SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ 203 एवं च सर्वे नरकावासाः पङ्कप्रभाक्षितौ । निर्दिष्टा दश लक्षाणि, साक्षात्कृतचराचरैः ॥ २०२ ॥ इत आरभ्य नो पीडाः, परमाधार्मिकोद्भवाः । ततोऽस्यां द्विविधा एव, क्षेत्रजाश्च मिथःकृताः ॥ २०३॥ परमेताः प्राक्तनाभ्योऽनन्तानन्तगुणाधिकाः । तीव्रास्तीव्रतरास्तीव्रतमाश्चानुक्रमादधः ॥ २०४ ॥ तत्राप्यत्रोपरितनप्रतरेषु बहुष्वपि । उष्णा स्तोकेष्वधः स्थेषु, शीता च क्षेत्रवेदना ॥ २०५ ॥ उष्णेषु च नरकेषु, नारका: शीतयोनयः । नरकेषु च शीतेषु, नारकाः उष्णयोनयः ॥ २०६ ॥ सर्वेष्वपि नरकेषु, ज्ञेय एवं विपर्ययः । नारकोत्पत्तिदेशान्यक्षेत्रयोः सोऽतिदुःखदः ॥ २०७ ॥ हैमत्रिषष्टिचरिते सप्तमपर्वणि त्वत्रापि परमाधार्मिककृता वेदनोक्ता, तथाहि-"सिंहादिरूपैः विकृतैस्तत्र शम्बूकरावणौ । लक्ष्मणेन समं कृद्धौ, युद्ध्यमानौ ददर्श स: नैवं वो युद्ध्यमानानां, दुःखं भावीति वादिनः । परमाधार्मिका: कुद्धा, अग्निकुण्डेषु तान्यधुः ॥ शतं सपादं हस्तानां, प्रथमेऽङ्गं द्वितीयके । स्यात् षट्चत्वारिंशतमूनं चतुर्भिरगुलैः ॥ २०८ ॥ करास्तृतीये षट्षष्टिशतं सषोडशाङ्गुलम् । सप्ताशीतिशतं तुर्येऽङ्गुलै‘दशभिर्युतम् ॥ २०९ ॥ अष्टाधिके द्वे शते च, पञ्चमेऽष्टाङ्गुलाधिके । षष्ठे च प्रस्तटे देहमानं हस्तशतद्वयम् ॥ २१० ॥ एकोनत्रिंशता हस्तैश्चतुर्भिश्चाङ्गुलैर्युतम् । सप्तमप्रस्तटे देहो, हस्ताः सार्द्ध शतद्धयम् ॥ २११ ॥ प्रथमप्रस्तटेऽथायुर्जघन्यं सप्तसागरी । उत्कृष्टा सा त्रिभिर्वाीिभागैर्युक्ता च साप्तिकैः ॥ २१२ ॥ द्वितीयप्रस्तटे त्वेषा, जघन्या कीर्त्तिता स्थितिः । उत्कृष्टा षट्साप्तिकांशसमेताः सप्तवार्द्धयः ॥ २१३ ॥ तृतीये तु जघन्यैषा, गदिता परमा पुनः । द्वाभ्यां साप्तिकभागाभ्यां, संयुक्ता अष्ट सागराः ॥ २१४ ॥ अष्टाब्धयो द्विभागाढ्यास्तुर्ये जघन्यत: स्थितिः । पञ्चभिः साप्तिकैर्भागः, सहाष्टाम्भोधय: पराः ॥ २१५ ॥ पञ्चमे पञ्चभिर्भागः, सहाष्टसिन्धवो लघुः । एकेन साप्तिकांशेन, सहोत्कृष्टा नवार्णवाः ॥ २१६ ॥ षष्टे जघन्या त्वेकांशसंयुक्ता सागरा नव । चतुर्भिः साप्तिकैर्भागः, सहोत्कृष्टा नवाब्धयः ॥ २१७ ॥ इयमेव जघन्येन, सप्तमे स्थितिरास्थिता । उत्कर्षतः स्थितिश्चात्र, जिनैरुक्ता दशाब्धयः ॥ २१८ ॥ नीला भवेदत्र लेश्या, परमोऽवधिगोचरः । गव्यूतदयमध्यर्द्ध, गव्यूतद्वितयं लघुः ॥ २१९ ॥ उत्पत्तेश्च्यवनस्यापि, नारकाणामिहान्तरम् । मासमेकं भवेज्ज्येष्ठं, जघन्यं समयावधि ॥ २२० ॥ इति पङ्कप्रभापृथिवी ॥ ४ ॥ अथ रिष्टाभिधा पृथ्वी, पञ्चमी परिकीर्त्यते । या धूमरूपबाहुल्याळूमप्रभेति गोत्रत: ॥ २२१ ॥ वलयस्येह विष्कंभः प्रथमस्य प्ररूपितः । योजनस्य तृतीयांशसंयुता सप्तयोजनी ॥ २२२ ॥ द्वितीयवलये सार्द्धपञ्चयोजनविस्तृतिः । तृतीये च द्वादशांशैर्दशभिः सह योजनम् ॥ २२३ ॥ इत्येवं पञ्चदशभिर्योजनैश्च समन्ततः । स्यादलोकस्तृतीयांशन्यूनै—मप्रभान्ततः ॥ २२४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy