SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 189 देव्योऽप्येवंविधा: कामक्रीडाविधिविचक्षणा: । घनस्तना युवजनोन्मादिलावण्ययौवनाः ॥ १८३ ॥ सप्त हस्ता: देहमानमेषामुत्कर्षतो भवेत् । अङ्गुलासंख्यांशमानमुत्पत्तौ तज्जघन्यत: ॥ १८४ ॥ लक्षयोजनमानं चोत्कर्षादुत्तरवैक्रियम् । प्रारम्भेऽङ्गुलसंख्येयभागमानं जघन्यतः ॥ १८५ ॥ एषां च दाक्षिणात्यानां, स्थितिरुत्कर्षतो भवेत् । सागरोपममेकं तदुदीच्यानां च साधिकम् ॥ १८६ ॥ देवीनां दाक्षिणात्यानां, सार्धं पल्यत्रयं स्थितिः । ज्येष्ठोत्तराहदेवीनां, सार्धं पल्यचतुष्टयम् ॥ १८७ ॥ जघन्या तु वत्सराणां, सहस्राणि दश स्थितिः । सर्वेषां मध्यमा ज्येष्ठाकनिष्ठान्तरनेकधा ॥ १८८ ॥ ज्येष्ठायुषो दाक्षिणात्या, मासाधुनोच्छ्वसन्त्यथ । आहारकांक्षिणो वर्षसहस्त्रेण भवन्ति च ॥ १८९ ॥ उदीच्या: सातिरेकेण, मासाधुनोच्छ्वसन्ति वै । साधिकाब्दसहस्रेण, भवन्त्याहारकांक्षिणः ॥ १९० ॥ मध्यमस्थितयस्त्वेते, स्वस्वस्थित्यनुसारतः । मुहूर्ताह:पृथक्त्वैः स्युरुच्छ्वासाहारकांक्षिणः ॥ १९१ ॥ जघन्यजीविनः स्तोकैः सप्तभिः प्रोच्छ्वसन्त्यमी । एकाहान्तरमाहारं, समीहंते च चेतसा ॥ १९२ ॥ तत: संकल्पमात्रेणोपस्थितैः सारपुद्गलैः । ते तृप्येयुः कावलिकाहारानपेक्षिणः सदा ॥ १९३ ॥ विषय: स्यात् गतेरेषामधस्तमस्तमावधि । तृतीयां पुनरवनी, गता यास्यन्ति च स्वयम् ॥ १९४ ॥ प्रयोजनं तत्र पूर्वरिपोः पीडाप्रवर्धनम् । प्राग्जन्मसुहृदस्तावत्कालं पीडानिवर्त्तनम् ॥ १९५ ॥ तिर्यक् चैषामसंख्याब्धिद्धीपा: स्युर्विषयो गतेः । नन्दीश्वरं पुनर्द्धिपं, गता यास्यन्ति च स्वयम् ॥ १९६ ॥ तत्र प्रयोजनं त्वर्हत्कल्याणकेषु पञ्चसु । संवत्सरचतुर्मासादिषु चाष्टाहिकोत्सवः ॥ १९७ ॥ तथैषां गतिविषय, ऊर्ध्वमप्यच्युतावधि । स्वर्ग सौधर्मं च यावत्, गता यास्यन्ति च स्वयम् ॥ १९८ ॥ प्रयोजनं तत्र भवप्रत्ययं वैरमूर्जितम् । मातङ्गपञ्चाननवदेषां वैमानिकैः सह ॥ १९९ ॥ ततो वैरादमी मत्ता, गत्वा वैमानिकाश्रयान् । कुर्वन्ति व्याकुलं स्वर्गं, त्रासयन्त्यात्मरक्षकान् ॥ २०० ॥ शक्रमप्याक्रोशयन्ति, प्रागुक्तचमरेन्द्रवत् । वैरप्रसिद्धिा केऽपि, देवदानवयोरिति ॥ २०१ ॥ रत्नान्यप्सरसस्तेषां, प्रसह्यापहरन्ति च । गत्वैकान्ते स्वानुरक्तास्ताः स्वैरं रमयन्त्यपि ॥ २० ॥ अथ नागनिकायस्य, दाक्षिणात्य: सुरेश्वरः । धरणेन्द्रो वरिवर्ति, साम्प्रतीनस्त्वसौ पुरा ॥ २०३ ॥ आसीदहिर्बहिः काशीपुरत: काननान्तरे । शुष्ककाष्टकोटरान्त:, सोऽर्कतापार्दितोऽविशत् ॥ २०४ ॥ कमठेन परिप्लुष्टः, पञ्चाग्निकष्टकारिणा । तापातः कर्षितः काष्टात्, श्रीपार्श्वन कृपालुना ॥ २०५ ॥ स चार्हद्दर्शनान्नष्टपाप्मा श्रुतनमस्कृतिः । उपार्जितोर्जितश्रेयान्, धरणेन्द्रतयाभवत् ॥ २०६ ॥ ततो मेघसूरीभूतकमठेनाकालिकाम्बुदैः । एष पार्श्वमुपद्यमानमाच्छादयत्फणैः ॥ २०७ ॥ श्रीपार्श्वस्तोत्रमंत्राख्यास्मरणात्तृष्टमानस: । अद्यापि शमयन् कष्टामिष्टानि वितरत्यसौ ॥ २०८ ॥ षष्टिश्च सप्ततिश्चैवाशीतिः क्रमात् सहस्रकाः । पर्षत्रये स्युर्देवानां, स्थितिश्चैषां यथाक्रमम् ॥ २०९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy