________________
210
पृथ्यप्जीवपुद्गलात्मा, जम्बूद्वीपोऽस्ति वस्तुत: । पृथ्यप्जीवपुद्गलानां, परिणामो यदीदृशः ॥ ४६॥ शाश्वतोऽशाश्वतश्चार्य, द्रव्यतस्तत्र शाश्वत: । वर्णगन्धरसस्पर्शपर्यायैः स्यादशाश्वतः ॥ ४७ ॥ अथास्य जम्बूद्धीपस्य, भाति वज्रमणीमयः । प्राकाररागमे ख्यातो, जगतीत्यपराख्यया ॥४८॥ धेनुपुच्छाकृतिः सोऽष्टौ, योजनानि समुच्छ्रितः । योजनानि द्वादशास्य, मूले विस्तार आहित: ॥४९॥ मूलादुत्पत्यते यावद्धनुःक्रोशादिकं किल । मूलव्यासस्तावतोनस्तत्र तत्रास्य जायते ॥ ५० ॥ मूलादूर्ध्व कोशयुगे, व्यतीते तत्र विस्तृतिः । सार्धरुद्रयोजनानि, सर्वत्रैवं विभाव्यताम् ॥५१॥ एवं च मूलादुत्क्रान्ते, योजनानां चतुष्टये । मूलव्यासे चतुरुने, स्याद्रिस्तारोऽष्टयोजनः ॥ ५२ ॥ तथास्य मूर्ति पूर्णेषु, योजनेषु किलाष्टसु । मूलव्यासेऽष्टभिन्यूँने, व्यासोऽब्धिमितयोजनः ॥ ५३॥ उक्तं जम्बूद्धीपमानं जगत्या मूलविस्तृतिः । भाव्यैवमखिलदीपपाथोधिजगतीष्वपि ॥ ५४ ॥ इत्यर्थतो वीरंजयसेहरक्षेत्रविचारवृत्तौ ॥ अथास्योपरिभागस्य, चतुर्योजनविस्तृतेः । मध्यदेशे सर्वरत्नमयी राजति वेदिका ॥ ५५ ॥ सोपरिष्टाद्रिष्टरत्नमयी वज्रमयी त्वधः । वज्रस्तम्भस्वर्णरूप्यफलकै रूपशोभिता ॥५६॥ नरकिन्नरगन्धर्ववृषोरगावहस्तिनाम् । रम्या नानाविधै रूपैर्भाति सातिमनोरमैः ॥५७ ॥ तथा तस्यां रत्नमय्यो, राजन्ते बहुवल्लयः । वासन्तीचम्पकाशोककुन्दातिमुक्तकादयः ॥ ५८ ॥ लताच ता: स्तबकिताः, पुष्पिता: पल्लवान्विताः । प्रणताः क्रीडदमरमिथुनप्रश्रयादिव ॥ ५९॥ परिक्षेपेण जगतीसमाना विस्तृता च सा । शतानि पञ्च धनुषामुत्तुङ्गा त्वर्धयोजनम् ॥६०॥ स्थाने स्थाने सर्वरत्नमयपद्मोपशोभिता । पद्मप्राधान्यतो नाम्ना, सा पद्मवरवेदिका ॥ ६१ ॥ विभाति वनखण्डभ्यां, सा पद्मवरवेदिका । उभयोः पार्श्वयोः स्थूलकुलाभ्यामिव निम्नगा ॥ ६ ॥ परिक्षेपेण जगतीतुल्यौ तौ वनखण्डकौ । सार्धचापशतद्वन्द्वन्यूनद्वियोजनाततौ ॥६३ ॥ एवं च-वेदिकाव्याससंयुक्तो विस्तारो वनयोर्द्धयोः । स्यात्पूर्णा जगतीव्यासो योजनानां चतुष्टयम् ॥ ६४ ॥ पुष्पितैः फलितैः शाखाप्रशाखाशतशालितैः । अनेकोत्तमजातीयवृक्ष रम्ये च ते वने ॥६५॥ विराजते च भूभाग एतयोर्वनखण्डयोः । मरुत्कीर्णपञ्चवर्णपुष्पप्रकरपूजितः ॥६६॥ कस्तुरिकैलाकर्पूरचन्दनाधिकसौरभैः । अनिलान्दोलनोद्भूतवीणादिजित्वरारवैः ॥ ६७ ॥ अत्यन्तकोमल नावणैर्वर्ण्यस्तृणाकुरैः । रोमोद्गमैरिव भुवः सुरक्रीडासुखस्पृशः ॥ ६८ ॥ मरुत्कृतास्फालनेनोगिरद्भिः मधुरध्वनीन् । पञ्चवर्णैर्मणिभिरप्यसौऽऽकीर्णः सुगन्धिभिः ॥ ६९ ॥ नवरं विपिनेऽन्तःस्थे, न स्यात्तृणमणिध्वनिः । वेदिकोन्नत्तिरुद्धस्य, तादृग्वायोरसङ्गतेः ॥ ७० ॥ वनयोरेतयोश्चित्रकरयोः स्युः पदे पदे । पुष्करिण्यो दीर्घिकाश्च, महासरोवराणि च ॥७१ ॥