________________
195
यदुक्तं प्रज्ञापनायां । तेणं णरगा अन्तो वट्टा बाहिं चउरंसा । इति ॥
पीठादि सर्वं चापेक्ष्य, वृत्ताः स्युः केऽपि केऽपि च । त्र्यस्राश्च चतुरस्राश्च पाङ्क्तेया नरकालयाः ॥ २२ ॥ वृत्ता एव भवन्त्यत्र, सर्वेऽपि नरकेन्द्रकाः । ततश्चानन्तरं त्र्यसा, नूनमष्टासु पङ्क्तिषु ॥ २३॥ चतुरस्रास्ततो वृत्ता:, त्र्यनाश्चेति यथाक्रमम् । ज्ञेया: पुष्पावकीर्णास्तु, नानासंस्थानसंस्थिताः ॥ २४ ॥ योजनानां सहस्राणि, त्रीणि सर्वेऽपि चोच्छ्रिताः । अधोमुखन्यस्तकुण्डाकाराः कारागृहोपमाः ॥ २५ ॥ योजनानां सहस्रं च पीठे बाहल्यमीरितम् । सहस्रमेकं शुषिरं, स्तुपिकैकसहस्रिका ॥ २६ ॥ यदुक्तम् । हेट्ठा घणा सहस्सं, उप्पि संकोयओ सहस्सं तु । मज्झे सहस्स झुसिरा, तिन्निसहस्सूसिया निरया ॥ [ बृहत्संग्रहणी गा. २३७ ] संख्यातयोजनाः केऽपि, परेऽसंख्यातयोजनाः । विस्ताराद्दैर्ध्यतश्चापि प्रज्ञप्ता नरकालयाः ॥ २७ ॥ सर्वास्वपि पृथिवीषु तादृशाः किन्तु मानतः । सीमन्तकः पञ्चचत्वारिंशद्योजनलक्षकः ॥ २८ ॥ अप्रतिष्ठानश्च लक्षयोजनः सप्तमक्षितौ । परितस्तं च चत्वारोऽसंख्यातकोटियोजनाः ॥ २९ ॥ धर्माद्यप्रतरे सीमन्तकाद्यनरकेन्द्रकात् । आवलीनरकाः प्रोक्ताः, सीमन्तकप्रभादयः ॥ ३० ॥ तदुक्तं स्थानाङ्गवृत्तौ ।
सीमन्तगप्पभो खलु, नरओ सीमन्तगस्स पुब्वेण । सीमन्तगमज्झिमओ, उत्तरपासे मुणेयव्वो ॥ सीमन्तावत्तो पुण, नरओ सीमन्तगस्स अवरेण । सीमन्तगावसिट्ठो, दाहिणपासे मुणेयव्वो ॥ आवल्याश्चान्तिमौ द्वौ स्तो, लोललोलुपसंज्ञकौ । विंशतितमैकविंशौ, सीमन्तनरकेन्द्रकात् ॥ ३१ ॥ उद्दग्धनिर्दग्धसंज्ञौ, ज्वरप्रज्वरकौ पुनः । पञ्चत्रिंशषट्त्रिंशौ, प्राच्यावल्यां स्मृता अमी ॥ ३२ ॥ उदीच्याद्यावलिकासु, मध्यावर्त्तावशिष्टकैः । पदैर्विशिष्टाः प्रज्ञप्ताः, प्रागुक्ता नरकाः क्रमात् ॥ ३३ ॥ यथोदीच्यां लोलमध्यलोलुपमध्यसंज्ञकैः । पश्चिमायां लोलावर्त्तलोलुपावर्तसंज्ञकौ ॥ ३४ ॥ लोलावशिष्टलोलुपावशिष्टसंज्ञकावपाग् । भाव्या नामव्यवस्थैवं प्रागुक्तेष्वखिलेष्वपि ॥ ३५ ॥ तदुक्तं स्थानाङ्गवृत्तौ ।
"
मज्जा उत्तरपासे, आवत्ता अवरओ मुणेयव्या । सिट्टा दाहिणपासे, पुब्बिलाओवि भइयव्यत्ति ॥ सर्वेऽपि ते रौद्ररूपाः, क्षुरप्रोपमभूमयः । देहिनां दर्शनादेवोद्वेजकाः कम्पकारिणः ।। ३६ ।। पुद्गलानां परिणतिर्दशधा बन्धनादिका । सापि क्षेत्रस्य स्वभावात्तत्र दुःखप्रदा भवेत् ॥ ३७ ॥ तथाहि । बन्धनं चानुसमयमाहार्यैः पुद्गलैः सह । सम्बन्धो नारकाणां स, ज्वलज्जवलनदारुणः ॥ ३८ ॥ गतिरुष्ट्रखरादीनां, सदृशी दुस्सहश्रमा । तप्तलोहपदन्यासादपि दुःखप्रदा भृशम् ॥ ३९॥ संस्थानंमत्यन्तहुण्डं, लूनपक्षाण्डजोपमम् । कुड्यादिभ्यः पुद्गलानां भेदः सोऽप्यस्त्रवत्कटुः ॥ ४० ॥ वर्णः सर्वनिकृष्टोऽतिभीषणो मलिनस्तथा । नित्यान्धतमसा ह्येते द्वारजालादिवर्जिताः ॥ ४१ ॥