SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 192 रूपो रूपांशश्च रूपकान्तो रूपप्रभोऽपि च । लोकपाला अमी द्वीपकुमारचक्रवर्तिनोः ॥ २६२ ॥ जम्बूद्वीपं हस्ततलेनैकं स्थगयितुं क्षमः । पूर्णो द्वीपकुमारेन्द्रो, वसिष्ठस्तं च साधिकम् ।। २६३ ।। अथोदधिकुमारेन्द्रौ, जलकान्तजलप्रभौ । शुक्लद्यूती नीलवस्त्रावश्वरूपाङ्कभूषणौ ॥ २६४ ॥ जलश्च जलरूपश्च, जलकान्तो जलप्रभः । लोकपालाः स्युरुदधिकुमारसुरराजयोः ॥ २६५ ॥ एकेनाम्बुतरङ्गेण, जम्बूद्वीपं प्रपूरयेत् । जलकान्तः सुराधीशः, साधिकं तं जलप्रभः ॥ २६६ ॥ दिक्कुमारेशावमितगतिश्चामितवाहनः । स्वर्णगौरौ शुभ्रवस्त्रौ, गजरूपाङ्कभूषणौ ॥ २६७ ॥ एतयोस्त्वरितः क्षिप्रः, सिंहश्च सिंहविक्रमः । चत्वारो गत्युपपदा, लोकपालाः प्रकीर्त्तिताः ॥ २६८ ॥ एकपाणिप्रहारेण, जम्बूद्वीपं प्रकम्पयेत् । इन्द्रोऽमितगतिः सातिरेकं त्वमितवाहनः ।। २६९ ।। इन्द्रौ वायुकुमारेषु, वेलम्बाख्यप्रभञ्जनौ । श्यामौ सन्ध्यारागवस्त्रौ मकराङ्कितभूषणौ ॥ २७० ॥ कालश्चाथ महाकालोऽञ्जनश्च रिष्ट एव च । स्युर्लोकपाला वेलम्बप्रभञ्जनसुरेन्द्रयोः ॥ २७१ ॥ मरुत्तरङ्गेणैकेन, जम्बूद्वीपं प्रपूरयेत् । वेलम्बेन्द्रः सातिरेकं तं पूरयेत् प्रभञ्जनः ॥ २७२ ॥ इन्द्रौ घोषमहाघोषौ, स्तनिताख्यकुमारयोः । स्वर्णवर्णी शुक्लवस्त्रौ, वर्द्धमानाङ्कभूषणौ ॥ २७३ ॥ आवर्त्तो व्यावर्त्तनामा, नन्द्यावर्त्तस्तथापरः । महानन्द्यावर्त्त एते, लोकपालाः स्युरेतयोः ॥ २७४ ॥ स्तनितध्वनिनैकेन, बधिरीकर्त्तुमीश्वरः । घोषो जम्बूद्वीपमेनं, महाघोषस्तु साधिकम् ॥ २७५ ॥ एवं सर्वनिकायेषु, देवा दश दशाधिपाः । दाक्षिणात्योत्तराहेन्द्रौ लोकपालास्तथाष्ट च ॥ २७६ ॥ एवं च धरणेन्द्राद्या, इन्द्रा अष्टादशाप्यमी । स्वैः स्वैः सामानिकैस्त्रायस्त्रिशकैर्लोकपालकैः ॥ २७७ ॥ पार्षदैः त्रिविधैरग्रमहिषीभिरुपासिताः । सेनानीभिस्तथा सैन्यैः समन्तादात्मरक्षकैः ॥ २७८ ॥ दाक्षिणात्योदीच्यनिजनिकायजैः परैरपि । सेविताः स्वस्वभवनलक्षाणां दधतीशताम् ॥ २७९ ॥ रूपलावण्यसौभाग्यादिभिस्तु चमरेन्द्रवत् । महर्द्धिका महासौख्या, महाबला महोदयाः ॥ २८० ॥ एकं जम्बूद्वीपमेते, रूपैः पूरयितुं क्षमा । स्वजातीयैर्नवैस्तिर्यक्, संख्येयद्वीपवारिधीन् ॥ २८१ ॥ एवं सामानिकास्त्रायस्त्रिशका लोकपालकाः । एषामग्रमहिष्योऽपि कर्तुं विकुर्वणां क्षमाः ॥ २८२ ॥ अल्पाल्पकान् किन्तु तिर्यक्, द्विपाब्धीन् पूरयन्त्यमी । प्राच्यपुण्यप्रकर्षाप्तस्वस्वलब्ध्यनुसारतः ॥ २८३ ॥ तथाहु: । धरणेणं भंते नागकुमारिन्द्रे नागकुमारराया । इत्यादि भगवतीसूत्रे ॥ " जम्बूदीपं मेरुमूर्ध्नि, धृत्वा छत्राकृतिं क्षणात् । कर्त्तुमेषामन्यतमः, क्षमः स्वबललीलया ॥ २८४ ॥ इयं प्रत्येकं प्रागुक्ता चैषा शक्तिर्देवेन्द्रस्तवे ॥ शक्तेर्विषय एवायं, नाकरोन्न करिष्यति । न चैवं कुरुते कश्चिद्विकुर्वणादिशक्तिवत् ॥ २८५ ॥ उत्पद्यन्ते परेऽप्येवं, निकायेषु नवस्विह । सुखानि भुञ्जते देवाः, प्राच्यपुण्यानुसारतः ॥ २८६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy