SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 198 हृष्टाः कुर्वन्त्यट्टहासं, त्रिपद्यास्फालनादिकम् । इत्थं यथैषां स्यात् प्रीतिर्न तथा नाटकादिभिः ॥ ७६ ॥ मृत्वाण्डगोलिकाभिख्यास्तेऽपिस्युर्जलमानुषाः । भक्ष्यैः प्रलोभ्यानीतास्ते, तटेऽण्डगोलकार्थिभिः ॥ ७७ ॥ यन्त्रेषु पीड्यमानाच, सोढकष्टकदर्थना: । षड्भिर्मासैzता यान्ति, नरकेष्वसकृत्तथा ॥७८॥ धर्मायां च विधाप्येताः, पूर्वोक्ता: सन्ति वेदनाः । परं शीतोष्णयोर्मध्ये, उष्णैव क्षेत्रवेदना ॥ ७९ ॥ तथाहि, उत्पत्तिस्थानकान्येषां, सन्त्यावृतगवाक्षवत् । तत्रोत्पत्याधः पतन्ति, कष्टात् पुष्टवपुर्भूतः ॥ ८०॥ अन्यत्र चोत्पत्तिदेशात्, प्रालेयाचलशीतलात् । सर्वत्र नरकेषु क्ष्मा, खदिराङ्गारसन्निभा ॥ ८१ ॥ तत: शीतयोनिकानां, तेषां नारकदेहिनाम् । जनयत्यधिकं कष्टं, क्षेत्रमुष्णं हुताशवत् ॥ ८२ ॥ प्रथम-प्रतरे चास्यां, नारकाणां भवेदपुः । हस्तत्रयं द्वितीयऽस्मिन्, हस्ता: पञ्चाधिकानि च ॥ ८३ ॥ अष्टाङ्गुलानि सार्धानि, तृतीये प्रस्तटे पुनः । सप्तहस्ता: सप्तदशांगुलान्युपरि निर्दिशेत् ॥ ८४ ॥ चतुर्थ प्रस्तटे हस्ता, दश सार्धं तथाङ्गुलम् । दशाङ्गुलाधिका ज्ञेया, हस्ता द्वादश पञ्चमे ॥ ८५ ॥ षष्टे चतुर्दश कराः, ससा ष्टादशाङ्गलाः । सप्तमे च सप्तदश, कराः स्युः त्र्यमुलाधिकाः ॥ ८६ ॥ एकोनविंशतिर्हस्ताः, ससाधैकादशाङ्गुला: । अष्टमे प्रस्तटे देहो, नवमप्रस्तटे पुनः ॥ ८७ ॥ युक्ताङ्गुलानां विंशित्या, कराणामेकविंशतिः । दशमे जिनसंख्यास्ते, ससार्धचतुरङ्गुला: ॥ ८ ॥ एकादशे करा: षड्विंशतिस्त्रयोदशाङ्गुला: । द्वादशेऽष्टाविंशतिस्तेऽगुलाः सार्धेकविंशतिः ॥ ८ ॥ षडङ्गुलाधिका एकत्रिंशद्धस्तास्त्रयोदशे । प्रतरेषु वपुर्मानं, क्रमाद्रत्नप्रभाक्षितेः ॥ ९० ॥ स्वाभाविकतनोहमानमेतदुदीरितम् । स्वस्वदेहात् द्विगुणितं, सर्वत्रोत्तरवैक्रियम् ॥ ९१ ॥ जघन्यतस्तु सहजोत्तरवैक्रिययोः क्रमात् । अङगुलासंख्यसंख्यांशौ, मानं प्रारंभ एव तत् ॥ ९२ ॥ सर्वास्वपि क्षितिष्वेवं, सर्वेषां नारकाङ्गिनाम् । स्वाभाविकाङ्गात् द्विगुणं, ज्ञेयमुत्तरवैक्रियम् ॥ ९३ ॥ अत्रायमाम्नायः । पइपयरवुढि अंगुल, सढाछप्पन्न हुंति रयणाए । तिकर तिअंगुल करसत्त, अंगुला सद्विगुणवीसम् ॥ पणधणु अंगुलवीसं, बारसधणु दुन्नि हत्थ सढा य । बासट्ठिधणुह सढ्ढा, बीयाइसु पयरवुढि कमा ॥ सहस्राणि दशाब्दानां, प्रथमप्रतरे स्थितिः । जघन्या पुनरुत्कृष्टा, सहस्रा नवतिः स्मृताः ॥ ९४ ॥ दशलक्षाश्च वर्षाणां, लक्षाणां नवतिस्तथा । क्रमाज्जघन्योत्कृष्टा च, द्वितीयप्रतरे स्थितिः ॥ ९५ ॥ एवं च । नवत्यब्दसहस्रेभ्यः, समयाद्यधिकस्थितिः । दशाब्दलक्षोनायुश्च, न संभवति नारकः ॥ ९६ ॥ वर्षाणां नवतिर्लक्षाः, पूर्वकोटिस्तथैव च । तृतीयप्रतरे ज्ञेया, जघन्योत्कर्षत: स्थितिः ॥ ९७ ॥ जघन्या पूर्वकोट्येका, चतुर्थप्रतरे स्थितिः । दशभागीकृतस्यैको, भागोऽब्धेः परमा पुनः ॥ ९८ ॥ एको भागः पञ्चमे च, जघन्योत्कर्षत: पुन: । स्यातां द्वौ दशमौ भागौ, तौ षष्टे च जघन्यतः ॥ ९९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy