SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ 201 अस्यां प्रथमवलये, विष्कम्भो योजनानि षट् । द्वौ त्रिभागौ योजनस्य, द्वितीये वलये पुनः ॥ १५१ ॥ पञ्चैव योजनानि स्यु: र्वलयेऽथ तृतीयके । योजनस्य द्वादशांशैरष्टभिः सह योजनम् ॥ १५२ ।। त्रयोदशभिरित्येवं, सतृतीयांशयोजनैः । अलोको वालुकापृथ्वीपर्यन्ततः प्ररूपितः ॥ १५३ ॥ शेषं घनोदध्यादिस्वरूपं घर्मावत् ॥ अष्टाविंशत्या सहस्रैः, योजनानां समन्वितम् । लक्षं बाहल्यमादिष्टमस्यां दृष्टजगत्त्रयैः ॥ १५४ ॥ मुक्त्वा चैकैकं सहस्रं, प्राग्वदस्यामुपर्यधः । मध्ये षड्विंशतिसहस्राढ्यैकलक्षयोजनम् ॥ १५५ ॥ नव स्युः प्रस्तटास्तेषां प्रत्येकमिदमन्तरम् । सहस्राणि द्वादशैव, त्रिशती पञ्चसप्ततिः ।। १५६ ।। प्रतिप्रतरमेकैको, मध्ये स्यान्नरकेन्द्रकः । ते च तप्तस्तापितश्च तपनस्तापनस्तथा ।। १५७ ।। निदाघश्च प्रज्वलितः, पर उज्ज्वलिताभिधः । तथा संज्वलिताभिख्यः संप्रज्वलितसंज्ञकः ॥ १५८ ॥ एभ्यश्च पङ्क्तयो दिक्षु, विदिशासु च निर्गताः । पञ्चविंशतिरावासास्तत्र दिग्वर्त्तिपङ्क्तिषु ।। १५९ ।। विदिशापङ्क्तिषु चतुर्विंशतिर्नरकालयाः । प्रथमप्रतरे सप्तनवत्याढ्यं शतं समे ।। १६० ।। द्वितीयादिप्रस्तटे स्युः, श्रेण्य एकैकवर्जिताः । ततो द्वितीय एकोननवत्याढ्यं शतं समे ।। १६१ ॥ सैकाशीति तृतीये तच्चतुर्थे सत्रिसप्तति । पञ्चमे प्रतरे प्रोक्तं पञ्चषष्टियुतं शतम् ॥ १६२ ॥ षष्टे च प्रस्तटे सप्तपञ्चाशं सम्मतं शतम् । शतमेकोनपञ्चाशद्युक्तमुक्तं च सप्तमे ॥ १६३ ॥ अष्टमे त्वेकचत्वारिंशतोपेतं शतं मतम् । त्रयस्त्रिंशं शतं चैकं, नवमे प्रस्तटे भवेत् ॥ एवं चतुर्दशशती, पञ्चाशीतिसमन्विता । वालुकायां पङ्क्तिगताः, सर्वेऽपि नरकालयाः ॥ १६५ ॥ सहस्राण्यष्टनवतिस्तथा लक्षाश्चतुर्दश । शताः पञ्च पञ्चदशाधिका: पुष्पावकीर्णकाः ॥ १६६ ॥ एवं च वालुकापृथ्व्यां, नरकाः सर्वसंख्यया । लक्षाः पञ्चदश प्रोक्तास्तत्त्वज्ञानमहार्णवैः ॥ १६७ ॥ शेषं सर्वं स्वरूपं धर्मावत् ॥ १६४ ॥ द्वाषष्टिः पाणयः सार्द्धाः, प्रथमप्रस्तटे तनुः । सार्द्धसप्ताङ्गुलाढ्याश्च, द्वितीये सप्ततिः कराः ॥ १६८ ॥ तृतीयेऽष्टसप्ततिस्ते, संयुक्ता अङ्गुलैस्त्रिभिः । तुर्ये सार्द्धाङ्गुलन्यूनाः, षडशीतिः कराः किल ।। १६९ ॥ पञ्चमे च त्रिनवतिः, करा: साष्टादशाङ्गुलाः । एकोत्तरशत्तं षष्ठेऽध्यर्द्धत्रयोदशाङ्गुलाः ॥ १७० ॥ नवोत्तरं शतं हस्ताः, सप्तमे सनवाङ्गुलाः । सार्द्धाङ्गुलचतुष्काढ्यं शतं सप्तदशोत्तरम् ॥ १७१ ॥ कराणामष्टमे ज्ञेयं, नवमप्रस्तटे तथा शतं सपादं संपूर्ण, द्विघ्नं तूत्तरखैक्रियम् ॥ १७२ ॥ प्रथमेऽब्धित्रयं लघ्वी, स्थितिरुत्कर्षतोऽम्बुधे: । नवभागीकृतस्यांशचतुष्काढ्यास्त्रयोर्णवाः ॥ १७३ ॥ एषैव च द्वितीये स्याज्जघन्या परमा पुनः । वार्द्धित्रयं प्रोक्तरूपैर्भागैरष्टभिरञ्चितम् ॥ १७४ ॥ तृतीये तु जघन्याब्धित्रयं भागैः सहाष्टभिः । उत्कर्षतस्त्रिभिर्भागैर्युक्तमब्धिचतुष्टयम् ॥ १७५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy