SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ 197 अत एव स्वल्पपीडाः, स्वल्पकर्माण एव च । मिथ्यादृग्भ्यो नारकेभ्यो, नारकाः शुद्धदृष्टयः ॥ ६४ ॥ मिथ्यादृशस्तु क्रोधेनोदीरयन्तः परस्परम् । पीडा: कर्माण्यर्जयन्ति, भूयांसि भूरिवेदनाः ॥६५॥ तथाहुः ॥ नेइआ दुविहा प. तं. - माइमिच्छविट्ठीउववण्णगा अमाइसम्मविट्ठीउववण्णगा य। तत्थ णं जे से माइमिच्छदिट्ठी से णं महाकम्मतराए चेव जाव महावेयणतरा ए चेव । तत्थ णं जे से अमाइसम्मदिट्ठी से णं अप्पकम्मतराए चेव अप्पवेयणतराए चेव ॥ भगवती शतक १८ उद्देश ५ ॥ मनोदुःखापेक्षया तु, सदृशो भूरिवेदनाः । यदेते पूर्वकर्माणि, शोचन्ति न तथा परे ॥६६॥ तथाहुः ॥ तत्थ णं जे ते सन्निभूया ते णं महावेयणा । तत्थं णं जे ते असन्निभूया तेणं अप्पवेअणतरागा ॥ अत्र सन्निभूय इति ॥ संज्ञा सम्यक् दर्शनम् तद्धन्तो भूताः । यद्धा पूर्वभवे संज्ञिपञ्चेन्द्रियाः सन्तोः नारकं प्राप्ताः । अथवा संज्ञीभूताः पर्याप्तकीभूताः तदीपरीताः सर्वत्रासंज्ञीभूताः ॥ इति भगवती शतक १ उ० २ ॥ तप्ताय:पुत्रिकाश्लेषः, संतप्तत्रपुपायनम् । अयोधनादिघाताथारोपणं कूटशाल्मलौ ॥६॥ क्षते क्षारोष्णतैलादिक्षेपणं भ्राष्ट्रभर्जनम् । कुन्तादिप्रोतनं यन्त्रे, पीडनं च तिलादिवत् ॥१८॥ क्रकचैः पाटनं तप्तवालुकास्ववतारणम् । वैक्रियोलूकहर्यक्षकङ्कादिभिः कदर्थनम् ॥ ६९ ॥ प्लावनं वैतरण्यां च, योधनं कुर्कुटादिवत् । प्रवेशनं चासिपत्रवने कुम्भीषु पाचनम् ॥७०॥ परमाधार्मिकैः क्लृप्ता, इत्याद्या विविधा व्यथाः । वेदयन्ते नारकास्ते, दुःकर्मवशवर्तिनः ॥७१॥ यदाहुः “श्रवणलवनं नेत्रोद्धार करक्रमपाटनम् हृदयदहनं नासाछेदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णाघातत्रिशूलविभेदनम् दहनवदनैः ककै र्धारैः सहन्ति च भक्षणम् ॥ छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषविच्छुभिपरिवृताः संभक्षणव्यापृतैः । पाट्यन्ते क्रकचेन दारुवदसिप्रच्छिन्नबाहुद्रयाः, कुम्भीषु त्रपुपानदग्धतनवो मूषासु चान्तर्गताः ॥ भृज्यन्ते ज्वलदम्बरीषहुतभुम्ज्वालाभिरारावणाः, दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गारकेषुत्थिताः । दह्यन्ते विकृतोर्ध्वबाहुवदना: क्रन्दन्त आर्तस्वराः, पश्यन्तः कृपणा दिशो विशरणास्त्राणाय को नो भवेत् ॥ तीक्ष्णैरसिभिर्दीप्तः, कुन्तैर्विषमैः परश्वधैश्चक्रैः । परशुत्रिशूलमुद्गरतोमरवासीमुसुण्डीभिः ॥ संभिन्नतालुशिरसश्छिन्नभुजाश्छिन्नकर्णनासौष्टाः । भिन्नहृदयोदरान्त्रा, भिन्नाक्षिपुटाः सुदुःखार्ताः ॥ निपतन्त उत्पतन्तो, विचेष्टमाना महीतले दीना: । नेक्षन्ते त्रातारं, नैरयिकाः कर्मपटलान्धाः ॥” इत्यादि ॥ तथा, कुम्भीषु पच्यमानास्ते, प्रोच्छलन्त्यूर्ध्वमर्दिताः । उत्कर्षतो योजनानां, शतानि पञ्च नारकाः ॥७२॥ वोट्यन्ते निपतन्तस्ते, वज्रचचूविहङ्गमैः । व्याघ्रादिभिर्विलुप्यन्ते, पतिता भुवि वैक्रियैः ॥७३॥ परमाधार्मिकास्ते च, पापिनोऽत्यन्तनिर्दया: । पञ्चाग्न्यादितप कष्टप्राप्तासुरविभूतयः ॥७४॥ मृगयासक्तवत् मेषमहिषाद्याजिदर्शिवत् । एते हृष्यन्ति ताच्छील्यात्, दृष्ट्वार्तान् हन्त नारकान् ॥ ७५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy