SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ 211 सुखोत्तारास्तपनीयतलाः सद्भभित्तयः । नानारत्नबद्धतीर्थाः, सुवर्णरूप्यवालुकाः ॥ ७२ ॥ काश्चिज्जात्यासवरसा, काश्चिच्च वारुणीरसाः । सुधोपमजला: काश्चित्, काश्चिदिक्षुरसोदकाः ॥७३॥ एवं नानास्वादजला:, शतपत्रादिपङ्कजैः । मनोज्ञास्ताः पुष्करिण्यः, क्रीडाभिर्भाति नाकिनाम् ॥ ७४ ॥ स्पष्टाष्टमङ्गलैः छत्रचामरध्वजराजिभिः । त्रिसोपानान्यासु चतुर्दिशं राजन्ति तोरणैः ॥७५ ॥ भान्ति क्रीडासरांस्येवं, यथार्ह दीर्घिका अपि । चतुर्दिशं त्रिसोपानादिभिर्रत्नमणीमयैः ॥७६ ॥ रम्याः क्रीडापर्वताच, भान्ति तत्र पदे पदे । तेषां प्रत्येकमेकैकः, प्रासादो भाति मूर्धनि ॥७७ ॥ प्रतिप्रासादमेकैकं, मध्ये सज्जितमासनम् । अस्ति क्रौञ्चासनं क्वापि, हंसासनमपि क्वचित् ॥ ७८ ॥ पद्मासनं च गरुडासनं सिंहासनं क्वचित् । भद्रासनं च मकरासनं चातिमनोहरम् ॥७९॥ तथा नानाक्रीडागृहाः सन्ति, तयोच वनखण्डयो: । क्वचित् प्रेक्षणकगृहं, क्वचिच्च केतकीगृहम् ॥ ८० ॥ लतागृहं गर्भगृहं, क्वचिच्च कदलीगृहम् । कुत्रचित् मज्जनगृहं, प्रसाधनगृहं क्वचित् ॥ ८१ ॥ प्रत्येकं च गृहेष्वेषु, विभात्येकैकमासनम् । क्रीडतां तत्र देवानां, योग्यं रत्नमणीमयम् ॥ ८२ ॥ तथा-मृद्धिकामल्लिकाजातीमालत्यादिलतातते: । रत्नात्मनस्तत्र तत्र, भूयांसो भान्ति मण्डपाः ॥ ८३ ॥ मण्डपेषु तथैतेषु, जात्यकाञ्चननिर्मिताः । शिलानां पट्टकाः सन्ति, क्रौञ्चाद्यासनसंस्थिताः ॥ ८४ ॥ एतेषु पर्वतेष्वेषु, गृहेषु मण्डपेषु च । दीर्घिकादिषु च स्वैरं, क्रीडन्ति व्यन्तरामराः ॥८५ ॥ परितो जगती भाति, गवाक्षवलयेन सा । गवाक्षवलयं तच्च, गव्यूतद्धितयोच्छ्रितम् ॥८६॥ शतानि पञ्च धनुषां, विस्तीर्णं चारुचित्रितम् । कृतनेत्रमनोमोद, सुराणां रमणोचितम् ॥ ८७ ॥ लवणोदसमासन्नजगतीभित्तिमध्यगम् । दृश्यमानाधिकुतुकं ज्ञातव्यं सर्वतः स्थितम् ॥ ८ ॥ अत्रेदं गवाक्षकटकं जम्बूद्धीपप्रज्ञप्तिवृत्तौ जगतीभित्तिमध्यगतमुक्तम् ॥ जम्बूदीपसंग्रहणीवृत्तौ जगत्या उपर्युक्तम् । तथा च तद्ग्रन्थः - “तस्या पार्श्वद्रयेऽपि द्वौ वनखंडौ वेदिकामानदैयौ विद्यते । नवरं विस्तारेणाभ्यन्तरः सार्धधनु: शतद्धयोनयोजनयुग्मप्रमाणः । बाह्यस्तु वनखंडेऽर्धाष्टमधनुः शतहीनयोजनयुग्ममान: । यतस्तत्राभ्यन्तरात् वनखंडादधिकानि पञ्चधनुःशतानि जालकटकेनावरुद्धानि" ॥ परं श्रीमलयगिरिपादैः न तद्विवक्षितम् । द्वयोरपि वनखण्डयोरेकमेव मानमुक्तम् । तत्त्वं तु बहुश्रुता विदन्तीति ॥ सर्वे दीपा: समुद्राश्च, जगत्यैवं विराजिताः । सर्वासां जगतीनां च, स्वरूपमनया दिशा ॥ ८९ ॥ अर्थतस्यां जगत्यां च, द्वाराणि स्युश्चतुर्दिशम् । विजयं वैजयन्तं च, जयन्तं चापराजितम् ॥ ९० ॥ सहस्रान् पञ्चचत्वारिंशतमुल्लंध्य मेरुतः । योजनानां दिशि प्राच्यां, शीताकूलंकषोपरि ॥ ९१ ॥ विजयं द्वारमाख्यातमेवं वित्थ पराण्यपि । दक्षिणस्यां पश्चिमायामुदीच्यां च यथाक्रमम् ॥ ९२ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy