SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 194 अथ चतुर्दशः सर्गः । मुक्त्वैकं सहस्त्रं चोपर्यधः प्रथमक्षितेः । सहस्रैरष्टसप्तत्याऽधिके योजनलक्षके ॥१॥ त्रयोदश प्रस्तटाः स्युर्नरकावासवीथयः । समश्रेणिस्थायिभिस्तैरेकैकः प्रस्तटो यत् ॥२॥ तथोक्तम् श्रीजीवाभिगमे । इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोअणसयसहस्स बाहल्लाए उवरिं एगं जोअणसहस्सं ओगाहेत्ता हेठ्ठा चेगं जोअणसहस्सं वज्जित्ता मज्झे अट्ठहुत्तरे जोअणसयसहस्से इत्थ णं रयणप्पभाए पुढवीए तीसं नरयावाससयसहस्सा भवन्तीतिमक्खाया ॥ सर्वेऽप्यमी योजनानां, सहसत्रयमुच्छ्रिताः । सर्वास्वपि क्षितिष्वेषां, मानं ज्ञेयमिदं बुधैः ॥३॥ एकादश सहस्राणि, शतानि पञ्च चोपरि । त्र्यशीतियोजनान्यंशस्तृतीयो योजनस्य च ॥४॥ एतावदन्तरं ज्ञेयं, प्रस्तटानां परस्परम् । प्रतिप्रतरमेकैको, भवेच्च नरकेन्द्रकः ॥५॥ तथाहि । सीमन्तकः स्यात्प्रथम, द्वितीये रोरकाभिधः । भ्रान्तस्तृतीये उद्भ्रान्तश्चतुर्थ प्रस्तटे भवेत् ॥ ६॥ संभ्रान्तः पञ्चमे ज्ञेयः, षष्टेऽसंभ्रान्तसंज्ञकः । विभ्रान्तः सप्तमे तप्तसंज्ञितः पुनरष्टमे ॥७॥ नवमे शीतनामा स्याद्रक्रान्तो दशमे भवेत् । एकादशे त्ववक्रान्तो, विक्रान्तो द्वादशे भवेत् ॥ ८॥ त्रयोदशे रोरुकः स्यादेवमेते त्रयोदश । प्रतिप्रतरमेभ्यश्च, निर्गता नरकालयाः ॥९॥ प्रथमप्रतरे तत्र, सीमन्तनरकेन्द्रकात् । निर्गता नरकावासावल्यो दिक्षु विदिक्षु च ॥१०॥ एकोनपञ्चाशद्धासा, दिशां नरकपङ्क्तिषु । अष्टचत्वारिंशदेते, विदिक्नरकपङ्क्तिषु ॥ ११॥ त्रिशत्येकोननवतिः, प्रथमे सर्वपङ्क्तिगाः । प्रतिप्रतरमेकैकन्यूना अष्टापि पङ्क्तयः ॥ १२ ॥ सैकाशीतिस्त्रिशती च, त्रिशती च त्रिसप्ततिः । त्रिशती पञ्चषष्टिश्च, स्यात् द्वितीयादिषु त्रिषु ॥ १३ ॥ त्रिशती सप्तपञ्चाशत्, पञ्चमे प्रतरे भवेत् । त्रिशत्येकोनपञ्चाशत्, षष्टे प्रतर इष्यते ॥ १४ ॥ एकचत्वारिंशदाढ्या, त्रिशती सप्तमे मता । त्रिशती च त्रयस्त्रिंशत्, त्रिशती पञ्चविंशतिः ॥ १५ ॥ त्रिशती सप्तदश च, त्रिशती स्यान्नवोत्तरा । एकाधिका च त्रिशती, प्रतरेष्वष्टमादिषु ॥ १६ ॥ त्रयोदशेऽथ प्रतरे, आवलीनरकालया: । त्रिनवत्यधिके प्रोक्ते, द्वे शते तत्त्ववेदिभिः ॥ १७ ॥ शेषाः पुष्पावकीर्णाः स्युः, पङ्क्तीनामन्तरेषु ते । सर्वेष्वपि प्रतरेषु, विकीर्णकुसुमौघवत् ॥ १८ ॥ चत्वारि स्युः सहस्राणि, तावन्त्येव शतानि च । त्रयस्त्रिंशच्च धर्मायामावलीनरकालयाः ॥ १९ ॥ एकोनत्रिंशल्लक्षाणि, शतानि पञ्च चोपरि । सहस्राः पञ्चनवतिः, सप्तषष्टिः प्रकीर्णकाः ॥ २० ॥ त्रिंशल्लक्षाव निखिला, धर्मायां नरकालयाः । सर्वेऽपि चैतेऽन्तर्वृत्ता, बहिश्च चतुरस्रकाः ॥ २१॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy