________________
212
प्रत्येकमेषां द्वाराणामुच्छ्रयो योजनाष्टकम् । वप्रभित्तिसमाना, हि युक्ता द्वारेषु तुङ्गता ॥ १३ ॥ प्रत्येकं तेषु विस्तारो, योजनानां चतुष्टयी । क्रोशं पृथुप्र्रशाखा, प्रत्येकं पार्श्वयोर्द्धयोः ॥ ९४ ॥ एवं सामस्त्यतो दारविस्तारो यदि भाव्यते । तदा सार्धानि चत्वारि, योजनानि भवेदसौ ॥ ९५ ॥ तत्रेदं विजयं भूमिप्रदेशे वज्रनिर्मितम् । भूमेरूङ्ख रिष्टरत्नमयमुक्तं जिनेश्वरैः ॥ ९६ ॥ स्तंभा सर्वत्र वैडूर्यवर्यरत्नविनिर्मिताः ॥ पञ्चवर्णैर्मणीरत्नैर्निर्मितं तत्र कुट्टिमम् ॥ ९७ ॥ हंसगर्भरत्नमयी, देहल्यथेन्द्रकीलकः । गोमेयरत्नघटितो, द्वारशाख्ने तथात्र च ॥ ९८ ॥ लोहितांख्यरत्नमय्यौ, परिधो वज्रनिर्मित: । कपाटे अपि वैडूर्यमये प्रोक्ते जिनेश्वरैः ॥ ९९ ॥ नानामणिमये तत्र, कपाटचूलिकागृहे । ज्योतीरसरत्नमयमुत्तरङ्गं निरूपितम् ॥ १०० ॥ विजयस्योपरितनो, भागो भाति विभूषितः । रत्नभेदैः षोडशभिस्ते चामी कथिता: श्रुते ॥ २०१॥ रत्नं वज्रं वैडूर्यलोहिताक्षे मसारगल्लं च । अपि हंसगर्भपुलके, सौगन्धिकमञ्जनं रजतम् ॥ १० ॥ ज्योतीरसमकाञ्जनपुलकं रिष्टं च जातरूपं च । स्फटिकं चैताः षोडश, रत्नभिदस्तत्र राजन्ते ॥ १०३ ॥ श्रीवत्समत्स्यदर्पणभद्रासनवर्द्धमानवरकलशाः । स्वस्तिकनन्दावत्तौ, द्वारोपरि मंगलान्यष्टौ ॥ १०४ ॥ द्वारस्यास्य वज्रमयो, माढभागः प्रकीर्तितः । माढस्य शिखरं रौप्यमुल्लोचस्तपनीयजः ॥ १०५ ॥ मणिवंशलोहिताक्षप्रतिवंशै रजतबद्धभूभागैः । द्वारं गवाक्षकटकैर्विराजते तत्समुद्रदिशि ॥ १०६ ॥ भित्तावुभयतो भित्तिगुलिका: पीठसन्निभाः । अष्टषष्ट्याधिकं शतं, शय्यास्तावत्य एव च ॥ १०७ ॥ रत्नानि व्यालरूपाणि, मणिमय्यश्च पुत्रिका: । अलङ्कुर्वन्ति तदारं, मणिदामादिभूषितम् ॥ १०८ ॥ तथा निषदनस्थानमेकैकं पार्श्वयोर्दयोः । तत्र द्वौ द्रौ च प्रत्येकं, माङ्गल्यकलशौ मतौ ॥ १०९ ॥ तथा द्वौ द्वौ नागदन्तौ, मुक्तादामाद्यलङ्कतौ । तयोरूचं पुनः द्वौ द्रौ, धूपघट्यन्वितौ च तौ ॥ ११० ॥ साक्षादिव स्वर्गिकन्ये, द्वे द्वे च शालभञ्जिके । द्रौ द्रौ च जालकटको, ढे ढे घण्टे शुभस्वरे ॥ १११ ॥ नानागुकिसलाकीणे, द्वे द्वे च वनमालिके । भ्रमभ्रमरझंकारगीतारवमनोरमे ॥ ११२ ।। आत्मदर्शाकृती द्रौ दौ, पीठौ प्रकण्ठकाभिधौ । तौ च द्वियोजनस्थूलौ, चतुर्योजनविस्तृतौ ॥ ११३ ॥ चत्वारि योजनान्युच्चो, योजनद्रयविस्तृतः । तेषु प्रत्येकमेकैकः, प्रासादोऽस्ति मनोरम: ॥ ११४ ॥ प्रासादास्ते तुङ्गशृङ्गा, ध्वजच्छत्रमनोहरा: । सिंहासनैः सविजयदूष्यैर्विराजितान्तराः ॥ ११५ ॥ आस्थानस्थानयोः किंच, ढे ढे स्तस्तोरणे तयोः । तोरणानां पुरः शालभञ्जिकानां द्वयं द्वयम् ॥ ११६ ॥ तथा च - द्वौ नागदन्तावश्चेभनरकिंपुरुषाङ्गिनाम् । किन्नरोरगगन्धर्ववृषभाणां युगानि च ॥ ११७ ॥ वीथयः पङ्क्तयश्चैषां, नित्यं कुसुमिता लताः । पद्मनागाशोकलताश्चम्पकाम्रादयोऽपि च ॥ ११८ ॥ मांगल्यकलशा भृङ्गारकास्तथात्मदर्शकाः । स्थालानि साक्षतानीव, पात्र्यः फलभृता इव ॥ ११९ ॥