनमेदुरा ॥ २१५ ॥ चैत्यस्तंभ उपर्यस्या, महान् माणवकाभिधः । सार्द्धसप्तयोजनोच्चः, क्रोशार्द्धस्थूलविस्तृतः ॥ २१६ ॥ उपर्यधरत्वसौ स्तंभः, षट् षट् क्रोशान् विहाय च । मध्यांशेऽष्टादशक्रोशे, रूप्यफलकाञ्चित: ॥ २१७ ॥ प्राग्वत्तेषु नागादन्ता, निरुद्धा वज्रसिक्यकैः । तेषु वज्रसिक्यकेषु, वृत्ता वज्रसमुद्गकाः ॥ २१८ ॥ तेषु वज्रसमुद्गेषु, जिनसक्थीनि सन्ति च । विजयस्वर्गिणान्यैश्चार्चितानि व्यन्तरामरैः ॥ २१९ ॥
पूज्यत्वमेषां सक्थ्नां तु, तादृग्महिमयोगतः । यदेतत्क्षालनजलं, सुराणामपि दोषहृत् ॥ तथोक्तं श्राद्धविधिवृत्तौ - नव्योत्पन्नतया तर्हि, सौधर्मेशानशक्रयोः । विवादोऽभूद्धिमानार्थं, हार्थमिव हयिणोः ॥ तयोरिवोर्वीश्वरयोर्विमानविप्रलुब्धयोः । नियुद्धादिमहायुद्धान्यप्यभूवन्ननेकशः ॥ निवार्यते हि कलहस्तिरश्चां तरसा नरैः । नराणां च नराधीशैर्नराधीशां सुरैः क्वचित् ॥ सुराणां च सुराधीशैः, सुराधीशां पुनः कथम् । केन वा स निवार्यंत ?, वज्राग्निरिव दुःशमः ॥ माणवकाख्यस्तंभस्थाहदंष्ट्राशान्तिवारिणा । साधिव्याधिमहादोषमहावैरनिवारिणा ॥ कियत्कालव्यतिक्रान्ती, सिक्तौ महत्तरैः
सुरैः । बभूवतुः प्रशान्तौ तौ, किंवा सिद्धयेन्न तज्जलात् ॥ [प्र. १ गा. ८ श्लो. ७१०, ७१२ थी ७१६] स्तंभस्य तस्य पूर्वस्यामस्त्येका मणिपीठिका । अर्द्धयोजनबाहल्या, योजनायतविस्तृता ॥ २२० ॥ उपर्यस्या महदेकं, सिंहासनमनुत्तरम् । स्तंभस्यास्य पश्चिमायां, तथान्या मणिपीठिका ॥ २२१ ॥ सापि योजनविष्कम्भायामा दिक्रोशमेदुरा । उपरि स्वर्णमाणिक्यशयनीयमनोहरा ॥ २२२ ॥ तल्पादुदीच्यां क्षुल्लेन्द्रध्वजः पूर्वोक्तकेतुवत् । मानतोऽस्मात् पश्चिमायां, कोश: प्रहरणैर्भूतः ॥ २२३ ॥ तस्मिन्परिघरत्नादि, नानाप्रहरणानि च । किञ्चिदेवं सुधर्माया:, स्वरुपमुपवर्णितम् ॥ २२४ ॥ अस्याश्चोत्तरपूर्वस्यां, सिद्धायतनमुत्तमम् । आयामादिप्रमाणेन, तत् सुधर्मासभासमम् ॥ २२५ ॥ तस्य मध्यदेशभागे, एकयोजनमेदुरा । भाति द्वियोजनायामविष्कम्भा मणिपीठिका ॥ २२६ ॥ उपर्यस्या रत्नमयोऽधिकद्रियोजनोन्नत: । द्वियोजनायतततो, देवच्छन्दक आहितः ॥ २२७ ॥ इदं श्रीजीवाभिगमवृत्तौ, क्षेत्रसमासबृहद्वृत्तौ तु असौ द्वियोजन-प्रमाणविष्कम्भोच्चत्व उक्तः ॥ तस्मिन् देवच्छन्दके च, सुरासुरनमस्कृतम् । जयत्यर्हत्प्रतिमानां, शतमष्टोत्तरं किल ॥ २२८ ॥ तस्य सिद्धायतनस्य, विभात्युत्तरपूर्वतः । उपपातसभा सापि, सुधर्मेव प्रमाणत: ॥ २२९ ॥ अर्धयोजनबाहल्या, योजनायतविस्तृता । तस्यां मणीपीठिकाऽच्छा, दिव्यशय्यास्ति तत्र च ॥ २३० ॥ तस्यां विजयदेवस्योपपातो बोभवीत्यथ । अस्या उत्तरपूर्वस्यां, दिशि चैको महाहृदः ॥ २३१ ॥