________________
196
किञ्चामी श्लेष्मविण्मूत्रकफाचालिप्तभूतला: । मांसकेशननदन्तचर्मास्तीर्णाः श्मशानवत् ॥ ४२ ॥ कुथितवाहिमारिमृतकेभ्योऽपि दारुणः । गन्धस्तत्र रसो निम्बघोषातक्यादितः कटुः ॥ ४३ ॥ स्पर्शी वहिवृश्चिकादिस्पर्शादप्यतिदारुणः । परिणामोऽगुरुलघुरप्यतीव व्यथाकरः ॥ ४४ ॥ शब्दोऽपि सततं पीडाक्रान्तानामतिदारुणः । विलापरूपः श्रवणादपि दुःखैककारणम् ॥ ४५ ॥ तथोक्तं तत्त्वार्थवृत्तौ ।
शीतोष्णक्षुत्पिपासाख्याः, कण्डुच परतन्त्रता । ज्वरो दाहो भयं शोकस्तत्रैता दश वेदना ॥ कुड्येषु वाजिकेष्वत्र, सन्ति वातायनोपमाः । अचित्ता योनयस्तासूत्पद्यन्ते नारकाः किल ॥ ४६॥ माघरात्रौ शीतवायौ, हिमाद्रौ खेऽभ्रवर्जिते । निरग्नेर्वातविकृतेर्तुःस्थपुंसो निरावृतेः ॥ ४७ ॥ तुषारकणसिक्तस्य, या भवेच्छीतवेदना । ततोऽप्यनन्तगुणिता, तेषु स्याच्छीतवेदना ॥४८॥ तेभ्यः शीतवेदनेभ्यो, नरकेभ्यश्च नारकाः । यथोक्तपुरुषस्थाने, स्थाप्यन्ते यदि ते तदा ॥४९॥ प्राप्नुवन्ति सुखं निद्रां, निर्वातस्थानगा इव । अथोष्णकाले मध्याह्न, निरभ्रे वियदङ्गणे ॥ ५० ॥ पुंसः पित्तप्रतप्तस्य, परितो ज्वलनस्पृशः । योष्णपीडा ततोऽनन्तगुणा तेषूष्णवेदना ॥५१॥ तथोष्णवेदनेभ्यस्ते, नरकेभ्यश्च नारकाः । उत्पाट्य किंशुकाकारखदिराङ्गारराशिषु ॥ ५२ ॥ मायन्ते यदि निक्षिप्य, तदा ते चन्दनद्रवैः । लिप्ता इवात्यन्तसुखान्निद्रां यान्ति क्षणादपि ॥ ५३॥ सदा क्षुद्धहिना दह्यमानास्ते जगतोऽपि हि । घृतान्नादिपुद्गलौधैर्न तृप्यन्ति कदाचन ॥५४॥ तेषां पिपासा तु तालुकण्ठजिहादिशोषणी । सकलाम्भोधिपानेऽपि, नोपशाम्यति कर्हिचित् ॥ ५५ ॥ क्षुरिकाद्यैरप्यजय्या, कण्डूदेहेऽतिदुःखदा । अनन्तगुणितोऽवत्याद्यावज्जीवं ज्वरस्तथा ॥५६॥ अनन्तनं पारवश्यं, दाहशोकभयाद्यपि । कष्टं विभङ्गमप्येषां, वैरिशस्त्रादिदर्शनात् ॥ ५७ ॥ तत्रत्यक्ष्माम्भोऽग्निमरूद्रुमस्पर्शाऽतिदुःखदः । अग्निस्त्वत्रोपचरितः, क्ष्मादिकायास्तु वास्तवाः ॥ ५८ ॥
तथोक्तम् । स्यणप्पभापुढविनेरआ णं भन्ते केरिसयं पुढविफासं पच्चणुभवमाणा विहरन्ति । गोयम अणिटुं जाव अमणाम एवं जाव अहे सत्तमापुढविणेरइआ एवं वाउफासं जाव वणस्सइफासं ।
इति भगवत्याम् शतक १३ उद्देश ४ ॥ इत्येवं विविधा तेषु, वर्त्तते क्षेत्रवेदना । मिथ्यादृशां नारकाणां, परस्परकृतापि सा ॥ ५९॥ तथाहि, दूरादन्योऽन्यमालोक्य, श्वानः श्वानमिवापरम् । ते युद्ध्यन्ते ससंरम्भं, ज्वलन्तः क्रोधवहिना ॥ ६० ॥ विधाय वैक्रिय रूपं, शस्त्रैः क्षेत्रानुभावजैः । पृथ्वीरूपैक्रियैर्वा, कुन्तासितोमरादिभिः ॥ ६१ ॥ करांहिदन्ताघातैश्च, ते निजन्ति परस्परम् । भूमौ लुठन्ति कृत्ताङ्गाः, शूनान्तर्महिषादिवत् ॥ ६२ ॥ परोदीरितदुःखानि, सहन्ते नापरेषु ते । उदीरयन्ति सम्यक्त्ववन्तस्तत्त्वविचारणात् ॥ ६३ ॥