________________
199
उत्कर्षतश्च षष्टे स्युस्त्रयो भागास्त एव च । जघन्यत: सप्तमे स्युरुत्कर्षात्तच्चतुष्टयम् ॥ १०० ॥ जघन्यतोऽष्टमे भागाश्चत्वार एव तादृशाः । उत्कर्षतश्चाष्टमे स्युर्भागा: पञ्च पयोनिधेः ॥ १०१ ॥ पञ्चैव भागास्तादृक्षा, नवमे तु जघन्यतः । उत्कर्षान्नवमे षट् ते, दशमे षड् जघन्यतः ॥ १०२ ॥ उत्कर्षाद्दशमे सप्तैकादशे ते जघन्यतः । एकादशेऽष्ट चोत्कर्षात्, द्वादशेऽष्ट जघन्यतः ॥ १०३ ॥ द्वादशे पुनरुत्कर्षान्नव भागास्त्रयोदशे । नव भागा जघन्येनोत्कर्षतः सागरोपमम् ॥ १०४ ॥ अस्यां लेश्या च कापोती, जघन्योऽवधिगोचरः । गव्यूतानां त्रयं सार्द्ध, परस्तेषां चतुष्टयम् ॥ १०५ ॥ उत्पद्यन्ते च्यवन्ते च, सर्वदा नारका इह । कदाचित् विरहोऽपि स्याज्जघन्यः समयं स च ॥ १०६ ॥ उत्कर्षतो मुहूर्तानां, चतुर्विंशतिराहिता । सर्वासां समुदाये च, मुहूर्ता द्वादशान्तरम् ॥ १०७ ॥ एकेन समयेनैकादयोऽसंख्यावसानकाः । उत्पद्यन्ते च्यवन्तेऽस्यामेवं सर्वक्षितिष्वपि ॥ १०८ ॥ इति रत्नप्रभापृथिवी ॥ १ ॥ अथ वंशाभिधा पृथ्वी, द्वितीया परिकीर्त्यते । या शर्कराणां बाहुल्यात्, गोत्रेण शर्कराप्रभा ॥ १०९ ॥ घनोदध्यादिकं सर्वं, ज्ञेयमत्रापि पूर्ववत् । घनोदध्यादिवलयविष्कम्भस्तु विशिष्यते ॥ ११०॥ सचैवम् । योजनैकतृतीयांशयुतानि योजनानि षट् । वंशायामाद्यवलये, विष्कम्भः परिकीर्तितः ॥ १११ ॥ पादोनानि योजनानि, पञ्च मानं द्वितीयके । योजनं योजनस्य द्वादशांशाः सप्त चान्तिमे ॥ ११२ ॥ त्रयोदशभिरित्येिवं, तृतीयभागवर्जितैः । अलोकः शर्करापृथ्वीपर्यन्तात् किल योजनैः ॥ ११३ ॥ एकं लक्षं योजनानां, सदात्रिंशत्सहस्रकम् । अस्या बाहल्यमादिष्टं विशिष्टज्ञानशालिभिः ॥ ११४ ॥ मुक्त्वैकैकं सहस्रं च, प्राग्वदस्यामुपर्यधः । एकलक्षे योजनानां, सहसैस्त्रिंशतान्विते ॥ ११५ ॥ एकादश प्रस्तटा: स्युस्तेषां प्रत्येकमन्तरम् । योजनानां सहस्राणि, नव सप्त शतानि च ॥ ११६ ॥ प्रतिप्रतरमेकैको, भवेच्च नरकेन्द्रकः । मध्यभागोऽथ नामानि, तेषां ज्ञेयान्यनुक्रमात् ॥ ११७ ॥ धनिको धनकश्चैव, मनको वनकस्तथा । घट्टसंघट्टजिहाख्या, अपिजिह्वस्तथापरः ॥ ११८ ॥ लोलच लोलावर्तश्च, घनलोलस्तथैव च । प्रतिप्रतरमेभ्योऽष्टावष्टौ स्युर्नरकालयाः ॥ ११९ ॥ तत्राद्यप्रतरमध्यनरकादावली प्रति । षट्त्रिंशत् दिक्षु नरकाः, पञ्चत्रिंशत् विदिक्षु च ॥ १२० ॥ प्रथमे पङ्क्तिगा: पञ्चाशीतियुक्तं शतद्धयम् । द्वितीयादिषु चैकैकहीनाः स्युः सर्वपङ्क्तयः ॥ १२१ ॥ द्वितीयप्रतरे तस्मात्, द्विशती सप्तसप्ततिः । तृतीये पङ्क्तिनरका, द्विशत्येकोनसप्ततिः ॥ १२२ ॥ चतुर्थे पङ्क्तिनरका, द्वे शते सैकषष्टिके । पञ्चमे द्विशती तेषां, त्रिपञ्चाशत्समन्विता ॥ १२३ ॥ पञ्चचत्वारिंशदाढ्ये, द्वे शते षष्ट ईरिताः । सप्तमप्रस्तटे सप्तत्रिंशताढ्या शतद्धयी ॥ १२४ ॥