SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ 205 योजनं योजनस्य द्वादशभागीकृतस्य च । भागा एकादशेत्युक्ता, तृतीये वलये मिति: ॥ २५१ ॥ योजनैः पञ्चदशभिस्तृतीयभागसंयुतैः । भवत्येवमलोकश्च, मघापर्यन्तभागतः ॥ २५२ ।। लक्षमेकं योजनानां, सषोडशसहस्रकम् । बाहल्यमस्यां निर्दिष्टं, प्राग्वदत्राप्युपर्यधः ॥ २५३ ॥ मुक्त्वा सहममेकैकं, मध्ये स्युः प्रस्तटास्त्रयः । सहस्राणि द्विपञ्चाशत्, सार्द्धान्येतेषु चान्तरम् ॥ २५४ ॥ हिमवाईललल्लकास्त्रयोऽमी नरकेन्द्रकाः । क्रमात् त्रिषु प्रस्तटेषु, प्राग्वदेभ्योऽष्ट पङ्क्तयः ॥ २५५ ॥ दिश्यपङ्क्तिषु चत्वारश्चत्वारः नरकालया: । त्रयस्त्रयः विदिक्ष्वेवमेकोनत्रिंशदादिमे ॥२५६ ॥ द्वितीयादिषु चैकैकहीना अष्टापि पङ्क्तयः । एवं द्वितीयप्रतरे, पाङ्क्तेया एकविंशतिः ॥२५७ ॥ त्रयोदश तृतीये स्युत्रिषष्टिः सर्वसंख्यया । मघायां पङ्क्तिनरकाः, शेषाः पुष्पावकीर्णकाः ॥ १५८ ॥ सहसा नवनवतिः, शतानि नव चोपरि । द्वात्रिंशदिति सर्वाग्रं, लक्षं पञ्चोनमाहिताः ॥ २५९ ॥ वेधात्र वेदना किन्तु, शीतैव क्षेत्रवेदना । मिथःकृता वेदनाश्च, विना प्रहरणैरिह ॥ २६० ॥ मघामाघवतीजाताः, शस्त्राणि न हि नारकाः । विकुर्वितुं शक्नुवन्ति, तथा भवस्वभावतः ॥ २६१ ॥ ततः प्रहरणाभावात्, मिथोऽङ्गेषु प्रवेशितैः । वज्रतुण्डकुन्थुरूपैः, पीडयन्ति विकुर्वितैः ॥ २६२ ॥ तथोक्तं जीवाभिगमे । छट्ठसत्तमासु णं पुढवीसु नेरड्या महंताई लोहियकुंथुरूवाइं वयरमयतुंडाई गोमयकीडसमाणाइं विउवित्ता अन्नमन्नस्स कायं समतुरंगेमाणा २ खाएमाणा २ सयपोरा किमिया इव दालेमाणा २ अन्तो २ अणुपविसेमाणा वेयणं उरेति ॥ अत्र समतुरंगेमाणा २ इति समतुरंगायमाणा अश्वा इवान्योन्यमारोहन्त इत्यर्थः । सयपोरा किमियत्ति शतपर्वकृमय: इक्षुकृमयः ॥ प्रथमप्रस्तटे हस्ताः, शतानि पञ्च भूघनम् । शतानि सप्त सार्द्धानि, द्वितीयप्रस्तटे तनुः ॥ २६३ ॥ सहसं पाणयः पूर्णाः, तृतीयप्रस्तटे वपुः । स्थिति: जघन्या प्रथमे, स्यात् सप्तदश वार्द्धयः ॥ २६४ ॥ त्रिभागीकृतपाथोधेर्भागद्वयसमन्विताः । उत्कर्षत: स्थितिश्चाद्यप्रस्तटेऽष्टादशाब्धयः ॥ २६५ ॥ द्वितीये लघुरेषैव, ज्येष्ठा विंशतिरब्धयः । वाट्टेस्त्रिधा खण्डितस्य, भागेनैकेन संयुताः ॥ २६६ ॥ इयमेव जघन्येन, तृतीयप्रस्तटे स्थितिः । उत्कर्षतश्च सम्पूर्णा, द्वाविंशतिपयोधयः ॥ २६७ ॥ अवधेविषयो ज्येष्ठः, सार्धगव्यूतसम्मितः । लघीयांश्चैकगव्यूतमान: प्रोक्तोऽत्र तात्त्विकैः ॥ २६८ ॥ अन्तरं मरणोत्पत्त्योर्जघन्यं समयावधि । चतुष्टयं च मासानामुत्कृष्टं तन्निरूपितम् ॥ २६९ ॥ इति तम:प्रभापृथ्वी ॥ ६॥ अथ माघवती नाम्ना, सप्तमी कथ्यते मही । या घोरध्वान्तरूपत्वात्, गोत्रात् तमस्तमःप्रभा ॥ २७० ॥ प्रथमे योजनान्यष्टौ, द्वितीये योजनानि षट् । तृतीये ढे योजने च, वलयाततयः क्रमात् ॥ २७१ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy