SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 202 भागत्रयान्वितं तुर्ये, जघन्याब्धिचतुष्टयम् । उत्कर्षतः सप्तभागयुक्तमब्धिचतुष्टयम् ॥ १७६ ॥ एषैव प्रतरे लध्वी, पञ्चमे परिकीर्तिता । उत्कर्षतो द्विभागाढ्या, प्रज्ञप्ता पञ्चसागरी ॥ १७७ ॥ षष्ठे जघन्यतः पञ्चपारावारी द्विभागयुक् । उत्कर्षतः पञ्चपारावारी षड्भागसंयुता ॥ १७८ ॥ इयमेव जघन्या च, सप्तमप्रतरे भवेत् । युक्तान्येकेन भागेन, परमा सागराणि षट् ॥ १७९ ॥ सागराणि षडेकांशसंयुक्तान्यष्टमे लघु । उत्कृष्टा षट् सागराणि, पञ्चभागयुतानि च ॥ १८० ॥ नवमे पञ्चभागाढ्या, जघन्या षट् पयोधयः । उत्कर्षतः स्थितिश्चात्र, संपूर्णाः सप्त सागराः ॥ १८ ॥ प्रथमप्रतरे चात्र, केषांचिन्नारकाङ्गिनाम् । कापोतलेश्या सर्वेषु, नीललेश्यापरेषु च ॥ १८२ ॥ स्थिति: कापोतलेश्याया, भवेदुत्कर्षतोऽपि यत् । पल्योपमासंख्यभागाभ्यधिकं सागरस्त्रयम् ॥ १८३ ॥ द्वितीयादिप्रस्तटे तु, जघन्यापि न सा स्थिति: । तदाद्य एव प्रतरे, कापोत्यस्यामिति स्थितम् ॥ १८४ ॥ तत्रापि पल्यासंख्यांशाधिकाम्भोधित्रयावधि । बिभ्रतामायुरेषा स्यान्नीलैवातोऽधिकायुषाम् ॥ १८५ ॥ सजातीयापि लेश्या स्यादधोऽधोऽनुक्रमादिह । क्लिष्टा क्लिष्टतरा क्लिष्टतमा सर्वासु भूभिषु ॥ १८६ ॥ उत्कर्षतोऽवधिक्षेत्रं, गव्यूतत्रयमत्र च । जघन्यतश्च गव्यूतद्वयं सार्द्धं तदाहितम् ॥ १८७ ॥ अत्रोत्पत्तिच्यवनयोरन्तरं परमं भवेत् । दिनानि पञ्चदश तज्जघन्यं समयात्मकम् ॥ १८८ ॥ इति वालुकाप्रभापृथिवी ॥ ३ ॥ अथाञ्जनाभिधा पृथ्वी, चतुर्थीयं निरूप्यते । या प्रोक्ता पङबाहुल्यात्, पङ्कप्रभेति गोत्रत: ॥ १८९ ॥ सप्तयोजनविस्तीर्णमस्या वलयमादिमम् । सपादपञ्चपादोनदयमाने क्रमात् परे ॥ १९० ॥ चतुर्दशभिरित्येवं, संपूर्णैर्ननु योजनैः । पङ्कप्रभायाः पर्यन्तादलोकः परिकीर्तितः ॥ १९१ ॥ लक्षं सहजैविंशत्याधिकं बाहल्यमत्र च । मुक्त्वा सहस्रमेकैकं, प्राग्वदत्राप्युपर्यधः ॥ १९२ ॥ मध्ये चाष्टादशसहस्राढ्ययोजनलक्षके । भवन्ति प्रस्तटाः सप्त, तेषां प्रत्येकमन्तरम् ॥ १९३ ॥ योजनानां सहस्राणि, षोडशैकं तथा शतम् । सषट्षष्टि दौ त्रिभागौ, योजनस्येति कीर्त्तितम् ॥ १९४ ॥ प्रतिप्रतरमेकैको, भवेच्च नरकेन्द्रकः । ते चामी गदिता आरनारौ मारस्तथापरः ॥ १९५ ॥ वर्चस्तमः खाडखडस्तथा खडखडाभिधः । प्रतिप्रतरमेभ्यश्च, प्राग्वदष्टाष्टपङ्क्तयः ॥ १९६ ॥ स्युः षोडश पञ्चदशावासा दिक्षु विदिक्षु च । शतं सपादं प्रथमप्रतरे सर्वसंख्यया ॥ १९७ ॥ द्वितीयादिषु चैकैकहीना अष्टापि पङ्क्तयः । ततो द्वितीयप्रतरे, सर्वे सप्तदशं शतम् ॥ १९८ ॥ नवोत्तरं तृतीये तत्, तुर्ये एकोत्तरं शतम् । पञ्चमे च त्रिनवतिः, पञ्चाशीतिश्च षष्टके ॥ १९९ ॥ सर्वे च पङ्क्तिनरकाः, सप्तमे सप्तसप्ततिः । सप्ताधिका सप्तशती, सर्वेऽस्यां पङ्क्तिसंश्रयाः ॥ २०० ॥ सहस्रा नवनवतिर्नव लक्षास्तथा परे । द्विशती सत्रिनवतिरस्यां पुष्पावकीर्णकाः ॥ २०१॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy