SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 204 अष्टादशसहस्राढ्यलक्षयोजनसंमितम् । बाहल्यमस्यामुदितमुदितामितवाङ्मयैः ॥ २२५ ॥ मुक्त्वा सहस्रमेकैकं, प्राग्वदत्राप्युपर्यधः । मध्येऽत्र षोडशसहस्राढ्योजनलक्षके ॥ २२६ ॥ भवन्ति प्रस्तटाः पञ्च, तेषां प्रत्येकमन्तरम् । योजनदिशती सार्धा, सहनाः पञ्चविंशतिः ॥ २२७ ॥ तेषु प्रत्येकमेकैकः, कथितो नरकेन्द्रकः । खातस्तमोः भ्रमश्चान्धस्तथांधतमसोऽपि च ॥ २२८ ॥ प्रतिप्रतरमेभ्यश्च, निर्गता अष्ट पङ्क्तयः । चतस्रो दिग्गतास्तद्धत्, चतस्रः स्युर्विदिग्गताः ॥ २२९ ॥ दिक्पङ्क्तिषु नव नव, भवन्ति नरकाश्रयाः । परास्वष्टाष्ट सर्वाग्रमाये एकोनसप्ततिः ॥ २३० ॥ प्रतिप्रतरमेकैकहीना अष्टापि पङ्क्तयः । ततो द्वितीये पाङ्क्तेया, एकषष्टिः प्ररूपिताः ॥ २३१ ॥ तृतीये च त्रिपञ्चाशत्, तुरीये प्रस्तटे पुनः । पञ्चचत्वारिंशदेव, सप्तत्रिंशच्च पञ्चमे ॥ २३२ ॥ एवं पङ्क्तिगताः सर्वे, द्विशती पञ्चषष्टियुक् । शेषाः पुष्पावकीर्णास्तु, लक्षयोर्द्रितयं तथा ॥ २३३ ॥ सहस्रा नवनवतिः, शतानि सप्त चोपरि । पञ्चत्रिंशदिति त्रीणि, लक्षाणि सर्वसंख्यया ॥ २३४ ॥ पप्रभावद्धिज्ञेया, द्विधा पीडात्र किन्त्विह । स्तोकेषु नरकेषूष्णा, शेषेषु शीतवेदना ॥ २३५ ॥ कराणां द्विशती सार्द्धा, प्रथमे प्रस्तटे तनुः । द्वितीये त्रिशती द्वादशोत्तराः द्वादशाङ्गुला: ॥ २३६ ॥ हस्ताः तृतीये त्रिशती, पञ्चसप्ततिसंयुता । सार्धसप्तत्रिंशदाढ्या, तुर्ये चतुःशती कराः ॥ २३७ ॥ शतानि पञ्च हस्तानां, पञ्चमे प्रस्तटे जिनैः । पञ्चमज्ञानपटुभिस्तनुमानं निरूपितम् ॥ २३८ ॥ दशाब्धयो जघन्येन, प्रथमप्रस्तटे स्थितिः । उत्कृष्टा च पञ्चभागीकृतस्य जलधेः किल ॥ २३९ ॥ युक्ता द्वाभ्यां विभागाभ्यामेकादश पयोधयः । एषैव च जघन्येन, द्वितीयप्रस्तटे भवेत् ॥ २४० ॥ ज्येष्ठा चात्र युता भागैश्चतुर्भिादशाब्धयः । इयमेव जघन्येन, तृतीयप्रतरे स्थितिः ॥ २४१ ॥ उत्कर्षतस्तृतीये च, स्युश्चतुर्दश वार्द्धयः । पञ्चभागीकृतस्याब्धे गेनैकेन संयुताः ॥ २४२ ॥ एषा लघुश्चतुर्थे स्यादुत्कृष्टात्र स्थितिः पुनः । त्रिभिः पूर्वोदितैर्युताः पञ्चदशाब्धयः ॥ २४३ ॥ पञ्चमेशत्रयोपेता, लघुः पञ्चदशाब्धयः । उत्कृष्टा च सप्तदश, संपूर्णा जलराशयः ॥ २४४ ॥ केषाञ्चिदाद्यप्रतरे, नारकाणां भवेदिह । नीललेश्या यदुत्कर्षादप्यस्याः स्थितिराहिता ॥ २४५ ॥ पल्योपमासंख्यभागाधिका दश पयोधयः । ततोऽधिकस्थितीनां तु, तेषां कृष्णैव केवलम् ॥ २४६ ॥ गव्यूतद्भयमुत्कृष्टो, भवेदवधिगोचरः । जघन्यतस्तु गव्यूतं, सार्द्धमुक्तोऽत्र पारगैः ॥ २४७ ॥ च्यवनोत्पत्तिविरहो, नारकाणां भवेदिह । मासयोर्द्धयमुत्कर्षाज्जघन्यात्समयावधिः ॥ २४८ ॥ इति धूमप्रभापृथ्वी ॥ ५॥ मघाभिधाऽथ पृथिवी, षष्ठी स्पष्टं निरूप्यते । तमसामतिबाहुल्याद्या गोत्रेण तमःप्रभा ॥ २४९ ॥ तृतीयांशोनितान्यष्टौ, योजनानि घनोदधेः । वलये विस्तृतिः षट् च, पादोनानि द्वितीयके ॥ २५० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy