________________
208
अथ पञ्चदशः सर्गः ।
उज्जिजीव जरासंघजराजर्जरितं जवात् । यतो यदुबलं सोऽस्तु, पीयूषप्रतिमः श्रिये ॥१॥ तिर्यग्लोकस्य स्वरूपमथ किञ्चिद्वितन्यते । मया श्रीकीर्तिविजयार्णवप्राप्तश्रुतश्रिया ॥२॥ तत्र च, तिर्यग्लोकवर्तिनोऽपि, योजनानां शता नव । घर्मापिण्डस्थिता आद्यास्तदर्णनप्रसंगतः ॥३॥ उक्ता अधोलोक एव, तत्रस्था व्यन्तरा अपि । रत्नप्रभोपरितलं, वर्णयाम्यथ तत्र च ॥४॥ सन्ति तिर्यगसंख्येयमाना दीपपयोधयः । सार्धाद्धाराम्भोधियुग्मसमयैः प्रमिताश्च ते ॥५॥ तत्र जम्बूद्धीपनामा, प्रथमो मध्यत: स्थितः । लवणाब्धिस्तमावेष्ट्यावस्थितो वलयाकृतिः ॥६॥ तमावेष्ट्य पुनीपो, धातकीखण्डसंज्ञकः । तमप्यावेष्ट्य परितः, स्थित: कालोदवारिधिः ॥७॥ कक्षीकृत्य च कालोदं, पुष्करदीप आस्थितः । पुष्करद्वीपमावेष्ट्य, स्थित: पुष्करवारिधिः ॥८॥ एवमग्रेऽपि सकला:, स्थिता दीपपयोधयः । परः पूर्वं समावेष्ट्याब्धयो द्वीपसमाभिधाः ॥९॥ ते चैवम्वारुणीवरनामा च, द्वीपोऽब्धिर्वारुणीवरः । वरुणवरेत्येषापि, श्रूयतेऽस्य श्रुतेऽभिधा ॥ १० ॥ ततः क्षीरवरो द्वीपः, क्षीरोदश्वास्य वारिधिः । ततो घृतवरो द्वीपो, घृतोदः पुनरम्बुधिः ॥ ११ ॥ तत इक्षुवरो द्वीप, इक्षुदश्च तदम्बुधिः । नन्दीश्वराभिधो द्वीपो, नन्दीश्वरोदवारिधिः ॥ १२ ॥ स्युस्त्रिप्रत्यवताराणि, नामधेयान्यतः परम् । अरुणप्रभृतिद्धीपाब्धीनां तस्मात्तथा ब्रुवे ॥ १३ ॥ अरुणश्चारुणवरोऽरुणवरावभासकः । कुण्डलः कुण्डलवरस्तथा तदवभासकः ॥१४॥ शङ्खः शङ्खवर: शजवरावभास इत्यपि । रुचको रुचकवरस्तथा तदवभासकः ॥ १५ ॥ भुजगो भुजगवरस्तदवभासकोऽपि च । कुशः कुशवरश्चैव, कुशवरावभासकः ॥ १६ ॥ क्रौञ्चः क्रौञ्चवर: क्रौंचवरावभासकोऽपि च । एकविंशतिरित्येते, समनामाब्धिवेष्टिताः ॥ १७ ॥ एवं चामी असंख्यत्वान्नियतैर्नामभिः कथम् । शक्यन्ते वक्तुमित्यत्राम्नायो नाम्नां निरूप्यते ॥ १८ ॥ विभूषणानि वस्त्राणि, गन्धा: पद्मोत्पलानि च । तिलकानि निधानानि, रत्नानि सरितोऽद्रयः ॥ १९ ॥ पद्मादयो हुदाः कच्छाप्रमुखा विजया अपि । वक्षस्काराद्रयो वर्षधराच कुरुमन्दराः ॥२०॥ सौधर्मप्रमुखाः स्वर्गाः, शक्रादयः सुरेश्वराः । चन्द्रसूर्यग्रहरुक्षतारा: कूटानि भूभृताम् ॥ २१ ॥ इत्यादि शस्तवस्तूनां, यानि नामानि विष्टपे । दीपाब्धयः स्युस्तैः सर्वै स्त्रिश: प्रत्यवतारितैः ॥ २२ ॥ एकैकेनाभिधानेनाभिधेयास्तेऽप्यसंख्यशः । यथा जम्बूदीपनाम्ना, दीपा परेऽप्यसंख्यश: ॥ २३ ॥ यावदेवं क्रमात् दीपं, सूर्यवरावभासकम् । परिवेष्ट्य स्थितः सूर्यवरावभासवारिधिः ॥ २४ ॥