________________
215
मध्येऽस्य पीठबन्धस्य, भूमिभागेऽस्ति बन्धुरे । महानेकस्तपनीयमय: प्रासादशेखरः ॥ १६५ ॥ द्भाषष्टि योजनान्यर्दाधिकानि स समुन्नतः । उच्चत्वस्यार्द्धमानेन, भवत्यायतविस्तृतः ॥ १६६ ॥ तस्य प्रासादस्य मध्ये, महती मणिपीठिका । सा द्विगव्यूतबाहल्या, योजनं विस्तृतायता ॥ १६७ ॥ तस्या मणिपीठिकाया, मध्ये सिंहासनं महत् । वृतं विजयदेवाह, सामानिकादिकासनैः ॥ १६८ ॥ तच्चैवम् – मूलसिंहासनादायूत्तरेशानदिशां त्रये । सामानिकानां चत्वारि, सहस्राण्यासनानि वै ॥ १६९ ॥ प्राच्यामग्रमहिषीणामासनानि चतसृणाम् । चत्वार्येवातिचतुरपरिवारसुरीजुषाम् ॥ १७० ॥ मूलसिंहासनादग्निकोणेऽभ्यन्तरपर्षदः । भद्रासनसहस्राणि, भवन्त्यष्टौ सुधाभुजाम् ॥ १७१ ॥ दक्षिणास्यां दिशि तथा, भान्ति मध्यमपर्षदः । दशासनसहस्राणि, तावताममृताशिनाम् ॥ १७२ ॥ भद्रासनानि नैर्ऋत्यां, बाह्यपर्षत्सुधाभुजाम् । स्युर्दादशसहस्राणि, पश्चिमायामथो दिशि ॥ १७३ ॥ सेनापतीनां सप्तानां, सप्त भद्रासनानि च । ततः परं परिक्षेपे, द्वितीयस्मिश्चतुर्दिशम् ॥ १७४ ॥ चत्वारि चत्वारि सहस्राणि भान्ति चतुर्दिशम् । आत्मरक्षकदेवानां, सहस्राणीति षोडश ॥ १७५ ॥ स चैष मूलप्रासादश्चतुःप्रासादवेष्टितः । उच्चत्वायामविष्कम्भैस्तेऽर्धमानाश्च मौलतः ॥ १७६ ॥ प्रासादास्तेऽपि चत्वारः, चतुर्भिरपरैरपि । स्वप्रमाणादर्द्धमानैः, प्रत्येकं परितो वृताः ॥ १७७ ॥ परिवारपरीवारभूता एते च मौलतः । चतुर्थभागमानेन, प्रोत्तुङ्गायविस्तृताः ॥ १७८ ॥ एतेऽपि च स्वार्द्धमानैश्चतुर्भिरपरैर्वृताः । चतुर्दिशं स्युरित्येवं, प्रत्येकमेकविंशतिः ॥ १७९ ॥ परिवारपरीवारपरीवारास्तु मौलतः । विष्कम्भायामतुङ्गत्वैरष्टमांशमिता मताः ॥ १८० ॥ पञ्चाशीतिरमी सर्वे, जीवाभिगमपुस्तके । वृत्तौ तु तुर्या प्रासादपरिपाटी निरीक्ष्यते ॥ १८१ ॥ तथा हि - परिवारपरिवारपरीवारा अपि स्फुटम् । चतुर्भिरपरैमौलात्, षोडशांशमितैर्वृताः ॥ १८२ ॥ तदैकैकस्यां दिशायां, पञ्चाशीतिर्भवन्त्यतः । शतानि त्रीण्येकचत्वारिंशानि सर्वसंख्यया ॥ १८३ ॥ विना च मूलप्रासाद, सर्वेऽप्येते विभूषिताः । एकैकेनैव विजययोग्यसिंहासनेन च ॥ १८४ ॥ अथास्त्युत्तरपूर्वस्यां, मूलप्रासादतः सभा । सुधर्मा नाम सततदिव्यनाट्याप्सरोभृता ॥ १८५ ॥ योजनानि द्वादशैषा, सा न्यायामतो मता । सक्रोशानि योजानानि, षड् विष्कम्भत ईरिता ॥ १८६ ॥ योजनानि नवोत्तुङ्गा द्वारेस्त्रिभिरलङ्कता । प्राच्यामुदीच्यां चापाच्यामेकैकमथ तान्यपि ॥ १८७ ॥ ढे योजने उच्छ्रितानि, योजनं विस्तृतानि च । तेषां पुरस्तादेकैकः, प्रत्येकं मुखमण्डपः ॥ १८८ ॥ तेऽप्युत्तप्ततपनीयचन्द्रोदयविराजिताः । सातिरेके योजने ढे, समुत्तुङ्गा मनोरमाः ॥ १८९ ॥ ते सुधर्मासभातुल्या, विष्कम्भायामतः पुनः । तेषां पुरस्तादेकैकः, स्यात्प्रेक्षागृहमण्डपः ॥ १९० ॥ मुखमण्डपतुल्यास्ते, प्रमाणैः सर्वतो मता: । प्रत्येकं तेष्वक्षपाटश्चतुरस्राकृतिः स्मृतः ॥ १९१ ॥