________________
191
२३७ ॥
२३८ ॥
अर्ध पल्योपमं चैषां, स्थितिः क्रमात् शतद्वयम् । पञ्चविंशं द्वे शते च शतं देव्यः क्रमादिह ॥ २३६ ॥ आसां पल्योपमस्यार्धं, देशोनमर्धमेव च । सातिरेकश्च तुर्यांशः, स्थितिर्ज्ञेया यथाक्रमम् ॥ रूपा रूपांशा सुरूपा, प्रेयस्यो रूपकावती । रूपकान्ता तथा रूपप्रभास्य नागचक्रिणः ॥ आसां परिच्छदः प्राग्वल्लोकपालास्तथास्य च । कालकौलशंखशैलाः, स्युः पालोपपदा अमी ॥ सुनन्दा च सुभद्रा च, सुजाता सुमना इति । एषां चतुर्णां प्रत्येकं, चतस्रो दयिताः स्मृताः ॥ सप्त सेनान्योऽस्य दक्षः, सुग्रीवश्च सुविक्रमः । श्वेतकण्ठः क्रमान्नन्दोत्तरो रतिश्च मानसः ॥ सैन्यक्रमस्तु प्रागुक्त एव ॥
२३९ ॥
२४० ॥
२४१ ॥
षड्भिः सहसैरिन्द्रोऽयं, सामानिकैरुपासितः । त्रायस्त्रिशैः लोकपालैः, पार्षदैः सैन्यसैन्यपैः ॥ २४२ ॥ सहस्रैः षड्भिरेकैकदिश्यात्मरक्षकैः श्रितः । चतुर्विंशत्या सहसैरित्येवं सर्वसंख्यया ।। २४३ ॥ चत्वारिंशच्च भवनलक्षाणि परिपालयन् । साम्राज्यं शास्ति नागानां, न्यूनद्धिपल्यजीवितः ॥ २४४ ॥ देहवस्त्रवर्णचिन्होत्कृष्टस्थित्यादिकं भवेत् । सर्वेषां भवनेशानां स्वजातीयसुरेन्द्रवत् ॥ २४५ ॥ इन्द्राणां वक्ष्यमाणेषु, निकायेष्वष्टसु स्थितिः । तिसृणां पर्षदां देवदेवीसंख्याथ तत्स्थितिः ॥ २४६ ॥ लोकपालप्रियाभिख्या:, सामानिकात्मरक्षिणाम् । संख्याग्रमहिषीणां च, संख्यानामपरिच्छदाः ।। २४७ ।। अष्टानां दाक्षिणात्यानां विज्ञेया धरणेन्द्रवत् । अष्टानामौत्तराहाणां भूतानन्दसुरेन्द्रवत् ॥ २४८ ॥ केवलं लोकपालनां, सुरेन्द्राणां च नामसु । विशेषोऽस्ति स एवाथ, लाघवाय प्रतन्यते ।। २४९ ॥ दक्षिणोत्तरर्लोकपालानां किन्तु नामसु । सर्वत्रापि व्यतीहारः स्यात्तृतीयतुरीययोः ॥ २५० ॥ दक्षिणास्यां तृतीयो यः, तुरीयः स भवत्युदक् । दाक्षिणत्यतुरीयस्तु, स्यादुदीच्यां तृतीयकः ।। २५१ ।। वेणुदेवो वेणुदारी, स्वर्णाभौ श्वेतवाससौ । द्वौ सुपर्णकुमारेन्द्रौ गरुडाङ्कितभूषणौ ॥ २५२ ॥ चित्रो विचित्रच चित्रपक्षो विचित्रपक्षकः । एतयोरिन्द्रयोर्लोकपालाः स्युरिति नामतः ॥ २५३ ॥ जम्बूद्वीपं वेणुदेव:, पक्षेणावरितुं क्षमः । एनमेव सातिरेकं, वेणुदारी सुपर्णराट् ॥ २५४ ॥ इन्द्रौ विद्युत्कुमारेषु, हरिकान्तहरिस्सहौ । तप्तस्वर्णारुणौ नीलाम्बरौ वज्राङ्कभूषणौ ।। २५५ ।। प्रभस्तथा सुप्रभश्च, प्रभाकान्तस्तथापरः । सुप्रभाकान्त इत्येते, लोकपालाः स्युरेतयोः ॥ २५६ ॥ एका विद्युता जम्बूद्वीपं हरिः प्रकाशयेत् । विद्युत्कुमाराधिपतिः, साधिकं तं हरिस्सहः ॥ २५७ ॥ स्यातामग्निकुमारेन्द्रावग्निशिखाग्निमाणवौ । तप्तस्वर्णतनू नीलवस्त्रौ कुम्भाङ्कभूषणौ ॥ २५८ ॥ तेजस्तेजः शिखस्तेजःकान्तस्तेजः प्रभोऽपि च । एतयोः स्युलोकपाला, विशिष्टोत्कृष्टबुद्धयः ॥ २५९ ॥ एकाग्निज्वालया जम्बूद्वीपं प्लोषयितुं क्षमः । सुरेन्द्रोऽग्निशिखस्तं सातिरेकमग्निमाणवः ॥ २६० ॥ इन्द्रौ द्वीपकुमाराणां पूर्णो वसिष्ट इत्युभौ । तप्तस्वर्णप्रभौ नीलक्षौमौ सिंहाङ्गभूषणो ॥ २६१ ॥