________________
216
मध्ये चाक्षपाटकानामेकैका मणिपीठिका । अर्धयोजनबाहल्या, योजनं विस्तृतायता ॥ १९२ ॥ तासां प्रत्येकमुपरि, सिंहासनमुरु स्फुरत् । तेषां प्रेक्षामण्डपानां, पुरतोऽथ प्रकीर्तिता ॥ १९३ ॥ एकयोजनबाहल्या, द्वे च ते विस्तृतायता । रचिता विविधैर्रत्नैरेकैका मणिपीठिका ॥ १९४ ॥ क्षेत्रसमासबृहवृत्तौ त्वियं द्वियोजनायामविष्कम्भबाहल्या उक्ता ॥ साधिके योजने तुङ्गस्तूपस्तदुपरि स्मृतः । देशोने च योजने दे, प्रत्येकं विस्तृतायत: ॥ १९५ ॥
क्षेत्रसमासबृहद्वृत्तौ तु अयं देशोनद्धियोजनायामविष्कम्भः परिपूर्णद्रियोजनोच्च उक्तः ॥ तेषां च चैत्यस्तूपानामुपर्यातन्वते श्रियम् । रात्नानि मंगलान्यष्टौ, चैत्यस्तूपपुरः पुनः ॥ १९६ ॥ योजनायामविष्कम्भा, भवेद्दिक्षु चतसृषु । अर्धयोजनबाहल्या, प्रत्येकं मणिपीठिका ॥ १९७ ॥ तासु प्रत्येकमेकैका, जिनमूर्तिर्विराजते । पञ्चचापशतोत्तुङ्गा, शाश्वती स्तूपसंमुखी ॥ १९८ ॥ ___तथोक्तं जीवाभिगमवृत्तौ – “जिनोत्सेध उत्कर्षत: पञ्चधनुःशतानि, जघन्यत: सप्तहस्ताः, ।
इह तु पञ्चधनुःशतानि संभाव्यन्ते” ॥ ऋषभो वर्द्धमानश्च, चन्द्राननजिनेश्वरः । वारिषेणश्चेति नित्यनामानो नाकिभिर्नुताः ॥ १९९ ॥ पुरस्तासां पीठिकानामेकैका मणिपीठिका । स्थूलैकयोजनं ढे च, योजने विस्तृतायता ॥ २०० ॥ तासां प्रत्येकमुपरि, स्यादष्टयोजनोच्छ्रयः । चैत्यवृक्षः ते च सर्वे, नानातरुभिरावृताः ॥ २०१॥ वज्रमूलारिष्टकन्दा, वैडूर्यस्कन्धबन्धुराः । सद्प्यविडिमा: स्वर्णशाखा रत्नप्रशाखकाः ॥ २० ॥ सुवर्णवृन्तवैडूर्यमयपत्रमनोहराः । जम्बूनदपल्लवाश्च, रात्नैः पुष्पफलैर्भूताः ॥ २०३ ॥ अत्र स्कन्धविडिमादिमानं तु वक्ष्यमाणजम्बूवृक्षवद् ज्ञेयम् ॥ तेषां च चैत्यवृक्षाणां, पुरतो मणिपीठिका । योजनायामविष्कम्भा, योजनाद्धं च मेदुरा ॥ २०४ ॥ महेन्द्रध्वजमेकैकस्तास्वर्द्धक्रोशविस्तृतः । सार्द्धसप्तयोजनोच्च:, पताकाछत्रमण्डितः ॥ २०५ ॥
इदं जीवाभिगमसूत्रवृत्तौ ॥ क्षेत्रसमासबृहद्वृत्तौ तु “ते महेन्द्रध्वजा: प्रत्येकमष्टयोजनोच्छ्रया:”
इत्युक्तम् ॥ तेषां महेन्द्रध्वजानां, पुरः प्रत्येकमेकिका । नन्दापुष्करिणी पद्मवेदिकावनवेष्टिता ॥ २०६ ॥ योजनानि दशोण्डास्ता:, सार्की द्वादशयोजनीम् । आयता: षड् योजनानि, क्रोशाधिकानि विस्तृताः ॥ २०७ ॥ एवं सुधर्मसभाया, बहिर्भागो निरूपितः । अथैतस्या मध्यभागो, यथाम्नायं निरूप्यते ॥ २०८ ॥ तस्यां सुधर्मासभायां, षट्सहस्राणि पीठिकाः । द्वे सहस्रे दिशि प्राच्या, पश्चिमायां तथैव च ॥ २०९ ॥ दक्षिणस्यामुत्तरस्यां, तासां सहस्रमेककम् । ता: सर्वा अपि रैरूप्यफलकैः खचिता ध्रुवम् ॥ २१० ॥ नागदन्ता वज्रमयाः, फलकेष्वथ तेष्वपि । सुगन्धिपुष्पदामानि, लम्बमानान्यनेकशः ॥ २११ ॥