SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 200 एकोनत्रिंशदधिके ढे, शते प्रस्तटेऽष्टमे । एकविंशत्यधिके च, द्वे शते नवमे मताः ॥ १२५ ॥ शतद्वयं च दशमे, त्रयोदशाधिकं भवेत् । एकादशे प्रस्तटे च, पञ्चोत्तरं शतद्वयम् ॥ १२६ ॥ षड्विंशतिः शतानि स्युर्नवतिः पञ्चभिर्युता । वंशायां नरकावासाः, सर्व पङ्क्ति गताः किल ॥ १२७ ॥ सहस्राः सप्तनवतिश्चतुर्विंशतिलक्षणः । त्रिशती पञ्चभिर्युक्ता, प्राग्वत्पुष्पावकीर्णकाः ॥ १२८ ॥ सर्वे च नरकावासा, लक्षाः स्युः पञ्चविंशतिः । वंशायां ज्ञानिभिर्दृष्टा, ज्ञानेन सर्वगामिना ॥ १२९ ॥ एषां संस्थानमुच्चत्वं, स्वरूपं वेदनादिकम् । रत्नप्रभावद्धिज्ञेयं, त्र्यसायनुक्रमोऽपि च ॥ १३० ॥ षडङ्गुलाधिका एकत्रिंशत्करा वपुर्भवेत् । प्रथमप्रस्तटे वंशापृथिव्यां नारकाङ्गिनाम् ॥ १३१ ॥ द्वितीये च चतुस्त्रिंशत्करा: नवागुलाधिकाः । द्वादशाङ्गुलयुक्सप्तत्रिंशत्करास्तृतीयके ॥ १३२ ॥ चत्वारिंशत्करास्तुर्येऽधिकपञ्चदशाङ्गुलाः । पञ्चमे ते त्रिचत्वारिंशत् सहाष्टादशाङ्गुलाः ॥ १३३ ॥ कराणां सप्त चत्वारिंशद्धिहीनाङ्गुलैस्त्रिभिः । षष्टेऽथ सप्तमे पूर्णाः, करा पञ्चाशदाहिताः ॥ १३४ ॥ अष्टमे च त्रिपञ्चाशत्, कराख्यगुलशालिनः। नवमेऽङ्गुलषट्काढ्याः, षट्पञ्चाशत् करा:मताः ॥ १३५ ॥ एकोनषष्टिहस्तानां, दशमे सनवाङ्गुलाः । एकादशे च द्वाषष्टिः, कराः सद्धादशाङ्गुलाः ॥ १३६ ॥ स्थिति: जघन्यास्यामाद्येऽम्बुधिमानाऽपरा तु सा । कृतैकादशभागस्याम्बुधैर्भागद्धयान्विता ॥ १३७ ॥ द्वितीयप्रस्तटे लवी, द्विभागसहितोऽम्बुधिः । उत्कृष्टा चैकादशांशैश्चतुर्भिरधिकोऽम्बुधिः ॥ १३८ ॥ तृतीये प्रस्तटे वार्धिर्चतुर्भागयुतो लघुः । षड्भिर्भागैर्युतश्चाब्धिरुत्कृष्टा स्थितिराहिता ॥ १३९ ॥ जघन्या प्रस्तटे तुर्य, षड्भागयुतवारिधिः । उत्कृष्टा चाष्टभिर्भागैर्युक्त एकः पयोनिधिः ॥ १४० ॥ पञ्चमेऽल्पीयसी भागैरष्टभिः सह वारिधिः । गरीयसी चात्र भागैर्दशभिः सह तोयधिः ॥ १४१ ॥ दशभागान्वितश्चाब्धिः, षष्टे तु स्याज्जघन्यतः । उत्कर्षतश्चैकभागसंयुक्तं सागरद्वयम् ॥ १४२ ॥ सागरद्वयमेकांशसंयुक्तं सप्तमे लघुः । त्रिभिरेकादशांशैश्च, युक्तमब्धिद्वयं गुरुः ॥ १४३॥ अष्टमे तु त्रिभिर्भागः, सहाब्धिद्वितयं लघुः । अञ्चितं पञ्चभिर्भागैर्वारिधिद्वितयं गुरुः ॥ १४४ ॥ नवमेऽल्पीयसी पञ्चभागाढ्यमम्बुधिद्वयम् । पयोधिद्वितयं सप्तभागोपेतं गरीयसी ॥ १४५ ॥ जघन्या दशमे सप्तभागाढ्यं सागरद्वयम् । उत्कृष्टा सागरद्वन्दं, भागैर्नवभिरन्वितम् ॥ १४६ ॥ नवभागान्वितवार्धिद्धयमेकादशे लघुः । उत्कृष्टा च वारिधीनां, संपूर्ण त्रितयं भवेत् ॥ १४७ ॥ प्राग्वत् लेश्या च कापोती, ह्यवधेगोचरो गुरुः । गव्यूतानां त्रयं सार्द्ध, गव्यूतत्रितयं लघुः ॥ १४८ ॥ नारकच्यवनोत्पत्तिविरहोऽत्र जघन्यतः । समयं यावदुत्कर्षात् दिनानि सप्त कीर्तितः ॥ १४९ ॥ इति शर्कराप्रभापृथिवी ॥ २ ॥ अथ शैलाभिधा पृथ्वी, तृतीया परिकीर्त्यते । या वालुकाना बाहुल्यात्, गोत्रेण वालुकाप्रभा ॥ १५० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy