SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 190 पल्यस्यार्धं सातिरेकमधं देशोनितं च तत् । सपञ्चसप्तति शतं, पञ्चाशं पञ्चविंशकम् ॥ २१० ॥ देव्यः पर्षत्सु देशोनं, पल्यस्यार्धमिह स्थितिः । साधिकः पल्यतुर्यांशस्तुर्यांश एव च क्रमात् ॥ २११ ॥ समिताचण्डाजयाख्याः, स्युः सभाः धरणेशितुः । अपि सामानिकत्रायस्त्रिंशानामेतदाह्वयाः ॥ २१२ ॥ लोकपालानां तथाग्रमहिषीणां भवन्ति ताः । ईषा तथान्या त्रुटिता, ततो दृढरथाभिधा ॥ २१३ ॥ शेषाणां भवनेन्द्राणां, पर्षदामभिधाः किल । तृतीयमङ्गमालोक्य, विज्ञेया धरणेन्द्रवत् ॥ २१४ ॥ स्युः षडग्रमहिष्योऽस्य, अला मक्का शतेरिका । सोदामिनीन्द्रा च घनविद्युतेति च नामतः ॥ २१५ ॥ षड्भिः सहनैः देवीनां, प्रत्येकं परिवारिताः । षट् सहस्राणि देवीनां, विकुर्वितुमपि क्षमाः ॥ २१६ ॥ शेषाणामप्यथेन्द्राणामष्टानां याम्यदिग्भुवाम् । षड् षडग्रमहिष्य: स्युरेतैरेव च नामभिः ॥ २१७ ॥ काशीनगरवास्तव्याश्चतुपञ्चाशदप्यमूः । बृहत्कन्याः स्वाभिधानुरुपाख्यपितरोऽभवन् ॥ २१८ ।। पार्श्वपार्वादत्तदीक्षाः, शिक्षिताः पुष्पचूलया । विराद्धसंयमा: पक्षं, संलिख्य च मृतास्ततः ॥ २१९ ॥ स्वाथ्यावतंसभवने, स्वाख्यसिंहासनस्पृशि । देवीत्वेन समुत्पन्नाः, सार्धपल्यमितायुषः ॥ २२० ॥ भूतानन्दाद्योत्तराहेन्द्राणामपि मन:प्रिया: । सन्ति षड् षड् वक्ष्यमाणैरुपायैः षड्भिरावयैः ॥ २२१ ॥ चतुष्पञ्चाशतोऽप्यूनपल्योपमयुगायुषाम् । प्रागासां नगरी चम्पा, वाच्या शेषमिहोक्तवत् ॥ २२२ ॥ कालपाल: कोलपाल:, शैलपालोऽस्य च क्रमात् । शंखपालश्च चत्वारो, लोकपाला: सुरेशितुः ॥ २२३ ॥ अशोका विमला चैव, सुप्रभा च सुदर्शना । एषां चतस्रो दयिताः, प्रत्येकमेतदाह्वयाः ॥ २२४ ॥ भद्रसेनोऽस्य च यशोधरः सुदर्शन: क्रमात् । नीलकण्ठस्तथानन्दो, नन्दनस्तेतलीति च ॥ २२५ ॥ पत्तिवाजीभमहिषरथाख्यानां यथाक्रमम् । नटगन्धर्वयोश्चापि, सैन्यानामधिपाः स्मृताः ॥ २२६ ॥ अस्याद्यकच्छायां पत्तिनेतुर्देवसहस्रका: । स्युरष्टाविंशतिः कच्छाः, षडन्या द्विगुणा: क्रमात् ॥ २२७ ॥ एतदेव च सप्तानां, कच्छानां मानमूह्यताम् । उक्तान्यभवनेशेन्द्रपत्तिसैन्याधिकारिणाम् ॥ २२८ ॥ षड्भिः सहनैरिन्द्रोऽयं, सामानिकैरुपासितः । पर्षत्त्रायस्त्रिंशलोकपालसैन्यतदीश्वरैः ॥ २२९ ॥ प्रत्याशं सेवित: षड्भिः, सहनैरात्मरक्षिणाम् । सर्वाग्रेण चतुर्विंशत्या सहनैर्महाबलैः ॥ २३० ॥ भवनानां चतुश्चत्वारिंशल्लक्षाणि पालयन् । समृद्धः शास्ति साम्राज्यं, सार्धपल्योपमस्थितिः ॥ २३१ ॥ दधिपाण्डुरवर्णाङ्गो, नीलाम्बरमनोरमः । सर्पस्फटाचिदशालिभूषणो गतदूषणः ॥ २३२ ॥ भूषणमत्र मुकुटो द्रष्टव्य इति जीवाभिगमवृत्तौ, एवमग्रेऽपि । एकया स्फटया जम्बूद्वीपं छादयितुं क्षमः । धरणेन्द्रः साधिकं तं, वक्ष्यमाणो भुजङ्गराट् ॥ २३३ ॥ इन्द्रो नागनिकायस्योदीच्योऽथ परिकीर्त्यते । भूतानन्दोऽस्य पर्षत्सु, तिसृष्वपि सुराः क्रमात् ॥ २३४ ॥ पञ्चाशदथ षष्टिश्च, सप्ततिश्च सहस्रका: । पल्यं देशोनमर्धं च, पल्यस्य साधिकं तथा ॥ २३५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy