________________
214
सप्तत्रिंशत्सहस्राणि, योजनानां शतानि च । नवैव सप्तचत्वारिंशत् किञ्चिदधिकान्यपि ॥ १४२ ॥ वप्रो रत्नमयस्तस्या, राजधान्या विराजते । सप्तत्रिंशद्योजनानि, सार्दानि स समुच्छ्रितः ॥ १४३ ॥
तथोक्तं जीवाभिगमे - “से पागारे सत्तत्तीसं जोअणाई अद्धजोअणं च उड़ढं उच्चत्तेणं" ॥ श्रीसमवायाङ्गे तु “सब्बासु णं विजयवेजयंतजयंतअपराजिआसु रायहाणीसु पागारा सत्तत्तीसं
जोअणाई उड्ढं उच्चत्तेणं पण्णत्ता” इत्युक्तम् ॥ मूले च विस्तृत: सोऽयं, सार्दो द्वादशयोजनीम् । मध्ये च विस्तृतः क्रोशाधिकानि योजनानि षट् ॥ १४४ ॥ अर्धक्रोशाधिकं मौलौ, विस्तृतो योजनत्रयम् । असौ नानारत्नमयैः, कलितः कपिशीर्षकैः ॥ १४५ ॥ अर्धक्रोशमितायाम, क्रोशतुर्यांशविस्तृतम् । देशोनार्धकोशतुङ्गमेकैकं कपिशीर्षकम् ॥ १४६ ॥ वप्रस्य तस्यैकैकस्यां, बाहायां जिनपुङ्गवैः । पञ्चविंशं पञ्चविंश, दाराणां शतमीक्षितम् ॥ १४७ ॥ शतानि पञ्च दाराणामेवं स्युः सर्वसंख्यया । विजयद्धारवत् सर्वमेषां वर्णनमीरितम् ॥ १४८ ॥ किन्त्वियान विशेषः - द्वाषष्टि योजनान्युच्चं, सार्धानि दारमेककम् । योजनानि सपादान्येकत्रिंशतं च विस्तृतम् ॥ १४९ ॥ ये च प्रकण्ठकाख्ये पीठे तत्रोदिते तयोरिह तु । पञ्चदशयोजनानि च, साधी क्रोशौ च तुङ्गत्वम् ॥ १५० ॥ एकत्रिंशद्योजनानि, क्रोशश्चायतिविस्तृती । प्रत्येकमेषामुपरि, स्युः प्रासादावतंसकाः ॥ १५१ ॥ एकत्रिंशद्योजनानि, सक्रोशानि समुच्छ्रिता: । उच्छ्रयार्धेन ते सर्वे, प्रासादा विस्तृतायताः ॥ १५२ ॥ द्वारस्यैकैकस्य नातिदूरासन्ने भुवस्तले । सप्तदश सप्तदश, भौमाः प्रासादशेखराः ॥ १५३ ॥ तेषां मध्ये नवमे नवमे, सिंहासनं विजयमरुतः । सामानिकादिसुरगणभद्रासनपरिवृतं भाति ॥ १५४ ॥ अष्टस्वष्टसु भौमेषु, स्थितेषूभयतस्तत: । अस्ति प्रत्येकमेकैकं, रत्नभद्रासनं महत् ॥ १५५ ॥ तथा तस्या राजघान्या, बहिर्दिक्षु चतसृषु । योजनानां पञ्चशत्याः, पुरतो वनमेककम् ॥ १५६ ॥ प्राच्यामशोकविपिनमपाच्यां साप्तपर्णिकम् । प्रतीच्यां चम्पकवनमुदक् चूतवनं क्रमात् ॥ १५७ ॥ सहस्राणि योजनानां, द्वादशायामतोऽथ ते । स्युः पञ्चशतविष्कम्भा, वनखण्डा: पृथक् पृथक् ॥ १५८ ॥ प्रत्येकं वप्रवलयपरिक्षिप्ताः समन्ततः । मध्ये तेषां तथैकैकः, स्यात् प्रासादावतंसकः ॥ १५९ ॥ द्वाषष्टि योजनान्याधिकानि ते समुन्नताः । योजनान्येकत्रिंशत्, सक्रोशानि च विस्तृताः ॥ १६० ॥ प्रत्येकं, रत्नघटितसिंहासनविभूषिताः । पल्योपमायुरेकै कनिर्जराधिष्ठिता अपि ॥ १६१ ॥ मध्येऽथास्या राजधान्या, भूमिभागे मनोहरे । शुद्धजाम्बूनदमयः, पीठबन्धो विराजते ॥ १६२ ॥ योजनानां शतान्येष, द्वादशायतविस्तृतः । क्रोशार्द्धमेदुरः पद्मवेदिकावनवेष्टितः ॥ १६३ ॥ त्रिसोपानकमेकैकं, द्वारं चारु विराजते । मणीमयं तोरणेन, तत्र दिक्षु चतसृषु ॥ १६४ ॥