________________
209
ततश्चैकैकेन नाम्ना, न त्रिप्रत्यवतारणम् । देवदीपो देववादिः, नागदीपस्तदम्बुधिः ॥ २५ ॥ यक्षदीपो यक्षवाधि तदीपस्तदम्बुधिः । स्वयंभूरमणदीपः, स्वयंभूरमणाम्बुधिः ॥ २६ ॥ जम्बूद्धीपादयश्चैते, स्थानद्धिगुणविस्तृताः । सर्वे स्वयंभूरमणार्णवान्ता द्वीपवाद्धर्यः ॥ २७ ॥ जम्बूद्वीपायथा सिन्धुः, लवणो द्विगुणरततः । धातकीखण्ड इत्येवमन्त्यात् दीपात् तदम्बुधिः ॥ २८ ॥ तत्रायं सर्वत: क्षुल्लः, सर्वाभ्यन्तरत: स्थितः । विष्वक् प्रतरवृत्तश्च, पूर्णेन्दुमण्डलाकृतिः ॥ २९ ॥ अस्य द्वीपस्याधिपतेरेकपल्योपमायुषः । महर्द्धिकानादृताख्यदेवस्याश्रयभूतया ॥३०॥ जम्ब्बा नानारत्नमय्या, वक्ष्यमाणस्वरूपया । सदोपलक्षितो द्वीपो, जम्बूदीप इति स्मृतः ॥ ३१ ॥ नित्यं कुसुमितैस्तत्र, तत्र देशे विराजते । वनैरनेकैर्जम्बूनां, जम्बूद्वीपस्ततोऽपि च ॥ ३२ ॥ विष्कम्भायामतश्चैष, लक्षयोजनसम्मितः । परितः परिधिस्त्वस्य, श्रूयतां य: श्रुते श्रुतः ॥ ३३॥ लक्षत्रयं योजनानां, सहस्राणि च षोडश । क्रोशास्त्रयस्वदधिकमष्टाविंशं धनुःशतम् ॥ ३४ ॥ त्रयोदशाङ्गुलास्सार्धा, यवाः पञ्चैकयूकिका । जम्बूदीपस्य गणितपदं वक्ष्येऽथ तत्त्वदः ॥ ३५ ॥ शतानि सप्त कोटीनां, नवति: कोटय: पराः । लक्षाणि सप्तपञ्चाशत्, षट्सहस्रोनितानि च ॥ ३६ ॥ सार्धं शतं योजनानां, पादोनक्रोशयामलम् । धनूंषि पञ्चदश च, सार्धं करद्वयं तथा ॥ ३७ ॥ अयं भावःइयन्ति जम्बूद्धीपस्य, योजनप्रमितानि वै । चतुरस्राणि खण्डानि, स्युः क्रोशाद्यतिरिच्यते ॥ ३८ ॥ असौ सहस्राणि नवनवतिः स्यात्समुच्छ्रितः । साधिकानि योजनानामूर्ध्वाधश्च सहस्रकम् ॥ ३९ ॥ उद्वेधोच्छ्रययोगे तु, स्यादूर्वाधः प्रमाणतः। जम्बूद्वीपो योजनानां, लक्षमेकं किलाधिकम् ॥ ४०॥ आहजलाशयादौ शैलादौ, व्यवहारो हि सम्मतः । उद्धेधोच्चत्वयोर्जम्बूद्वीपे स तु कथं भवेत् ? ॥४१॥ अत्र ब्रूमःहीयमाना प्रतीच्यां भूर्घर्मायां समभूतलात् । सहस्रयोजनोण्डाऽन्ते, स्यात् क्रमाद्धिजयद्धये ॥ ४२ ॥ तत्राधो लौकिकग्रामाः, सन्ति सर्वेषु तेषु च । द्वीपस्यास्य व्यवहारात्तावानुढेध उच्यते ॥४३॥ जम्बूद्धीपार्हतामेतत्सुमेरोः पाण्डुके वने । अभिषेकशिलोत्सङ्गेऽभिषेकः क्रियते यतः ॥४४॥ जम्बूदीपव्यवहारं, मेरौ संभाव्य सुष्टु तत् । प्रज्ञप्तं तावदुच्चत्वं, जम्बूद्वीपस्य तात्त्विकैः ॥ ४५ ॥
__ तथाह जम्बूदीपप्रज्ञप्त्याम् – “एगं जोअणसहस्सं उब्वेहेणं ॥ णवणउतिजोअणसहस्साइं साइरेगाइं उड्ढे उच्चत्तेणं । साइरेगं जोअणसयसहस्सं सब्बग्गेणं पण्णत्ते ॥"