SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ 193 दशानामसुरादीनां, भवनाधिपनाकिनाम् । अश्वत्थायाश्चैत्यवृक्षा, दश प्रोक्ता यथाक्रमम् ॥ २८७ ॥ तथोक्तं स्थानाङ्गे दशमस्थानके । अस्सत्थ सत्तवन्ने, सामलि उम्बर सिरीस दहिवन्ने । वंजुल पलास वप्पोतत्ते य कणियाररुक्ने य ॥ अनेन क्रमेण अश्वत्थादयः चैत्यवृक्षाः ये सिद्धायतनादिद्वारेषु श्रूयन्ते । इति स्थानाङ्गवृत्तौ ॥ एतेषां दाक्षिणात्यानां, सार्धं पल्योपमं स्थितिः । उदीच्यानां तु देशोनं, स्थिति: पल्योपमद्रयम् ॥ २८८ ॥ देवीनां दाक्षिणात्यानामर्धपल्योपमं स्थितिः । उदीच्यानां तु देशोनमेकं पल्योपमं स्थितिः ॥ २८९ ॥ दशाब्दानां सहस्राणि, सर्वेषां सा जघन्यतः । आहारोच्छ्वासकालाङ्गमानं व्यन्तरदेववत् ॥ २९० ॥ वसन्ति यद्यप्यसुरा, आवासापरनामसु । प्रायो महामण्डपेषु, रामणीयकशालिषु ॥ २९१ ॥ कदाचिदेव भवनेष्वन्ये नागादयः पुनः । वसन्ति भवनेष्वेव, कदाचित् मण्डपेषु तु ॥ २९२ ॥ तथापि भवनेष्वेषां, निवासरूढ्यपेक्षया । सामान्यतोऽमी भवनवासिनः स्युर्दशापि हि ॥ २९३ ॥ सम्मूछिमा गर्भजाच, तिर्यञ्चो गर्भजा नराः । षट्संहननसंपन्ना, विराद्धार्हतदर्शनाः ॥ २९४ ॥ मिथ्यात्विनश्चोग्रबालतपसः प्रोत्कटक्रुधः । गर्वितास्तपसा वैरक्रूरा द्वैपायनादिवत् ॥ २९५ ॥ उत्पद्यन्त एषु मृत्वा, च्युत्वामी यान्ति चामराः । गर्भजेषु नृतिर्यक्षु, संख्येयस्थितिशालिषु ॥ २९६ ॥ पर्याप्तबादरक्ष्माम्बुप्रत्येकपादपेषु च । आरभ्यैकमसंख्येयावध्येकसमयेन ते ॥२९७ ॥ उत्पद्यन्ते च्यवन्तेऽत्र, जघन्यं गुरु चान्तरम् । समयश्च मुहूर्ताव, चतुर्विंशतिसम्मिताः ॥ २९८ ॥ एषां लेश्याः कृष्णनीलतेज:कापोतसंज़िका: । स्युचतम्रो नान्तिमे दे, तथाभवस्वभावतः ॥ २९९ ॥ किञ्चिन्यूनार्धपाथोधिजीविनोऽवधिचक्षुषा । संख्येयानि योजनानि, पश्यन्ति भवनाधिपाः ॥ ३०० ॥ परे पुनरसंख्यानि, तान्येवं तत्र भावना । यथा यथायुषो वृद्धिः, क्षेत्रवृद्धिस्तथा तथा ॥ ३०१ ॥ एवं च, अवधेविषयो नागादिषु संख्येययोजनः । असुरेषु त्वसंख्येयद्वीपवाद्धिमितो गुरः ॥ ३०२ ॥ सर्वेष्वपि लघुः पञ्चविंशत्या योजनैर्मितः । विषय: स्यात् स च दससहस्रवर्षजीविषु ॥ ३०३ ॥ भवनेशा व्यन्तराश्च, पश्यन्त्यवधिना बहु । उर्ध्वं यथासौ चमरोऽद्राक्षीत्सौधर्मवासवम् ॥ ३०४ ॥ अधस्तिर्यक् चाल्पमेवामाकृतिर्जायतेऽवधेः । तप्रस्येवायतत्र्यसस्तप्रः स विदितो जने ॥ ३०५ ॥ भवनपतिभिरेवं भूषितः स्वप्नभाभिस्तिमिरनिकरभीष्मं कोऽप्यधोलोक एषः । ततिभिरिव निशीथो दीप्रदीपाङ्कुराणामिव घनवनखण्डः पुण्डरीकैः प्रफुल्लैः ॥ ३०६ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सर्गोऽयं सुभगस्त्रयोदशतमः सार्थ : समाप्त: सुखम् ॥ ३०७ ॥ इति श्री लोकप्रकाशे त्रयोदशः सर्गः समाप्तः ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy